Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 131 * न्यायकुसुमाञ्जलि स्तबकः 4 स्वभावेति / येनापि मीमांसक(के)न विषयोपकारकमित्यनैकान्तिकत्वम् / ___108. विशेषाभावात् तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः / स्वभावनियमेन चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः / अवश्यं चैतदनुमन्तव्यम्, अतीतादिविषयत्वानुरोधात् / न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम् / असत्त्वात् / न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम् / तेन तस्यैव विषयत्वप्राप्तेः / तादात्म्याद् विशेषस्यापि सैव ज्ञाततेति चेत्, तत् किं चक्षुषा घटे ज्ञायमाने रसोऽपि ज्ञायते, तादात्म्यात् / घटाकारेण ज्ञायते एवासौ रस इति चेत् / अथ रसाकारेण किं न ज्ञायते / तेन रूपेण ज्ञाततानाधारत्वादिति चेत् / न तर्हि वर्तमानसामान्यज्ञानेऽप्यतीतानागतादिज्ञानम्, तेनााकारेण प्राकट्यानाधारत्वादिति / ननु क्रियया कर्मणि किञ्चित् कर्तव्यमिति व्याप्तेरस्त्वनुमानम् / न / अनैकान्त्यादसिद्धेर्वा न च लिङ्गमिह क्रिया / तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके // 3 // धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनेकान्तात्, न हि शरसंयोगेन गगने किञ्चित् क्रियते, अन्त्यशब्दाभिव्यक्त्या वा, स्पन्दाभिप्रायेणासिद्धेः / व्यापाराभिप्रायेण शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात्, न हि तैः प्रमेये किञ्चित् क्रियते, अपि तु प्रमातर्येव / फलाभिप्रायेणापि तथा / अन्ततस्तेनैवानेकान्तात् अनवस्थानाच्च / आशुविनाशिधर्माभिप्रायेण द्वित्वादिभिरनियमात् / _108. उत्तरार्धं व्याख्यातुमाशङ्कते - अनुभवेति ज्ञानमिष्यते / तेनापि किं विषयसम्बद्धन ज्ञानेनोपकाराधानमसम्बद्धेन वेति / पूर्वस्मिन् विषयोपकारात् प्राग् यदि ज्ञानं विषयसम्बद्धं किमुपकारेण, असम्बद्धन चेत् कथं तर्हि क्वचिदेवोपकाराधानं न सर्वत्रेति नियामकमनुस्मरता स्वभाव एवोपगन्तव्यो गत्यन्तराभावादिति तात्पर्यम् / इममेवा) विवरणव्याजेन दर्शयति - विशेषाभावादित्यादि / सुबोधम् / न तु ज्ञान[113A]क्रिया कर्मणि किञ्चित्कारिका क्रियात्वात् उद्यमन-निपातनक्रियावदित्यनुमानमस्तीति प्रमाणसिद्धमिदमित्याशयवान् शङ्कते। - नन्विति / इदमप्यनुमानं ज्ञाततायां परेषां न सम्भवतीत्याह - अनैकान्त्यादित्यादि / नन्वनुभवसिद्धां(द्ध) विषयविशेषणत्वमेव किञ्चिदस्ति, अन्यथा स युक्त इति, ततः ज्ञाने सत्ययं प्रयोगो न स्यादिति हृदि निधायाह - तद्वैशिष्ट्येति / अस्ति(धि)के ज्ञातताविशिष्टत्वानुभा(भ)वेनाध्यक्षानुभवः कुतः / तद्वैशिष्ट्यत्वा[त्] ज्ञात इत्यनुभवस्य क्रिया किं धात्वर्थमात्रं वा स्यादथ करणादिव्यापारो वा फलं वेति ? यथाऽनुक्रमं दूषयति - धात्वर्थेत्यादिना / न हीति / गगनं शरेण सं[यो]ज्यत इति कर्मत्व(त्वं) यस्येत्यन(त्र) गगनस्य / न च गगने संयोगेन किञ्चित् क्रियत इत्यर्थः / अन्त्यशब्देति अन्त्यशब्दज्ञानानन्तरम[न्]त्य[शब्द]स्य नाशात् तव(त्र) ज्ञानेन [न] किञ्चित् क्रियते इत्यर्थः / एतच्च स्वसिद्धान्तावधृतेनोक्तम् / सुबोधमितरत् / फलाभिप्रायेणेति / गमनक्रिया हि ग्रामप्राप्तिफलं(ला) / न च ग्रामप्राप्त्या ग्रामे कर्मणि किञ्चित् क्रियत इति फल(लं) कर्मणि किञ्चित्करमिति व्यभिचार इत्यर्थः / अन्तत इति / तथाहि - यत् फलं तत् प्रमेये किञ्चिदतिशयाधायक[म्], फलत्वात्, प्रयत्नवदात्मशरीरसंयोगवत् भेरीदण्डसंयोगवत् च विभागवत् चेति / अत्र फलोत्पादितस्यापि फलत्वात् फलान्तरजनकत्वमिष्यते न वा / न चेदनैकान्तता, [इष्यते] चेदनवस्थेति त्याजनीयम् / न त्वाशु 1. मुद्रितमूले प्रतीकमिदं नास्ति /
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210