Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 116 * वामध्वजकृता सृङ्केतटीका प्रकृते तु गेहाभावमात्रं वा हेतुः स्यात् जीवत इति विशेषितो वा ? न तावदाद्योऽनैकान्तात् / यथोक्तम् - गेहाभावस्तु यः शुद्धः इत्यादि [श्लो० वा०, अर्था०, 21] / न द्वितीयस्तव क्लृप्तः, चैत्रवद् बहिर्भावात् संदिग्धासिद्धत्वात् / यथोक्तम् - जीवतस्तु गृहाभाव इत्यादि [श्लो० वा०, अर्था० 19] / तदेतदर्थापत्तावनेनापि समानमन्यत्राभिनिवेशादित्यादिनाऽऽशङ्क्य समाहितम् - यदि तावदनुमानं न स्वीक्रियते कस्यानुपलब्धौ विरोधो वक्तव्यः / अथ स्वीक्रियते कथमनुमानप्रत्याख्यानमित्याह - न, व्याप्तिग्राहकेनेति / यो धूमः स अग्निमान् दृष्टः कथमिह न स्यादिति तर्को गृहाभाव इव प्रकृते नापि सम इत्यर्थः / उत्तरेति / [100B] अर्वाग्भागानुपलब्धिविरोधेनेत्यादिनोक्ते[रि]त्यर्थः / यथोक्तं वार्तिककृता परस्वभावाऽप्यनुमानशब्दं लभेत चेत् तदस्तु यथेप्सितम् / वेति तदपि समीकरोति / एवं तावतेति / अन्यतरेण वेत्यस्य वाकारपर एव विस्तरः / तदत्र प्रयोगः - देवदत्तो बहिरस्ति जीवनवत्त्वे गेहाभावप्रतियोगिकत्वाद् गेहेऽनुपलभ्यमानत्वात् / एवं च विवादाध्यासितो देवदत्तो गृहे नास्ति / बहिःसत्त्वप्रतिपत्तावनुमानमविनाभाव(भूत)पक्षधर्मत्वल(त्ववल्लिङ्ग)न प्रतिपत्तिसाधनत्वाद् धूमवदिति / अर्थापत्तिरनुमानमनुमानाभिन्नप्रकारत्वादुभयाभिमतानुमानवदिति / साधितं चैतत् सर्वमिति नावसर: परस्येत्याशयवानुपसंहरति - तस्मादिति / अनुपलब्धिस्त्वादावेवाशक्य परिहतेत्याह - अनुपलब्धिस्त्विति / अभावप्रमेयप्रतिपत्तावभावाख्यं पृथक् प्रमाणमङ्गीकुर्वतः परान् प्रसङ्गतो निरस्यति - न चेति / योऽभावोऽस्माभिः साक्षादेव गम्यते स प्रत्यक्षप्रमाणेन, यस्तु परोक्षः सोऽपि कश्चिदनुमानात् कश्चिदागमाच्चेति न प्रमाणान्तरावकाश इत्यर्थः / 94. तदुच्यते - प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्यानुपक्षयात् / अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः // 20 // या हि साक्षात्कारिणी प्रतीतिः सेन्द्रियकरणिका, यथा रूपादिप्रतीतिः / तथेह भूतले घटो नास्तीत्यपि / साक्षात्कारित्वमस्या असिद्धमिति चेत्, न, एकजातीयत्वे ज्ञाताज्ञातकरणत्वानुपपत्तेः / न हि तस्मिन्नेव कार्ये तदेव करणमेकदा ज्ञातमज्ञातं चैकदोपयुज्यते, लिङ्गेन्द्रिययोरपि व्यत्ययप्रसङ्गाद् ज्ञानस्याकारणत्वप्रसङ्गाच्च / न हि तदतिपत्यापि भवतस्तत्कारणत्वम्, व्याघातात् / तस्माद् ज्ञातानुपलब्धिजन्यस्यासाक्षात्कारित्वात् तद्विपरीतकारणकमिदं तद्विपरीतजातीयमिति न्याय्यम् / ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीतिं जनयति / तद् यथा निपुणतरमनुसृतो मया मन्दिरे चैत्रो न चोपलब्ध इति श्रुत्वा श्रोताऽनुमिनोति नूनं नासीदेवेति / एतेन प्राङ्नास्तितापि व्याख्याता / 94. अत्र विप्रतिपन्नं प्रति प्रमाणमाह - प्रतिपत्तेरिति / अस्मदाद्यपरोक्षप्रतिपत्तेरिन्द्रियकरणकत्वाविनाभावनियमादिन्द्रियकरणमित्यन्वयः / अनुपलब्धिरत्र करणमिन्द्रियं वेति विवादे इन्द्रियकरणसिद्धावनुपलब्धेः सहकारितया कारणत्वं निषिध्यत इत्यग्रे स्पष्टीकरिष्याम इति तात्पर्यम् / तथा नान्यत्रोपक्षीणेन्द्रियव्यापारानन्तरभाविप्रतीतार्थस्येन्द्रियकरणत्वाविनाभतत्वेनावधारणादिन्द्रियकरणमित्यर्थः / अस्मदादिबाह्या[ 101A7नभवत्वस्य भावकरणसहकृतरेतो(मनो)जन्यत्वाविनाभूतत्वनिर्न(ण)याद् यद् भावभूतं प्रकृते तदिन्द्रियमिति मन्तव्यम् / प्रथमपदं विवृणोति - या हीति / विवादाध्यासिता 'इह भूतले घटो नास्ति' इति प्रतीतिरिन्द्रियकरणिका कार्यसाक्षात्कारिप्रतीतित्वादिति / प्रतिज्ञाद्यनभिधानं ग्रन्थधर्मतया, प्रयोगकाले तु सम्पूर्णं यथा भवति तथा कर्तव्यम्,
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210