Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 114 * वामध्वजकृता सृङ्केतटीका मुक्तम् - तदाप्यविद्यमानत्वं [98B] [न] सर्वत्र प्रतीयत इति [श्लोकवार्तिक, अर्थापत्ति०, 35] तदुत्थापयति - सर्वदेशेति / कुत इत्यत आह - तेषामेवेति / इन्द्रियग्रहणयोग्यानां तावदित्यर्था[नां] न तेषु देशेषु भावो गृह्यते किन्तु देशानामेव योग्यानामात्मनि शरीरेऽभावावगतिरित्यर्थः / अत्र शङ्कते - अयोग्यानामिति / योग्या ये दिव्या(देशा)स्तेषां शरीरे संसर्गो निषिध्यते योग्यानुपलम्भेन, न पुनरयोग्यदि(दे)शानां तत्र योग्यानुपलम्भस्यासमर्थत्वादित्यर्थः / समाधत्ते - तदवयवानामिति / अयोग्याः किल योग्यानां स्थूला येऽवयवा व्यणुकपरमाणवस्तेषां योग्यावयविसंसर्गनिषेधादेव योग्यावयवसंसर्गो निषिध्यते / यद् येनावयविना न संसृष्टं तत् तदवयवासंसृष्टम्, यथा पटेनासंसृष्टो घटो न तदवयवतन्तुसंसृष्ट इति व्याप्तेरित्यर्थः / अथवा अयोपे(ग्य)देशसंसर्गस्तु निषिध्यते तदवयवसंसर्गनिषेधात् / यो हि यदवयवेन संसृज्यते स तदवयविनापि संसृज्यते / अवयवसंसर्गनिषेधश्च तद्व्यापकसंसर्गनिषेधात् / व्याप्यावयवसंसर्गो हि तद्व्यापकस्पर्शो(संसर्गो)पलम्भव्याप्तः, स चातो व्यावर्तमानस्तत्संसर्गमपि व्यावर्तयेदित्यर्थः / नन्ववयवावयविविधुरातीन्द्रियसंसर्गनिषेधस्तु कथमित्यत आह - अन्येषामिति / न कदाचिद् [99A] विधिनिषेधवार्तेत्यर्थः / नन्वविनाभावोऽर्थापत्तेरनिश्चयो यद्यपि तथाप्यपक्षधर्मतयाऽनुमानादर्थापत्तेर्भेदो भविष्यति / यथोक्तम् - अभावावगताच्चैत्राद् बहिर्भावस्य सूचनम् / __पक्षधर्माद्यनङ्गत्वाद् भिन्नैषा ह्यनुमानतः // [श्लोकवार्तिक, अर्थापत्तिः, 10] इत्याशक्य निराकरोति - न चाविनाभावेति / जीवतो देवदत्तस्य गृहेऽनुपलभ्यमानत्वं देवदत्तबहि:सत्त्वाविनाभूततया निश्चितमभ्युपेतं परैरपि / ततश्च यथा धूमध्वजाविनाभूततया निश्चित: पक्षधर्मतापेक्षो [धूमः] धूमध्वजं बोधयति तथा देवदत्तस्य गृहेऽनुपलभ्यमानत्वं देवदत्तवति वहिःसत्त्वं बोधयन् न पक्षधर्मतया शक्योऽभिधातुम्, अन्यथाऽनुमानेऽप्येवं वक्तुं सुकरत्वादनुमानमप्यविनाभावनिश्चयेन गमयन्नपक्षधर्म इतरदर्थापत्तिरपि पक्षधर्म इति नास्ति लेशतोऽपि विशेष इत्याशयवतोक्तम् - पक्षधर्मताया इत्यादि / 92. प्रमाणयोर्विरोधे अर्थापत्तिरविरोधोपपादिका, न त्वेवमनुमानमित्यपि नास्ति / विरोधे हि रज्जुसर्पादिवदेकस्य बाध एव स्यान्नतूभयोः प्रामाण्यम् / प्रामाण्ये वा न विरोधः / स्थूलमिदमेकमितिवत् सह संभवात् / चैत्रोऽयमयं तु मैत्र इतिवद् वा विषयभेदात् / प्रकृते क्वाप्यस्तीति सामान्यतो गेहस्यापि प्रवेशादेकविषयताऽप्यस्तीति चेत् / यद्येवं क्वचिदस्ति क्वचिन्नास्तीतिवन्न विरोधः / अत्रापि विरोध एवेति चेत्, एकं तर्हि भज्येत / न भज्येत, अर्थापत्त्या उभयोरप्युपपादनादिति चेत् / किमनुपपद्यमानम् / विरोध एवान्यथानुपपद्यमानो विभिन्नविषयतया व्यवस्थापयतीति चेत् / अथाभिन्नविषयतयैव किं न व्यवस्थापयेत् ? व्यवस्थापनमविरोधापादनम्, एकविषयतयैव चानयोविरोधः, स कथं तयैव शमयितव्यः, न हि यो यद्विषमूर्छितः स तेनैवोत्थाप्यते इति चेत् / एकविषयतया अनयोविरोध इत्येतदेव कुतः / विभिन्नदेशस्वभावतयैव सर्वत्रोपलम्भादिति चेत् / नन्वियं व्याप्तिरेव / तथा च घट्टकुट्यां प्रभातमिति / धूमोऽपि वा अनुपपद्यमानतयैव वह्निं गमयेत्, न हि तेन विना असावुपपद्यते / विरोधोऽपि धूमाद् वह्निना भवितव्यम्, अनुपलब्धेश्च न भवितव्यमिति / तथा चानुपलब्धेरर्वाग्भागव्यवस्थापनम्, धूमस्य च व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरपत्तिरिति कुतोऽनुमानम् / वह्निमानयमित्यनुमानं व्याप्तेः / अन्यथाऽनुमानाभावे विरोधासिद्धेः / 1. श्लोकोत्तरार्धम् - न चैकदेशे नास्तित्वाद् व्याप्तिर्हेतोभविष्यति / /
Loading... Page Navigation 1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210