SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 114 * वामध्वजकृता सृङ्केतटीका मुक्तम् - तदाप्यविद्यमानत्वं [98B] [न] सर्वत्र प्रतीयत इति [श्लोकवार्तिक, अर्थापत्ति०, 35] तदुत्थापयति - सर्वदेशेति / कुत इत्यत आह - तेषामेवेति / इन्द्रियग्रहणयोग्यानां तावदित्यर्था[नां] न तेषु देशेषु भावो गृह्यते किन्तु देशानामेव योग्यानामात्मनि शरीरेऽभावावगतिरित्यर्थः / अत्र शङ्कते - अयोग्यानामिति / योग्या ये दिव्या(देशा)स्तेषां शरीरे संसर्गो निषिध्यते योग्यानुपलम्भेन, न पुनरयोग्यदि(दे)शानां तत्र योग्यानुपलम्भस्यासमर्थत्वादित्यर्थः / समाधत्ते - तदवयवानामिति / अयोग्याः किल योग्यानां स्थूला येऽवयवा व्यणुकपरमाणवस्तेषां योग्यावयविसंसर्गनिषेधादेव योग्यावयवसंसर्गो निषिध्यते / यद् येनावयविना न संसृष्टं तत् तदवयवासंसृष्टम्, यथा पटेनासंसृष्टो घटो न तदवयवतन्तुसंसृष्ट इति व्याप्तेरित्यर्थः / अथवा अयोपे(ग्य)देशसंसर्गस्तु निषिध्यते तदवयवसंसर्गनिषेधात् / यो हि यदवयवेन संसृज्यते स तदवयविनापि संसृज्यते / अवयवसंसर्गनिषेधश्च तद्व्यापकसंसर्गनिषेधात् / व्याप्यावयवसंसर्गो हि तद्व्यापकस्पर्शो(संसर्गो)पलम्भव्याप्तः, स चातो व्यावर्तमानस्तत्संसर्गमपि व्यावर्तयेदित्यर्थः / नन्ववयवावयविविधुरातीन्द्रियसंसर्गनिषेधस्तु कथमित्यत आह - अन्येषामिति / न कदाचिद् [99A] विधिनिषेधवार्तेत्यर्थः / नन्वविनाभावोऽर्थापत्तेरनिश्चयो यद्यपि तथाप्यपक्षधर्मतयाऽनुमानादर्थापत्तेर्भेदो भविष्यति / यथोक्तम् - अभावावगताच्चैत्राद् बहिर्भावस्य सूचनम् / __पक्षधर्माद्यनङ्गत्वाद् भिन्नैषा ह्यनुमानतः // [श्लोकवार्तिक, अर्थापत्तिः, 10] इत्याशक्य निराकरोति - न चाविनाभावेति / जीवतो देवदत्तस्य गृहेऽनुपलभ्यमानत्वं देवदत्तबहि:सत्त्वाविनाभूततया निश्चितमभ्युपेतं परैरपि / ततश्च यथा धूमध्वजाविनाभूततया निश्चित: पक्षधर्मतापेक्षो [धूमः] धूमध्वजं बोधयति तथा देवदत्तस्य गृहेऽनुपलभ्यमानत्वं देवदत्तवति वहिःसत्त्वं बोधयन् न पक्षधर्मतया शक्योऽभिधातुम्, अन्यथाऽनुमानेऽप्येवं वक्तुं सुकरत्वादनुमानमप्यविनाभावनिश्चयेन गमयन्नपक्षधर्म इतरदर्थापत्तिरपि पक्षधर्म इति नास्ति लेशतोऽपि विशेष इत्याशयवतोक्तम् - पक्षधर्मताया इत्यादि / 92. प्रमाणयोर्विरोधे अर्थापत्तिरविरोधोपपादिका, न त्वेवमनुमानमित्यपि नास्ति / विरोधे हि रज्जुसर्पादिवदेकस्य बाध एव स्यान्नतूभयोः प्रामाण्यम् / प्रामाण्ये वा न विरोधः / स्थूलमिदमेकमितिवत् सह संभवात् / चैत्रोऽयमयं तु मैत्र इतिवद् वा विषयभेदात् / प्रकृते क्वाप्यस्तीति सामान्यतो गेहस्यापि प्रवेशादेकविषयताऽप्यस्तीति चेत् / यद्येवं क्वचिदस्ति क्वचिन्नास्तीतिवन्न विरोधः / अत्रापि विरोध एवेति चेत्, एकं तर्हि भज्येत / न भज्येत, अर्थापत्त्या उभयोरप्युपपादनादिति चेत् / किमनुपपद्यमानम् / विरोध एवान्यथानुपपद्यमानो विभिन्नविषयतया व्यवस्थापयतीति चेत् / अथाभिन्नविषयतयैव किं न व्यवस्थापयेत् ? व्यवस्थापनमविरोधापादनम्, एकविषयतयैव चानयोविरोधः, स कथं तयैव शमयितव्यः, न हि यो यद्विषमूर्छितः स तेनैवोत्थाप्यते इति चेत् / एकविषयतया अनयोविरोध इत्येतदेव कुतः / विभिन्नदेशस्वभावतयैव सर्वत्रोपलम्भादिति चेत् / नन्वियं व्याप्तिरेव / तथा च घट्टकुट्यां प्रभातमिति / धूमोऽपि वा अनुपपद्यमानतयैव वह्निं गमयेत्, न हि तेन विना असावुपपद्यते / विरोधोऽपि धूमाद् वह्निना भवितव्यम्, अनुपलब्धेश्च न भवितव्यमिति / तथा चानुपलब्धेरर्वाग्भागव्यवस्थापनम्, धूमस्य च व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरपत्तिरिति कुतोऽनुमानम् / वह्निमानयमित्यनुमानं व्याप्तेः / अन्यथाऽनुमानाभावे विरोधासिद्धेः / 1. श्लोकोत्तरार्धम् - न चैकदेशे नास्तित्वाद् व्याप्तिर्हेतोभविष्यति / /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy