Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 130 * वामध्वजकृता सृङ्केत्तटीका तर्हि स्मरणं स्यादिति चेत्, किं न स्यात् / न ह्यत्र प्रमाणमस्ति / पूर्वानुभवाकारोल्लेखः स्मृतेर्दृश्यते, सोऽन्यथा न स्यादिति चेत् / तत् किं बौद्धवद् विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्त्वयापीष्यते, तथाभूतं ज्ञानमेव वा तत्सिद्धिः ? आये तद्वदेवानैकान्तिकत्वम् / न हि यदाकारं ज्ञानं तत्पूर्वकत्वं तस्येति नियमः, अनागतज्ञाने विभ्रमे च व्यभिचारात् / द्वितीये तु स्मृतिप्रामाण्यमवर्जनीयम् / मा भूत् पूर्वानुभवसिद्धिः, किं नश्छिन्नमिति चेत् / न तर्हि स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति / न / तदप्रामाण्येऽपि पूर्वापरावस्थावदात्मप्रत्यभिज्ञानप्रामाण्यादेव तदुपपत्तेः / योऽहमन्वभवममुमर्थं सोऽहं स्मरामीति मानसप्रत्यक्षमस्तीति / न च गृहीतग्राहित्वमीश्वरज्ञानस्य, तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य / न च तदेव ज्ञानं कालभेदेनाप्रमाणम्, अनपेक्षत्वस्यापरावृत्तेः / तथापि वा अप्रामाण्येऽतिप्रसङ्गादिति / स्यादेतत् / अनुपकारकं विषयस्य, तदीयमेतदीयं वा न भवितुमर्हत्यविशेषात् / न च तस्येत्यनियतं तत्र प्रमाणमतिप्रसङ्गात् / न च तदभिज्ञमन्तरेण तदुपकारस्योत्पत्तिः, तथानभ्युपगमात् / अभ्युपगमे वा कार्यत्वस्यानैकान्तिकत्वात् / अत्रोच्यते - स्वभावनियमाभावादुपकारोऽपि दुर्घटः / सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा // 2 // 107. धारावहनबुद्धीनामप्युभयसिद्धप्रमाभावानां दोषानुप[सं]हरते(ति) / नेन्द्रियार्थसन्निकर्षजन्मत्वेन पूर्वबुद्धाव(य)पेक्षित्वमित्याशयवान् समाधत्ते - नेति / नन्वनुभवस्य पूर्वकालत्वं कुत अनुभूयते - मान[स] प्रत्यक्षत्वात् स्मृतेर्वा ? न तावदाद्यः, अनुभवसत्तादशायाम् अनुभवस्य तदानीं वर्तमानतयाऽपूर्वत्वाभासात् कथं तेन रूपेणावभासनम् असत्तादशायां तु न प्रत्यक्षज्ञानगोचरत्वम् / अथ स्मृतावेवाभासते, कथं तर्हि स्मृतेरप्रामाण्यम् ? अनुभवपूर्वताग्राहकत्वात् / अतः स्मृत्यनुभवयोः कार्यकारणभावः / एवं स्मृते(तेः) प्रमात्वमन्तरेणाशक्यप्रतिपत्तिरित्याशयवान् परं शङ्कते - न तह-त्यादि / न त त्यनेन न स्मृतिः स्मृत्यनुभवयोः कार्यकारणभावयोः ग्राहिणी / किं तर्हि ? प्रत्यभिःक्षे(भिज्ञे)ति समाधत्ते - न, तदप्रामाण्ये इति / तदुपपत्तेः स्मृत्यनुभवयोः कार्यकारणभावोपपत्तेरित्यर्थः / योऽहमन्वभवममुमर्थं सोऽहं स्मरामीति प्रत्यभिज्ञाने घटानुभवस्य स्मरणं प्रत्यन्वयनियमः प्रतीयते / अतो अन्वयनियमेनैव स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरित्यर्थः / न चेति अतिप्रसङ्गादिति / सर्वज्ञानानां द्वितीयादिक्षणे गृहीतग्रहणरूपतयाऽप्रामाण्यप्रसङ्गादित्यर्थः / न च ज्ञानानां द्वितीयादिक्षणेऽनवस्थानमिति वाच्यम् अग्रे निराकरिष्यमाणत्वात् / ननूक्तक्रमेण मा भूदि(दी)श्वरज्ञानस्याप्रामाण्यमितरत्व(था) वक्ष्यमाणप्रकारादप्रामाण्यमस्य केन वारणीयमित्याशङ्कते - स्यादेतदिति / यद्य[112B]पि परमेश्वरज्ञानं सर्वविषयं तथापि सर्वत्रानियतं न सर्वोपकाराधाना(न)मन्तरेण भवितुमर्हति / सर्वोपकाराधानेऽपि सर्वोऽयमित्युच्यमाने अस्मदादिज्ञाना[ना]मपि सर्वविषयत्वप्रसङ्गात् / स्यात् परमेश्वरज्ञानस्य सर्वत्रोपकाराधार(य)कत्वमस्मदादिज्ञानानां तु क्वचिदेवोपकाराधायकत्वमित्यकामेनापि स्वीकर्तव्यमित्यभिसन्धिता / एतदेव स्पष्टयति - न च तस्येति / तस्येदमित्येवमाकारनियमरहितं यदित्यर्थः / अस्तु तर्हि ज्ञानं विषयोपकारकमेव मीमांसकानामिवो(वे)त्यत आह - न चेति / सम्भवेदेवमनीश्वरवादे, न तु सेश्वर[वादे] इति / सम्भवः तथाहीश्वरवादे कार्यमात्रस्योपादानोपकरणाद्यभिज्ञपुरुषपूर्वकत्वेन व्याप्तेरुपकारकारणमीश्वरज्ञानमपि ज्ञातव्यं ज्ञानान्तरेण, न चैवमभ्युपगमादनवस्थाप्रसङ्गाच्च / अतस्तदभिज्ञमन्तरेण ईश्वरज्ञानाभिज्ञमन्तरेण तज्जन्यविषयोपकारस्य नोत्पत्तिरिति विषया(य)व्यवस्थायां नेश्वरज्ञानं प्रमेति पूर्वपक्षः / अत्रेश्वरानीश्वरज्ञानस्य साधारणोपक्रमेण समाधानमारभतेः -
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210