________________ 122 * वामध्वजकृता सृङ्केतटीका शयवानाह - ननु स्मृतेः संस्कारः करणं भविष्यतीत्यत आह - संस्कारस्त्विति / इन्द्रियाणां सर्वस्मृत्यनुपपत्तेः संस्कार एव प्रत्यासत्तिरिति रहस्यम् / 99. भावावेशाच्च चेतसः / सर्वत्र हि बाह्यानुभवे जनयितव्ये भावभूतप्रमाणाविष्टमेव चेत उपयुज्यते नातोऽन्यथेति व्याप्तिः / तथैव शक्तेरवधारणात् / न ह्यनुपलब्धिमात्रसहायं तदभावेऽप्यनुभवमाधातुमुत्सहते / शब्दलिङ्गादेरपेक्षादर्शनात् / न च यत्र यदपेक्षं यस्य जनकत्वमुपलब्धं तदेव तस्यैव तदनपेक्षं जनकमिति न्यायसहम् / आर्टेन्धनसम्बन्धमन्तरेणापि दहनाद् धूमसम्भावनापत्तेः / तथा च गतं कार्यकारणभावपरिग्रहव्यसनेन / ___99. चतुर्थस्य हेतोः संगृहीतस्य विवरणम् / भावेति / चेतसो मनसो वादेशः / भावरूपप्रमाणसाहित्यमित्यर्थः / प्रयोगं दर्शयितुं व्याप्तिमाह - सर्वत्रेति / [यथा] अन्तरे सुखादावनुभूतिजनना(ने) मनसो भावात्मकप्रमाणापेक्षाऽस्तीति [तथा] बाह्या[A]नुभव इत्युक्तम् / प्रयोगस्त्विह भूतले घटो नास्तीति [अभावप्रमा]जनकं चेतो भावरूपप्रमाणापेक्षं अस्मादादित्मा(दाद्यभा)[वप्रमात्वात्].... यथाऽनुभवजनकश्चेतस्त्वादुभयाभिमतरूपाद्यनुभवजनकश्चेतोवत् / अथ भूतले घटो नास्तीति प्रतीतिः भावरूपप्रमाणापेक्षचेतोन(ज)न्या अस्मदादिबाह्यार्था(थ)प्रमात्वाऽभयाभिमतरूपादिप्रमावदि[ति] / [भूतले घटो नास्तीति अभावज्ञानं भाव] भूतकरणं बाह्यानुभवत्वाद् रूपाद्यनुभववदिति / [106B] न च प्राग्नास्तिताद्यनुभवैरनेकान्तस्तत्रापि केवलगेहस्मरणस्य चैत्रानुपलम्भविशिष्टस्य लिङ्गत्वादेव तद्व्यापकरहितत्वादीना(नां) लिङ्गत्वात् तद्व्याप्याभावानुभवादिभिरनेकान्त इति विवेचनीयम् / एतदेवाह - तथैवेति / ननु भावप्रमेये भावप्रमाणापेक्षा मनसः, अभावप्रमेये त्वनुपलम्भमात्रापेक्षं चेतो भविष्यतीति विपक्षे बाधकाभावात् संदिग्धव्यतिरेकित्वमाशय विपक्षि(क्षी) बाधकोपन्यासेन परिहरति - न हीति / शब्दलिङ्गादेरे( रि)ति / व्यवहिताद् भाव(वा) भावनिश्चयार्थमेवेत्यर्थः / 100. अपि च प्रतियोगिनि सामर्थ्याद् व्यापाराव्यवधानतः / अक्षाश्रयत्वाद् दोषाणामिन्द्रियाणि विकल्पनात् // 21 // यद्धि प्रमाणं यद्भावावगाहि तत् तदभावावगाहि यथा लिङ्ग शब्दो वा / घटाद्यवगाहि चेन्द्रियमिति / अन्यथा हि शब्दादिकमपि नाभावमावेदयत्, भाव एव सामर्थ्यावधारणात् / न चैवमेव न्याय्यम् / देवदत्तो गेहे नास्तीति शब्दात्, मया तत्र जिज्ञासमानेनापि न दृष्टो मैत्र इत्यवगतानुपलब्ध्यानुमानादप्यवगतेः / ग्राहयतु वाश्रयमिन्द्रियम्, तथापि न तेनेदं व्यवधीयते व्यापारत्वात्, अन्यथा सर्वसविकल्पकानां प्रत्यक्षत्वाय दत्तो जलाञ्जलिः स्यात् / नन्वेवं सति धूमोपलम्भोऽप्यस्य व्यापारः स्यात्, तथा च गतमनुमानेनापीति चेत्, न / यया क्रियया विना यस्य यत्कारणत्वं न निर्वहति, तं प्रति तस्या एव व्यापारत्वात् / न च धूमाधुपलब्धिमन्तरेण चक्षुषो वह्निज्ञानकारणत्वं न निर्वहति, संयोगवदिति / अस्ति च भावाभावविपर्ययः / सोऽयं यस्य दोषमनुविधत्ते तदेवात्र करणमिति न्याय्यम् / न चानुपलब्धिः स्वभावतो दुष्टा, नाप्यधिकग्रहणं प्रतियोगिस्मरणं वा स्वभावतो दुष्टम् / अनुत्पत्तिदशायामनुत्पत्तेरुत्पत्तिदशायां च स्वार्थप्रकाशनस्वभावताया अपरावृत्तेः / असंसृष्टयोरधिकरणप्रतियोगिनोः संसृष्टतया प्रतिभानं दुष्टम्, संसृष्टयोश्चासंसृष्टतयेति चेत् / नन्वयमेव विपर्ययः /