Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 95 * न्यायकुसुमाञ्जलि स्तबकः 3 द्वयमेव पूर्ववत् / तत्रोत्तरं समवाय एव / अनवस्थाभयात् / आश्रितं तु सामान्यवद् निःसामान्यं चेति पूर्ववत् द्वयमेव / तत्र प्रथममपि स्पक्तोऽस्पन्द इति द्वयमेव / एतच्च यथासङ्ख्यं कर्म गुण इति व्यपदिश्यते / निःसामान्यं निर्गुणमाश्रितं त्वेकाश्रितमनेकाश्रितं वेति प्रागिव द्वयमेव / एतदपि यथासंख्यं विशेषः सामान्यं चेत्यभिधीयते / तदेतत् सादृश्यमेतास्वेकां विधामासादयन् नातिरिच्यते / अनासादयन् न पदार्थीभूय स्थातुमुत्सहते / एतेन शक्तिसंख्यादयो व्याख्याताः / ततोऽभावेन सह सप्तैव पदार्था इति नियमः / अतो नोपमानविषयोऽर्थान्तरमिति / स्यादेतत् / भवतु सामान्यमेव सादृश्यम्, तदेव तस्य विषयः स्यात् / तत्सदृशोऽयमिति हि प्रत्ययो नेन्द्रियजन्यः, तदापातमात्रेणानुत्पत्तेरिति चेत्, न / पूर्वपिण्डानुसन्धानरूपसहकारिवैधुर्येणानुत्पत्तेः / सोऽयमिति प्रत्यभिज्ञानवदिति / नन्वेतत्सदृशः स इति नेन्द्रियजन्यम् / तेन तस्यासम्बन्धात् / न चेदं स्मरणम्, तत्पिण्डानुभवेऽपि विशिष्टस्याननुभवात् / न चैतदपि अयं स इति विपरीतप्रत्यभिज्ञानवदुपपादनीयम् / तत्तेदन्तोपस्थापनक्रमविपर्ययेऽपि विशेष्यस्येन्द्रियेण सन्निकर्षाविरोधात् / तस्य सन्निहितवर्तमानगोचरत्वात् / प्रकृते तु तदभावात् / तस्मात् तत्पिण्डस्मरणसहायमेतत्पिण्डवृत्तिसादृश्यज्ञानमेव तथाविधं ज्ञानमुत्पादयदुपमानं प्रमाणमिति / एतदपि नास्ति / 75. एवमुपलब्ध्यनुमानाभ्यां न क्षित्यादिकर्तृबाधक इति व्युत्पाद्योपमानस्याबाधकत्वं उभयसम्मतं किन्तु नियतविषयत्वादेव न तु विषयानतिरेकादिति दर्शयितुमुपमानबाधकत्वं निराचष्टे - उपमानं त्विति / केचिदिति / साङ्ख्यनैयायिकैकदेशिबौद्धप्रभृतयः / न त्वस्यातिरिक्तोऽस्ति विषयः सादृश्य[म्], न चैतदध्यक्षगम्यमिन्द्रियापातमात्रेणाप्रतिभासनात्, न च लिङ्गादिगम्यं तदनुसन्धानविरहिणोऽपि सादृश्यप्रतीतेः / प्रत्यक्षादिविषयीभूतद्रव्यादिपदार्थातिरिक्तत्वाच्च / तथाहि - न तावदेव द्रव्यम्, [न] गुणः कर्म वा, अगुणत्वात्, अगुणविषयविलक्षणबुद्धिवेद्यत्वाद् विभागाहेतुत्वात् / न सामान्याद्यन्यतमम् अनुगतव्यावृत्तबुद्ध्यहेतुत्वादिति / पदार्थान्तरमेवेति गुरुमतमाशङ्क्य निषेधति - तथाहीति / परस्परविरोधो हि परस्पराभावरूपत्वं ननु(न तु) पराभाववत्त्वम् / अतो नीलपीतयोरन्यतरनिषेधेऽपि नान्यतरविधिरिति शीतोष्णस्पर्शाद् भेद इति / इममेवार्थं [83 A] श्लोकविवरणव्याजेनाह - न हीति / पूर्ववदिति / परस्परविरोधे प्रकारान्तरासंभवादिति। इदमेव सर्वत्र योज्यम् / शक्त्यादयोऽपि पटे पदार्थानतिरेकित्वेन व्याख्येया इत्याशङ्क्याह - एतेनेति / भावरूपपदार्थातिरिक्त(क्तं) सिद्धमित्याह - तत इति / मा भूत् पदार्थातिरिक्तं तदन्तर्भूतमेवास्तु सादृश्यं तत्र प्रत्यक्षाद्यप्रवृत्तेः उपमानप्रवृत्तिरिति जरन्मीमांसकमतमपाकर्तुमुपन्यस्यति - स्यादेतदिति / नेन्द्रियजन्य इत्युपलक्षणम्, लिङ्गादिजन्योऽपि न, तत्प्रतिसन्धानविधुरस्यापि याज(जाय)मानत्वादित्यपि द्रष्टव्यम् / निराकरोति - नेति / जरन्मीमांसकमतमपाकृत्याभिनवमीमांसकशबरस्वामिमतमाशङ्कते - नन्वेतदिति / अनेन सदृशी मदीया गौरिति ज्ञानं नेन्द्रियादिजन्यमिन्द्रियसन्निकर्षलिङ्गादिप्रतिसन्धानविरहेऽपि जायमानत्वादिति / अन्यं भूषणकारदूषणमत्राशक्य निराचष्टे - तावदिदमिति' / इदं नैयायिकोक्तदूषणमुत्थाप्य निराकरोति - न चैतदपीति / एकत्व(त्र) विशेष्यस्येन्द्रियसन्निकृष्टत्वात् अन्यत्रासन्निकृष्टत्वादिति विशेष्यस्य सत्त्वादिति / अस्यापि च व्यक्त्यन्तर्भावेऽ[83 B]प्यर्थापत्तावन्तर्भाव इति नोपमानमतिरिक्तं सिद्ध्यति, अन्यथा वैधर्म्यस्यापि साधर्म्यवत् प्रमाणान्तरत्वमित्याह - एतदपीति / 1. प्रतीकमिदं मुद्रितमूले नास्ति /
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210