SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 117 * न्यायकुसुमाञ्जलि स्तबकः 3 साक्षात्कारित्वविशेषणस्यासिद्धिमाशब्याज्ञातकरणकानुभवत्वेन साक्षात्कारित्वं प्रसाध्य निराकरोति साक्षात्कारित्वमित्यादिना / प्रयोगस्तु - विवादपदम् [अध्यारूढा ‘इह भूतले घटो नास्ति' इति प्रतीतिः] साक्षात्कारवद् अज्ञातकरणजाऽनुभवत्वादुभयाभिमतरूपानुभववत् / ननु स्वरूपमात्रदृष्टेऽपि गेहादौ सत्तयाऽनुपलब्धेः प्रकरणत्वाद् न च गेहस्य व्यवहितविप्रकृष्टत्वेन योग्यानुपलब्धेरभाव इति वाच्यम् / स्मरणार्हास्मरणस्य तत्रायोग्यानुपलब्धित्वात् / यत एवं च प्रत्यक्षफलस्य निवृत्त्या फलतः प्रत्यक्षनिषेधः / उक्तं च - स्वरूपमात्रं दृष्ट्वापीत्यादि [श्लो० वा०, अभाव०, 28] / न च विनिगमनायामत्र को हेतुरिति वाच्यम् / प्रतिज्ञाविरोधात् पक्षधर्मता[दि]भिः 'न चाप्यत्रानुमानत्वं लिङ्गाभावात् प्रतीयते' इति [श्लो० वा०, अभाव, 29], नासम्बन्धेन / शङ्कोत्तराभ्यां वार्तिककृता लिङ्गत्वानुपपत्ते[रिद] मुक्तत्वादिति हृदि निधायाशङ्कते - ननु क्व नामेति / उत्तरं तद्यथेति / अयमाशयः - यत्र त्वनुपलब्धचरचैत्राभाव: पृच्छ्यते तत्र नाभावं प्रतिपद्य प्रत्याययति, किन्तु तत्र मया नोपलब्ध इत्या[चक्षते], अनुपलम्भमात्रभानसं(स्य) ततः श्रोतुरनुमानमेव युज्यते / अन्यानुपलम्भस्यान्यं प्र[101B]ति लिङ्गकरणत्वेऽतिप्रसङ्गादिति वस्तुगतिः / तदत्र प्रतिपद्यमानं प्रति पर्यनुयोगः कर्तव्य: / तद्नेहं तदानीं चैत्राभाववत् समानयोगक्षेम[त्वात्] / चैत्रस्मरणैकार्था तदस्य स्मृति(तिः) कर्मत्वात् यथा प्रातर्दृष्टः संप्रति दृश्यमानोऽयं देशः। ननु प्राग् नास्तितायामिन्द्रियव्यतिरेकेणाप्यभावप्रतिपत्तेर्व्यभिचारादकारणमिन्द्रियमिति वादिध्व(दिवच)नं निराकर्तुमाह - एतेनेति / यथा शब्दादधिगतेनानुपलम्भेनाभावानुमानं युक्तं तथा प्राग्नास्तिता[ज्ञा] न[मा] नुमानिकमित्यतिदेशार्थः / न च तथाविधलिङ्गाभावादिति वाच्यम् / भवति हि तद्देवकुलं चैत्राभाववत् एकज्ञानग्रहणयोग्यस्य ज्ञायमानत्वेऽपि तत्र चैत्रवत्तयाऽज्ञायमानत्वात्, यदेवं तदेवं, यथा अघटं भूतलमिति / न च प्रदेशान्तरे घटवत्तया अज्ञायमानेन प्रदेशान्तरे च तद्वत्तया ज्ञायमानेन देवकुलेनेदमप्यनैकान्तिकमिति वाच्यं ते, प्रतिपादनविशेषणात् / न चैवं सति ज्ञानाभावस्यात्मधर्मत्वेन देवकुलधर्मत्वाभावाद् व्यधिकरणत्वाद(द्दे)वकुलज्ञानाभावयोर्विषयविषयिताभावलक्षणसम्बन्धस्यैव विद्यमानत्वात् / न च परोक्षाभावप्रतीतिरिन्द्रियव्यभिचारिणीति / साक्षात्कारवत्यपि व्यभिचरति / वह्नयादावपि साक्षात्कारप्रतीते रिन्द्रियव्यभिचा[102A]रप्रसङ्गात्; क्वचिद् वढेरप्यनुमेयत्वादिति तात्पर्यम् / ____95. ननु तथाप्यवान्तरजातिभेदोऽस्तु अज्ञातानुपलब्धिजन्ये साक्षात्कारस्तु कुत इति चेत् / कारणविरोधात् कार्यविरोधेन भवितव्यमित्युक्तमेव / अनन्यत्रोपक्षीणेन्द्रियव्यापारानन्तरभावित्वाच्च / अधिकरणम्हणे तदुपक्षीणमिति चेत्, न / अन्धस्यापि त्वगिन्द्रियोपनीते घटादौ रूपविशेषाभावप्रतीतिप्रसङ्गात् / अस्ति हि तस्याधिकरणग्रहणम्, अस्ति च प्रतियोगिस्मरणम्, अस्ति च श्यामे रक्तत्वस्य योग्यस्याभवोऽनुलब्धिश्च / अधिकरणग्राहकेन्द्रियग्राह्याभाववादिनोऽपि समानमेतदिति चेत्, न / प्रतियोगिग्राहकेन्द्रियग्राह्योऽभाव इत्यभ्युपगमात् / ममापि प्रतियोगिग्राहकेन्द्रियगृहीतेऽधिकरणे अनुपलब्धिः प्रमाणमित्यभ्युपगम इति चेत्, न / वायौ त्वगिन्द्रियोपनीते रूपाभावप्रतीत्यनुदयप्रसङ्गात् / तथापि तत्तत्र सन्निकृष्टमिति चेत् / हन्तैवमनन्यत्र चरितार्थमिन्द्रियमवश्यमपेक्षणीयं रूपाभावानुभवेन / स्यादेतत् तथापि वस्त्वन्तरग्रह एव तस्योपयोग इति चेत्, न / तस्य तं प्रत्यकारणत्वात्, कारणत्वे वा महान्धकारे करपरामर्शेन स्पर्शवद्र्व्याभावं न प्रतीयात् / प्रतीयाच्च पुरोविस्फारिताक्षः पृष्ठलग्नस्याश्यामत्वम् / आर्जवावस्थानमप्यधिकरणस्योपयुज्यते इति चेत्, तर्हि नयनसन्निकर्षोऽप्युपयोक्ष्यते,
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy