Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 134
________________ 119 * न्यायकुसुमाञ्जलि स्तबकः 3 नानुमेय इति चेत्, न / वायौ रूपवत्ताप्राकट्याभावस्याप्यसिद्धेः, रूपाभावेन समानत्वात् / व्यवहाराभावेनानुमेय इति चेत्, न / कायवाग्व्यापाराभावेऽप्युपेक्षाज्ञानाभावाभ्युपगमात्, मूकस्वप्नोपपत्तेश्च / न च व्यवहाराभावमात्रेणानुमातुमपि शक्यते / अनैकान्तिकत्वादसिद्धेश्च / तद्विषयस्तु व्यवहारस्तद्विषयज्ञानजन्यो वा, तद्विषयज्ञानजनको वा, तदाश्रयधर्मजनको वा ? तदभावश्च तज्ज्ञानतदाश्रयधर्माभावान्तर्भूत एवेत्यशक्यनिश्चय एव / आत्माश्रयेतरेतराश्रयचक्रकप्रवृत्तिप्रसङ्गात् / ___96. एवं निवारितदर्पः परः पुनरपि प्रसङ्गानन्यथासिद्धिमाशङ्कते - तथापीति / कारण(णं) कारणानां प्रत्यासत्तिरित्युभयं विकल्प्य दूषयति - नन्वित्यादिना / प्रतियोगिग्राहकेन्द्रियग्रहीतेऽधिकरणे त्वनुपलब्ध्याऽभावग्रहणमित्युपगमे प्रसङ्गमुक्तमपाकर्तुं किञ्चित् प्रकारान्त[र]माशङ्कते / अत्र च वायौ रूपाभावप्रतीतिरनुमानेन सर्वथा न संभवतीति मन्वान: परिहरति - न [अ]सिद्धेरिति / उपलक्षणमपसिद्धान्तापत्तिरपि द्रष्टव्या सर्वत्राभावाभ्युपगमने / एतदेव स्पष्टयति - न हीति / उपलम्भकार्यविरुद्धादनुमीयत इत्याशङ्कते - प्राकट्येति / निराकरोति - रूपाभावेति / [अ]सिद्धः कथमनुमापक इत्यर्थः / अथ प्रा[कट्याभावो योग्यानु]पल[ब्धिगम्यस्तर्हि रूपाभावोऽपि तथाऽ] भ्युपगन्तव्यस्तुल्ययोगक्षेमत्वात् / तत्र यद्यधिकरणस[म]वेतनः(स्य) किं(क्व)चिदुपलम्भोऽपि तद्विषयाभावग्रहेऽनुपलब्ध्याऽपेक्षणीयधत(यस्त)दा रूपाभावबोधविरहवत् प्राकट्याभावबोधवैधुर्यमप्यधिकरणसमवेत[स्य] क(क्व)चिदुपलम्भनिरपेक्षानुपलब्धिरभावबोधनीयं(या) तदा रूपाभावप्रतीतिरपि / नानुमानिकेति तात्पर्यम् / उभयसमर्थनाय शङ्कते - व्यवहाराभावेनेति / रूपोपलम्भाभावः प्राकट्याभावश्च पूर्वानुवृत्तेन सम्बन्धः। एतदपि दूषयति - अत्र किं दृश्यव्यवहारस्याभावो हेतुः अथ दृश्यादृश्यसाधारणस्य वा ? आद्यस्यानैका[न्तिक] हेतुत्वमित्याह - कायेति / द्वितीयस्या[103B]प्यनेकान्तासिद्धिरिति दर्शयति - न चेति / सा[धा]रणस्येति प्रतीतिमभ्युपेत्यानैकान्तिकत्वप्रतीतौ त्वसिद्धिरिति मन्तव्यम् / ननु द्विविधो व्यवहारः - व्यवहर्तृदेशनिरूपणीयो व्यवहर्तव्यविषयनिरूपणीयश्चेति / तत्र न प्रथमो हेतुः उक्तदोषत्वात्, द्वितीयस्तु [अ] हेतुस्तद्व्यभिचारित्वात् / तदा स्याद्यदि तत्र सर्वदा सर्वेषां व्यवहारो न भवेत् / अन्यथा तु स्वयमेव न स्यात् / न हि सकलघटसम्बन्धित्वेऽप्येकघटसम्बन्धी भूतलादिरघट इति व्यवहियत इत्याशङ्क्याऽऽह - तद्विषयस्त्विति / अयमर्थः / वायोः रूपवत्ताप्राकट्यनिवृत्तिः कि वायुव्यतिरिक्तपदार्थरूपवत्ताव्यवहारव्यावृत्त्या निरूप्यते, वायुगोचररूपवत्ताव्यवहारव्यावृत्त्या वा ? नाद्यो व्यधिकरणाया व्यवहारव्यावृत्ते[:], व्यवहारस्य वायुना सह न तावत् कश्चित् स्वतः सम्बन्धः सम्भवति, किन्तु वायुसम्बन्धधर्मजनकः संभवति, स तु वायुसम्बन्धजन्यत्वेन वा वायुसम्बद्धधर्मजनकत्वेन वा तदीयत्वं(त्वेन) वा ? [उ]च्यते / [त]था च वायुसम्बन्धव्यवहारनिवृत्त्या वायौ रूपणम. वायसम्बन्धिता च व्यवहारज्ञानविशेषः, यद्धि ज्ञान(नं) वायना सह विषयविषयिभावसम्बन्धव्यवहारे कारणतापन्न(न्नं) यथा भूतले घटस्य निषेधः, उभयवर्ती संयोगः / एव(वं) च वायुसम्बन्धव्यवहारनिवृत्त्या वायौ ज्ञानाभावनिरूपण[म्], वायौ ज्ञानाभावनि[104A]रूपणेन च वायुव्यवहाराभावनिरूपणमित्यात्माश्रयम् / तद्विषयस्तु व्यवहारः तद्विषयज्ञानजन्मा यत्वा(था) घटादौ हानादिव्यवहारो घटादिज्ञाने, यदि वा तद्विषयज्ञानजनको यथा घटादौ शब्दादिव्यवहारः, अथवा तदाश्रितधर्मजनको यथा घटादौ स्पन्दादिव्यवहारः तद्विषयप्राप्तिजनकः / तदभावश्च वायुसंसृष्टव्यवहाररूपधर्माभावश्चेत्यर्थः / यथा हि वायौ धर्मान्तराणामभावस्तादृश एव वायुसंसृष्टव्यवहारस्वरूपधर्माभावोऽपीत्यर्थः / प्रथमे दूषणम[मा]त्माश्रयः इति / वायुसंसृष्टतया व्यवहारनिवृत्तिः, [तन्निवृत्त्या] वायुगोचरज्ञाननिवृत्तिः, तदवधारणेन ज्ञानाभावनिरूपण[म्], तेनैव तन्निरूपण

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210