________________ 116 * वामध्वजकृता सृङ्केतटीका प्रकृते तु गेहाभावमात्रं वा हेतुः स्यात् जीवत इति विशेषितो वा ? न तावदाद्योऽनैकान्तात् / यथोक्तम् - गेहाभावस्तु यः शुद्धः इत्यादि [श्लो० वा०, अर्था०, 21] / न द्वितीयस्तव क्लृप्तः, चैत्रवद् बहिर्भावात् संदिग्धासिद्धत्वात् / यथोक्तम् - जीवतस्तु गृहाभाव इत्यादि [श्लो० वा०, अर्था० 19] / तदेतदर्थापत्तावनेनापि समानमन्यत्राभिनिवेशादित्यादिनाऽऽशङ्क्य समाहितम् - यदि तावदनुमानं न स्वीक्रियते कस्यानुपलब्धौ विरोधो वक्तव्यः / अथ स्वीक्रियते कथमनुमानप्रत्याख्यानमित्याह - न, व्याप्तिग्राहकेनेति / यो धूमः स अग्निमान् दृष्टः कथमिह न स्यादिति तर्को गृहाभाव इव प्रकृते नापि सम इत्यर्थः / उत्तरेति / [100B] अर्वाग्भागानुपलब्धिविरोधेनेत्यादिनोक्ते[रि]त्यर्थः / यथोक्तं वार्तिककृता परस्वभावाऽप्यनुमानशब्दं लभेत चेत् तदस्तु यथेप्सितम् / वेति तदपि समीकरोति / एवं तावतेति / अन्यतरेण वेत्यस्य वाकारपर एव विस्तरः / तदत्र प्रयोगः - देवदत्तो बहिरस्ति जीवनवत्त्वे गेहाभावप्रतियोगिकत्वाद् गेहेऽनुपलभ्यमानत्वात् / एवं च विवादाध्यासितो देवदत्तो गृहे नास्ति / बहिःसत्त्वप्रतिपत्तावनुमानमविनाभाव(भूत)पक्षधर्मत्वल(त्ववल्लिङ्ग)न प्रतिपत्तिसाधनत्वाद् धूमवदिति / अर्थापत्तिरनुमानमनुमानाभिन्नप्रकारत्वादुभयाभिमतानुमानवदिति / साधितं चैतत् सर्वमिति नावसर: परस्येत्याशयवानुपसंहरति - तस्मादिति / अनुपलब्धिस्त्वादावेवाशक्य परिहतेत्याह - अनुपलब्धिस्त्विति / अभावप्रमेयप्रतिपत्तावभावाख्यं पृथक् प्रमाणमङ्गीकुर्वतः परान् प्रसङ्गतो निरस्यति - न चेति / योऽभावोऽस्माभिः साक्षादेव गम्यते स प्रत्यक्षप्रमाणेन, यस्तु परोक्षः सोऽपि कश्चिदनुमानात् कश्चिदागमाच्चेति न प्रमाणान्तरावकाश इत्यर्थः / 94. तदुच्यते - प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्यानुपक्षयात् / अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः // 20 // या हि साक्षात्कारिणी प्रतीतिः सेन्द्रियकरणिका, यथा रूपादिप्रतीतिः / तथेह भूतले घटो नास्तीत्यपि / साक्षात्कारित्वमस्या असिद्धमिति चेत्, न, एकजातीयत्वे ज्ञाताज्ञातकरणत्वानुपपत्तेः / न हि तस्मिन्नेव कार्ये तदेव करणमेकदा ज्ञातमज्ञातं चैकदोपयुज्यते, लिङ्गेन्द्रिययोरपि व्यत्ययप्रसङ्गाद् ज्ञानस्याकारणत्वप्रसङ्गाच्च / न हि तदतिपत्यापि भवतस्तत्कारणत्वम्, व्याघातात् / तस्माद् ज्ञातानुपलब्धिजन्यस्यासाक्षात्कारित्वात् तद्विपरीतकारणकमिदं तद्विपरीतजातीयमिति न्याय्यम् / ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीतिं जनयति / तद् यथा निपुणतरमनुसृतो मया मन्दिरे चैत्रो न चोपलब्ध इति श्रुत्वा श्रोताऽनुमिनोति नूनं नासीदेवेति / एतेन प्राङ्नास्तितापि व्याख्याता / 94. अत्र विप्रतिपन्नं प्रति प्रमाणमाह - प्रतिपत्तेरिति / अस्मदाद्यपरोक्षप्रतिपत्तेरिन्द्रियकरणकत्वाविनाभावनियमादिन्द्रियकरणमित्यन्वयः / अनुपलब्धिरत्र करणमिन्द्रियं वेति विवादे इन्द्रियकरणसिद्धावनुपलब्धेः सहकारितया कारणत्वं निषिध्यत इत्यग्रे स्पष्टीकरिष्याम इति तात्पर्यम् / तथा नान्यत्रोपक्षीणेन्द्रियव्यापारानन्तरभाविप्रतीतार्थस्येन्द्रियकरणत्वाविनाभतत्वेनावधारणादिन्द्रियकरणमित्यर्थः / अस्मदादिबाह्या[ 101A7नभवत्वस्य भावकरणसहकृतरेतो(मनो)जन्यत्वाविनाभूतत्वनिर्न(ण)याद् यद् भावभूतं प्रकृते तदिन्द्रियमिति मन्तव्यम् / प्रथमपदं विवृणोति - या हीति / विवादाध्यासिता 'इह भूतले घटो नास्ति' इति प्रतीतिरिन्द्रियकरणिका कार्यसाक्षात्कारिप्रतीतित्वादिति / प्रतिज्ञाद्यनभिधानं ग्रन्थधर्मतया, प्रयोगकाले तु सम्पूर्णं यथा भवति तथा कर्तव्यम्,