Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 94 * वामध्वजकृता सृङ्केतटीका व्यभिचारिणि कुतस्तदुत्पन्नत्वं न स्यात् तादात्म्यं वा ? अदर्शनादिति चेत्, न / किं समर्थेषा(सर्वेषा)मदर्शनमुत स्वस्य, योग्यादर्शनं वेति / नाद्यः, असिद्धः / न द्वितीयो व्यभिचारात् / न तृतीयः, सर्वे[षां व्य]भिचाराणाम् असर्वशं प्रति ग्रहणयोग्यासिद्धेः / तस्मादनिष्टप्रसङ्गेनैव व्यभिचारिणि व्याप्यवृत्तिर्वक्तव्या / तथा च तदेव बीजमित्यर्थः / एतदेव दर्शयति - यदि चेति / अत एवेति / यत एव विपक्षे बाधकादविनाभाव इत्यत्र निर्भरो(नियमो) न तु स्वभावकार्ययोरेवेत्यर्थः / तद्यथा बधिरस्य मुरजमुखाभिधाताच्छब्दानुमानं पूर्वमुक्तम् / यत्रानुकूलस्तर्को नास्ति सा(तत्रा)प्रयोजकत्वमित्यस्योदाहरणमाह - तथाहीति / नासौ तस्येति / न शाकाद्याहारपरिणतिः मित्रातनयत्वस्य व्यापिकेत्यर्थः / ननु यदि सिद्धसाधनाप्रयोजकौ अपि दूषणान्तरे एव कथं तर्हि विभागे सव्यभिचारादिपञ्चकमेव दूषणत्वेन सूत्रकृतोक्तमित्यत आह - सूत्रं त्विति / तदेवमाधिक्यं विभागसूत्रस्य विशेषविधित्वेनाधिक[82 A]निषेधफलत्वेनात्ययमित्याशयवान् साधयति तदसदित्यादिना / व्याप्तस्य निरुपाधिसाध्यसम्बन्धस्य पक्षधर्मतया संदिग्धसाध्यधर्मतया प्रतीतिसिद्धिरिति / तदभावस्तस्य निरुपाधिसाध्यसम्बन्धस्याभावः सोपाधित्वम् / एवं तस्य संदिग्धसाध्यधर्मिणस्तद्धर्मस्य वा अभाव इत्यर्थः / एतदेव [वि]वृणोति / यद्यपि संदेहस्योभयत्रापि समानत्वं तथाप्येकत्र साधकप्रमाण(णा)सद्भावेनान्यत्र बाधकप्रमाणसंभवेनेति शेषः / न च किमनेनेति वाच्यम् / साधकप्रमाणस्य स्वरूपतोऽनुकूलत्वाद् बाधक[प्रमाणस्य] स्वरूपतः प्रतिकूलत्वेन सर्ववादिसंमतत्वादिति रहस्यम् / अत एवाह - व्याप्तेरेवेति / ननु यदि व्याहत्य विघटनं तदाऽनैकान्तिकमेव दुषणम् / अथ व्याप्तेविघटनं नास्ति तदा अपक्षधर्मतैव दषणमित्यभयथापि कालातीतविलोप इति चेत / उच्यते - साध्याभावनिश्चयेन हि हेतोः पक्षधर्मता प्रत्युक्ते]ति, विपक्षवृत्तिता वा व्यवस्थाप्या भावसाध्याऽसावनिश्चयमनुद्भाव्योद्भावयितुमशक्या, तदुद्भावने तु तेनैव हेतोर्दूषितत्वाद् व्यर्थमपरस्याभिधानम् / अन्यथा विरुद्धस्यापि साध्यसाधनयोरन्यतरविरहे, साध्यविरहे अपक्षधर्मत्वं, साधनविरहे स्वरूपासिद्धत्वमिति निराकणापत्तेः / तत्र विरोधप्रतीत्युत्तरकालं तयोः प्रतीतौ विरोधस्यैव [82 B] दूषणत्वेऽन्यत्रापि बाधोत्तरकालं तयोः प्रतीतिरिति समानम्, तस्माद् विरुद्धहेत्वाभासमनभ्यु(मभ्यु)पग[त]त्वात् कालात्ययापदिष्टमपि पृथगभ्युपगन्तव्यम्, अन्यथा विरुद्धस्यापि परिहार इति दुरुत्तरम् / तदेतत् सर्वं पाखा(षा)णरेषे(खे)यमिति मन्वानो मतान्तरं विकल्प्य निराकरोति - यत्त्विति / 75. उपमानं तु बाधकमनाशङ्कनीयमेव, विषयानतिरेकादिति केचित् / तथाहि / न तावदस्य विषयः सादृश्यव्यपदेश्यं पदार्थान्तरमेव सम्भावनीयम् / __ परस्परविरोधे हि न प्रकारान्तरस्थितिः / नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः // 8 // न हि भावाभावाभ्यामन्यः प्रकारः सम्भावनीयः, परस्परविधिनिषेधरूपत्वात् / न भाव इति भावनिषेधमात्रेणैवाभावविधिः / ततस्तं विहाय कथं स्ववचनेनैव पुनः सहृदयो निषेधेन्नाभाव इति / एवं नाभाव इति निषेध एव भावविधिः / ततस्तं विहाय स्ववाचैवानुन्मत्तः कथं पुनर्निषेधेन्न भाव इति / अत एवम्भूतानामेकताप्यशक्यप्रतिपत्तिः / प्रतिषेधविध्योरेकत्रासम्भवात् / तस्माद् भावाभावावेव तत्त्वम् / भावत्वेऽपि गुणवन्निर्गुणं वेति द्वयमेव पूर्ववत् / पूर्वं द्रव्यमेव / उत्तरं चाश्रितमनाश्रितं वेति 1. भष्टः पाठः /
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210