SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 115 * न्यायकुसुमाञ्जलि स्तबकः 3 92. तदेवमनियम्यस्येत्यादि पूर्वार्धं प्रपञ्चतो व्याख्यायोत्तरार्धं व्याख्यातुमाशङ्कते - प्रमाणयोरिति / अनुमानं प्रमाणद्वयविरोधमुखेन प्रवर्तते, अर्थापत्तिस्तु प्रमाणद्वयविरोधेन प्रवर्तमाना तु वैधादनुमानात् भिद्यत इत्यर्थः / यथोक्तं काशि[का]कृता से[99B] यमभावानुमानयोविरोधानुपपत्तिरित्याख्यायत इति / अत्राप्यभावानुमानयोर्गृहमात्रदेशमात्रविषययोरवच्छिन्नानवच्छिन्नदेशेन(शत)या प्रमाणत्वान्न विरोधोऽभावावच्छिन्ने गृहेऽनुमानस्य बाधितविषयतयाऽप्रवृत्तेः नैकविषयत्वम्, विभिन्नविषयतया च विरोधो न भवतामपि सम्मतः सम्बन्धविरोधप्रसङ्गादित्याशयवानाह - विरोधे हीति / अथाभिन्नविषयतयेति विरोधकल्पनं क्रियमाणम् एकविषयत्वेनैव कुतो न क्रियते / एकविषयतयापि हि विरोधव्यावृत्ति(त्ते)रुपलम्भवरीयस्त्वात् कृतकत्वानित्यत्वयोरि[वे]त्यर्थः / व्यवस्थापनमित्यादि सुगमम् / विभिन्नदेशस्वभावतयेति / एकविषयतया तयोरविरोधो न विकल्प्यते / विभिन्नदेशत्वेनैवानयोर्न विरोध उपलम्भादिति यदि तत्कि विभिन्नदेशत्वेनाप्युपलम्भादुत विभिन्नदेशत्वेनैवोपलम्भात् / तत्र प्रथमे [अ]भिन्नदेशत्वेनाविरोधः कुतो न कल्प्यते / यथा हि - तयोभिन्नदेशेनादृष्टस्तथाऽभिन्नदेशेनापि / द्वितीये तु भिन्नदेशेन नियमोपलम्भाच्चेद् भिन्नदेशतयाऽविरोधकल्पनं तदा भिन्नदेशतया नियमोपलम्भाज्जीवनवतः सत्त्वासत्त्वयोभिन्नदेशेना[100A]नुमानमस्त्वलं विरोधज्ञानप्र(प्रा)माण्यानुसरणेनेति / घट्टकुट्यामिति / व्याप्तिभिया विरोधे अविरोधा[पा]दनाकारगोपेन पलायमानस्य व्याप्तावेव निपातादित्यर्थः / न ह्यभावस्य व्याप्तदेशाद् देशान्तर एव सत्त्वं भवतीति अप्रा()निश्चिते संज्ञाना(सहान)वस्थानलक्षणविरोधसिद्धिः / सदसत्त्वविषययोरनुमानाभावयोरेकर्मिधर्मद्वयग्राहकत्वाद् रूपस्पर्शग्राहकवदविरोधकत्वात् तन्निश्चये च विरोधसिद्ध्यनुगुणतया सहानवस्थानव्याप्तिप्रतिसन्धानमनिवार्यमित्यर्थः / एवमनङ्गीकुर्वतः प्रसिद्धानुमानमर्थापत्तिरिति नानुमानस्यात्र संभव इत्याह - धूमोऽपीति / 93. अर्वाग्भागानुपलब्धिविरोधेन परभागेऽस्य वह्रिरित्यापत्तिरेवेति चेत्, न / व्याप्तिग्राहकेन प्रमाणेन विरोधस्योक्तत्वात् / नाप्युत्तरार्थापत्तिः / अन्यथा पाण्डरत्वस्यापालालत्वविरोधेन पालालत्वस्थितिरित्यर्थापत्तिरेव स्यात् / तद्विशिष्टस्य तेनैव व्याप्तेर्नैवमिति चेत् / यद्येवमर्वाग्भागानुपलभ्यमानवह्नित्वेन विशिष्टस्य धूमस्य तेनैव व्याप्तेः कथमेवं भविष्यतीति तुल्यम् / केवलव्यतिरेक्यनुमानं पराभिमतमापत्तिरन्वयाभावादिति चेत् / एवं तावता विशेषेणानुमानेऽर्थापत्तिव्यवहारं न वारयामः / तत्रानुमानव्यवहारः कुत इति चेत् / अविनाभूतलिङ्गसमुत्पन्नत्वात् / साध्यधर्मेण विना ह्यभवनमन्वयिन इव व्यतिरेकिणोऽप्यविशिष्टम्, तन्निश्चयश्चान्वयव्यतिरेकाभ्यामन्यतरेण वेति / तस्मादापत्तिरित्यनुमानस्य पर्यायोऽयं तद्विशेषवचनं वा पूर्ववदादिवदिति युक्तम् / अनुपलब्धिस्तु न बाधिकेति चिन्तितम् / न च प्रत्यक्षादेरतिरिच्यते / / 93. ननु धूमोऽपीत्याद्यनुपपन्नम् / वह्निमत्तापेक्षयैव धूमस्वरूपनिश्चयात् / तावन्मात्रस्यैव च हेतुत्वात् / तदुक्तम् - धूमावगमापेक्षैव वह्निमत्ता प्रतीयते / तद्ग्रहवेलायामसंसर्गाधीनं हि किञ्चन // 1. तुलना - अग्निमत्तानपेक्षा तु धूमवत्ता प्रतीयते / न तद्ग्रहणवेलायामग्न्यधीनं हि किञ्चन || [श्लोकवार्तिक, अर्थापत्ति०, 20]
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy