________________ 121 * न्यायकुसुमाञ्जलि स्तबकः 3 (दशायामि)न्द्रियसम्बन्धनिरपेक्षसापेक्षवदनुपलब्धिरप्यलिङ्गदशायां सापेक्षा लिङ्गदशायां तु निरपेक्षा भविष्यतीत्याशङ्कते - यथेति / इन्द्रियसम्बन्धमपेक्षमाणस्य योनिसम्बन्धस्यापरोक्षज्ञानजनकत्वमिति युक्तो दृष्टान्त इत्याशयेन परिहरति - न, कार्येति / ननु दार्टान्तिकेऽपि तथा भविष्यतीत्याह - प्रकृते चेति शेषः / 98. संभाव्यते तावदिति चेत्, संभाव्यताम्, न त्वेतावताऽपि तमाश्रित्य करणनियमनिश्चयः / अज्ञातकरणत्वाच्च / यदज्ञायमानकरणजं ज्ञानं तत्साक्षादिन्द्रियजम्, यथा रूपप्रत्यक्षम्, तथा च 'इह भूतले घटो नास्ति' इति ज्ञानमिति / यथा वा स्मरणमज्ञायमानकरणजं साक्षान्मनोजन्म / कुतस्तर्हि न साक्षात्कार्यनुभवरूपम् ? संस्कारातिरिक्तसन्निकर्षाभावादिति वक्ष्यामः / तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वेऽपि न साक्षादिन्द्रियजं भविष्यतीति चेत्, न / उत्सर्गस्य बाधकाभावेन सङ्कोचानुपपत्तेः / अन्यथा सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गोऽविशेषात् / तथापि विपक्षे किं बाधकमिति चेत् / नन्विदमेव तावत् / अन्यदप्युच्यमानमाकर्णय / तद् यथा अकारणककार्यप्रसङ्गो रूपाद्युपलब्धीनामपि वानिन्द्रियकरणत्वप्रसङ्गः / न ह्यनुमित्यादिभिरुपलभ्यमानकरणिकाभिश्चक्षुरादिव्यवस्थापनम्, अपि त्वनुपलभ्यमानकरणिकाभिः रूपाद्युपलब्धिभिरेव / यद्यपि साक्षात्कारितापि तत्रैव पर्यवस्यति, तथापि प्रथमतोऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने / न ह्युपलभ्यमाने करणान्तरे साक्षात्कारिणीष्वपि तासु चक्षुराद्यनुपलभ्यमानं कश्चिदकल्पयिष्यत् / अत एव साक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमुपागमन् धीराः / संस्कारस्त्वर्थविशेषप्रत्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात् / 98. सम्भाव्यतामिति / कार्यभेदसंभावनया तज्जाती[105B]यनियतस्य कारणत्वमपि सम्भाव्यते न तु निश्चीयत इत्यभिप्रायतो हेतुद्वयं विस्तरतः परोदीरितदोषापाकरणेन समर्च्य तृतीयहेतुमुपन्यस्तमनूद्य वा(व्या)चष्टे - अज्ञातेति / अत्रापीह भूतले घटो नास्तीति विज्ञानमिन्द्रियकरणकमज्ञायमानकरणजानुभवत्वादित्यभिधानं पूर्ववत् समर्थनीयम् / अथवा साक्षादिन्द्रियजमिति साध्यम् / तत्र साक्षादिति मनसा सिद्धसाध्यतानिरासार्थं शङ्कितविपक्षस्य सत्त्वोपपादनेनानैकान्तिकतां निराकरोति कुत इत्यादिना / यदि तु संस्कारापेक्षणान्मनसः स्मृतौ न करणत्वं तदा प्रत्यभिज्ञादौ चक्षुरादेरपि न करणत्वं स्यादिति भावः / ननु भावज्ञानमेवमस्तु, न त्वभावज्ञानमिति विपक्षे बाधकविरहादित्याशयवान् शङ्कते - तथापीति / अस्त्यत्र विपक्षे बाधकमिति परिहरति / उत्सर्गस्येति / उक्तबाधकमपश्यन् पुनः शङ्कते / उक्तबाधकस्मारणेन परिहरति - तथापीति / बाधकान्तरमप्याह - अकारणकेति / अस्ति तावद् रूपाद्युपलब्धिवदभावोपलब्धिः / सा यदि चक्षुरादिकरणिका न भवति तदा अकरण(णि)कैव स्यादन्यस्य करणस्यानुपलम्भादिति वाक्यार्थः / न चानुपलब्धिकरणिका भविष्यतीति वाच्यम्, रूपाद्युपलब्धरवपि(ब्धावपि) चक्षुरादिविलयप्रसङ्गात्, रूपाद्यभावानुपलब्धिस्तत्रापि वज्ञज्जलेयायमानत्वात् प्रतियोगिविशेषादेवा[106A]नुपलब्धीनामपि भेदात् / न चाभावप्रमाणस्य भावेन सम्बन्धो ना(नो)पपद्यत इति वाच्यम्, अभावप्रमाणप्रमेययोरपि तुल्यत्वादित्याशयवानाह - रूपाद्युपलब्धीनामपीति / ननु नाज्ञायमानकरणत्वेन चक्षुरादिव्यवस्थापनं किन्तु रूपाद्युपलम्भसाक्षात्कारित्वेनात आह - यद्यपीति / तत्रैवेन्द्रियकरणत्व एवेत्यर्थः / यदि पुनः साक्षात्कारित्वमेवेन्द्रियकरणसिद्धौ सर्वत्र प्रमाणं स्यात् [तदा] स्मृते[:] मन:करणत्वं नानुमीयेतेत्या 1. भ्रष्टम् /