Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 93 * न्यायकुसुमाञ्जलि स्तबकः 3 मतमिति व्याख्याय तद्ग्रन्थपाठपूर्वकमुपाधिलक्षणमाह - तदयमिति / तत्र यदि साधनाव्यापकमात्रस्योपाधित्वमङ्गीक्रियते तदा सावयवत्वस्यापि कृतकत्वं प्रति उपाधित्वं स्यात् / अथ साध्यव्यापकमात्रस्योपाधित्वमुच्येत तदा कृतकत्वस्यैव सावयवत्वं प्रति उपाधित्वं स्यात् / एतदुभयमुपादेयनिश्चितोपाधिर्यथा प्रमेयत्वमनित्यत्वे, आशङ्कितोपाधिश्च यथा मित्रातनयत्वं श्यामतायामिति / पूर्वत्वकृतकत्वोपाधेः साध्यसाधन-व्यापकाव्यापकत्वविनिश्चयादिति / उत्तरत्रापि आहारविशेषपरिणतिरुपाधिः / अयं हि मित्रातनयत्वस्य [81 A] व्यापिकां(का), एतद्व्यतिरेकेऽपि मित्रातनयत्वस्य सत्त्वे बाधकाभावात् / आहारविशेषपरिणतेश्च देशकालप्राप्तिकरणशक्तिविचित्राणां हेतूनामनियमात् / व्यापकताप्रसाधकप्रमाणाभा[वा]त् साधनं प्रति अव्यापकत्वमाशङ्कितमिति / शङ्कितोपाधिरयमित्यर्थः / नन्वर्थमुपाधि(धेः) दर्शयति / तद्धर्मेति / रक्तः स्फटिकः स्फटिकत्वादुभयाभिमतस्फटिकवदित्युक्ते न स्फटिकत्वमत्र साधनं जपाकुसुमसंपर्कवशेन रक्तावभासादित्यर्थः / अध्ययनं त्वध्ययनहेतुके साहचर्ये उपाधिर्न तु गुरुशिष्यव्यवहारमात्रे / अन्यथापि गुरुशिष्यव्यवहारदर्शनादित्येवं सर्वत्र निपुणेन भवितव्यमिति तात्पर्यम् / एतेनोपहितप्रत्ययहेतुरुपाधिरिति वदता प्रयोजकाद् भेदो दर्शितः / यदि पुनर्द्वितीयसाधनमुपाधिरित्यभिधीयते तदैकस्मिन् साध्ये साधनान्तरसम्बन्धो न स्यादिति / ननु निरुपाधिः सम्बन्धो व्याप्तिः सत्तावत्संयोगसमवायतादात्म्यविशेषणविशेष्यभावत्वान्यतमो अव्यापकत्वात् / न च सर्वसाधारणसम्बन्धान्तरमभ्युपगम्यत इत्यत आह - तदनेन / 74. तादात्म्यतदुत्पत्त्योरप्येतदेव बीजम् / यदि कार्यात्मानौ कारणमात्मानं चातिपतेतां तदा तयोस्तत्त्वं व्याहन्येत / अत एव सामग्रीनिवेशिनश्चरमकारणादपि कार्यमनुमिमते सौगता अपि / तस्माद् विपक्षबाधकमेव प्रतिबन्धलक्षणम् / तथाहि / शाकद्याहारपरिणतिविरहिणि मित्रातनये न किञ्चिदनिष्टमिति नासौ तस्य व्यापिका, व्यापिका तु श्यामिकायाः, कारणत्वावधारणात् / कारणं च तत् तस्य, तदतिपत्य भवति चेति व्याहतम् / एवमन्यत्राप्यूहनीयमिति / क्व पुनरप्रयोजकोऽन्तर्भवति ? न क्वचिदित्येके / यथाहि - सिद्धसाधनं न बाधितविषयम्, विषयापहाराभावात् / नापि निर्णये सति पक्षत्वातिपातादपक्षधर्मः / कालातीतविलोपप्रसङ्गात् / न चानैकान्तिकादिः, व्यभिचाराद्यभावात् / तथाऽयमपि / सूत्रं तूपलक्षणपरमिति / तदसत् / विभागस्य न्यूनाधिकसंख्याव्यवच्छेदफलत्वात् / क्व तर्हि द्वयोरन्तर्निवेशः / असिद्ध एव / तथाहि व्याप्तस्य हि पक्षधर्मताप्रतीतिः सिद्धिः / तदभावोऽसिद्धिः। इयं च व्याप्तिपक्षपक्षधर्मतास्वरूपाणामन्यतमाप्रतीत्या भवन्ती यथासङ्ख्यमन्यथासिद्धिराश्रयासिद्धिः स्वरूपासिद्धिरित्याख्यायते / मध्यमाऽप्याश्रयस्वरूपाप्रतीत्या तद्विशेषणपक्षत्वाप्रतीत्या वेति द्वयी / तत्र चरमा सिद्धसाधनमिति व्यापदिश्यते / व्याप्तिस्थितौ पक्षत्वस्याहत्य विघटनात् / न त्वेवं बाधे व्याप्तेरेव प्रथमं विघटनादिति विशेषः / यत्त्वप्रयोजकः सन्दिग्धानैकान्तिक इत्यनैकान्तिकेऽन्तर्भाव्यते तदसत् / व्याप्त्यसिद्ध्या हि निमित्तेन व्यभिचारः शङ्कनीयः अन्यथा वा ? प्रथमे असिद्धिरेव दूषणमुपजीव्यत्वात्, नानैकान्तिकम्, उपजीवकत्वात् / अन्यथा शङ्का त्वदूषणमेव; निर्णीते तदनवकाशादिति // 7 // 74. एतेन ने(नि)यतसहभावो व्याप्तिरित्युक्तं भवति / नियमश्च [81 B] विपक्षे बाधकात् स्वपक्षानुकूलतर्कादिति / परैरपि शङ्कापसारिणोऽस्मदुक्तप्रकारोऽभ्युपेतव्यः, अन्यथा शङ्कानिवृत्तिर्दुर्लभेत्याह - तादात्म्येति /
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210