SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 118 * वामध्वजकृता सृङ्केतटीका तदेकसहकारिप्रभासन्निकर्षापेक्षणात् / अन्यथा वातायनविवरविसारिकरपरामृष्टेऽप्यधिकरणे तदुपलम्भ 95. ननु ज्ञातानुपलब्ध्याऽसाक्षात्कारजननेऽप्यज्ञातानुपलब्धिजन्येनावश्यं साक्षात्कारो नियमहेतोरनुपलम्भादिति आशयवानाशङ्कते - नन्विति / न च य[त्] सर्वं साक्षात्कारि ज्ञानं तस्य ज्ञायमानकरणजन्यत्वव्याप्तिः, तन्निवृत्तावसाक्षात्कारित्वव्यावृत्तेरवान्तरजातिसाक्षात्कारित्वस्येन्द्रियजन्यत्वप्रयुक्तत्वात् ज्ञातजन्यत्वमप्रयोयनकायोजक)मिति वाच्यम् / ज्ञातेन्द्रियसन्निकर्षजन्येन्द्रियगतिज्ञाने साक्षात्कारित्वप्रसङ्गादित्याशयवान् परिहरति - कारणविरोधादिति / द्वितीयं हेतुं विभजते / अनन्यत्रेति / इह भूतले घटो नास्तीति ज्ञानरि(ज्ञानमिन्)द्रियकरणकम् अन्यत्रोपक्षीणेन्द्रियव्यापारानन्तरभावित्वादुभयाभिमतरूपज्ञानवदिति / ननु यथा नास्मृति(त)प्रतियोगिन्यभावो गृह्यते तथा नाश्रयोऽपीति / सत्यपि सम्बन्धे आश्रयग्रहणार्थमात्रमिन्द्रियाप(पे)क्षेति विशेषणासिद्धो हेतुः / तदुक्तम् मयूरो वृक्षमारुह्य कृत्वा दिगवलोकनम् / हन्त ! भावमभावेन ज्ञात्वा नत्यति निर्भयः / / कारिकायामप्युक्तम् - 'गृहीत्वा वस्तुसद्भावम्' इति [श्लो० वा०, अभाव०, 27] हृदि निधायाशङ्कते - अधिकरणेति / अधिकरणग्रहणवदभावग्रहेऽपि चक्षुः समर्थं यथा घटग्रहे तद्रूपग्रहण इति, अन्यथा तत्रापि घटग्रहोपक्षीणत्वेन न रूपं गृह्णी[102B]यादित्याशयेन परिहरति - नान्धस्येति / तत्तत्रेति / तदिन्द्रियं तत्र वायौ इत्यर्थः / नन्वाश्रयग्रहणमत्रास्योपलक्षणमस्ति च वायौ सन्निकृष्टस्येन्द्रियस्य तद्देशाकाशादिप्रकाशकत्वमित्यन्यथासिद्धिरेवेत्याशङ्कते - स्यादेतदिति / अत्र च परः प्रष्टव्यः - तव किमिन्द्रियमभावप्रत्ययं प्रत्यकारणमेव? कारणोछेन(कारणं चेत्) एकत्वेन परम्पराकारणं वा ? नाद्यो अन्धस्यापि रूपाभावोपलम्भप्रसङ्गप्रतिहतत्वात् / न द्वितीय इत्याह - तस्येति तद्देशाकाशादिग्रहणस्य तं प्रतीत्यभावप्रत्ययं प्र[ती]त्यर्थः / ननु क एवमाह 'अकारणत्वम्' इति, अत आह - कारणत्वे इति न प्रतीयादिति / त्वगिन्द्रियेण वस्त्वन्तराग्रहणादिति भावः / ननु प्रतीयत एवाकाशमत्रापीत्यत आह - प्रतीयादिति / शङ्कते - आर्जवेति / यदि पृष्ठलग्नस्याप्रतीतावार्जवावस्थानमिष्यते तदाऽऽर्जवावस्थितेऽपि महान्धकारे प्रतीत्यर्थः(थ) प्रभासन्निकर्ष एष्टव्यः / प्रभासन्निकर्षश्चक्षुषः सहकारी नान्यस्येति हदि निधाय परिहरति - नयनेति / तदेकसहकारीति चक्षुरेकसहकारीत्यर्थः / प्रभासन्निकर्षानपेक्षत्वे त्वगिन्द्रियस्य दूषणमाह - वातायनेति / तदुपलम्भप्रसङ्गादिति रूपाभावोपलम्भप्रसङ्गादिति / प्रतियोगिग्राहकेणाश्रयग्रहणकारणं(ण)त्वस्य वायौ रूपाभावप्रतीतिपरिपन्थित्वाच्चक्षुषा यस्य कस्यचिदुपलम्भस्य प्रस्तुते[103A]ऽपि सम्भवादित्यर्थः / 96. तथापि योग्यताऽऽपादनोपक्षीणं चक्षुः / यदितरसामग्रीसाकल्ये ह्यनुपलभ्यमानस्याभावो निश्चीयते / तच्च चक्षुष्यधिकरणसन्निकृष्टे सति स्यादिति चेत् / ननु परिपूर्णानि कारणान्येव साकल्यम् / तथा च किं कुत्रोपक्षीणम् / अथान्योन्यमेलकं मिथः प्रत्यासत्त्यादिशब्दवाच्यं तदुपक्षयः, न तर्हि क्वचिच्चक्षुः कारणं स्यादिति / न हि रूपाद्युपलब्धिमप्यसन्निकृष्टमेतदुपजनयति / अथाधिकरणसमवेतकिञ्चिदुपलम्भोऽपि तद्विषयाभावग्रहेऽनुपलब्धेरपेक्षणीयः, ततस्तत्रेदं चरितार्थम्, वाय्वादिषु तु रूपाद्यभावप्रतीतिरानुमानिकी / तथा हि अनुपलब्ध्या हनुमीयते - अयं नीरूपो वायुरिति / न असिद्धेः / न ह्युपलम्भाभावो भवतामभावोपलम्भः, उपलम्भस्यातीन्द्रियत्वाभ्युपगमात् / प्राकट्याभावे
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy