Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 100 * वामध्वजकृता सृङ्केत्तटीका 79. एवं तावद् नागमसम्बन्धपरिच्छेदफल इति समर्थितमिदानीमनुमानमपि तथा भवितुमर्हतीति / तदनुमानमुपन्यस्य निराकरोति - अस्त्विति / न ह्यसति 'गवय'शब्दे गवयजातीये गौणवृत्त्या लक्षणया वाऽत्र प्रयुक्त इति कथं ज्ञायते ? तत्र मुख्यत्वात् इति चेत् / न त्विदमेवानुमितेः प्रमेयं तत् कथमनुमिते पूर्वसङ्गतिमविज्ञाय वाच्यवाचकलक्षणसम्बन्धी विज्ञायते / तत्र चासिद्धमित्यर्थः / गवयसामानाधिकरण्येन गोसादृश्ये गवय इति 'गवय'शब्दवाच्यत्वस्य प्रयोगादुत्तरं गवयजातीयसामानाधिकरण्येन प्रयोगादथ गोसदृशसामानाधिकरण्ये[न] प्रयोगात् / तत्र पिण्डसामानाधिकरण्येन प्रयोगात् पिण्डस्य वाचको न च गवयत्वस्येति प्राप्तम् / तथा च नोपमानस्य स्यादिति / नोपमानभङ्ग इति मन्वानः प्रथमपक्षमपाकरोति - न पिण्डेति / गवयजातीयसामानाधिकरण्येन प्रयोगस्तु प्रमाणाभावादसिद्ध इत्याह - निमित्तेति / सादृश्यवाचकत्वं बाधकमित्याह - सादृश्येति / ननु पिण्डदर्शनात् पूर्वनिमित्तात् प्रतीतौ शब्देनेवानुमानेनापि मा भूत् परिच्छेदः, पिण्डदर्शनानन्तरं त्वनुमानेनैव समयपरिच्छेदेति(द इति) र(अ)स्तु / न च व्युत्पित्सुव्युत्पादकप्रश्नोत्तरातिदेशवाक्यप्रयोगवैयर्थ्य व्याप्तिपरत्वादुपदेशस्येति / [87B] शङ्कते - ननु इति / समाधत्ते नेति / विपर्ययादिति / अभिमतव्याप्तिविपरीतव्याप्तिप्रसङ्गादित्यर्थः / एतदेव विवृणोति - न हीति / येन सादृश्यस्य व्याप्यत्वं भवेदिति शेषः / उत्तरवाक्यमिदं प्रष्टुराकाक्षितमर्थमुपदर्शयति, न त्वन्यथेति सर्ववादिसिद्धम्, प्रष्टुश्चापेक्षा - 'गवय'शब्दवाच्यः केन साधारणेन धर्मेण युक्त इति / तत्र 'गवय'शब्दवाच्यमुद्दिश्य गोसादृश्यप्रतिपादनाद् 'यो धूमः [स] वह्निमान्' इति 'गवय'शब्दवाच्यगोसादृश्यस्याप्यनुमानात् / 'गवय'शब्दवाच्यत्वाद् गोसादृश्यानुमानादित्यर्थः / अन्यथा सूत्रार्थमाशङ्ग्यपरिहरति - अथेति / न च हस्त्यादीति / कस्य हस्त्यादीनां विपक्षत्वे प्रमाणं नास्ति किमुपदेष्टुरुतोपदेश्यस्य ? उपदेष्टस्तावद् वृद्धव्यवहारादुपदेशाद् वा अबाधितगवयशब्दवाच्यस्य प्रवृत्तिनिमित्तविपर्ययावसायबलेनैव कुञ्जरादौ 'गवय'शब्दवाच्यत्वं निश्चयम्, उपदेश्यस्य त्वेतस्मादेव वाक्याद् व्यतिरेकव्याप्तिनिश्चयः / आप्तप्रणीतत्वसंदेहान्नेदं वाक्यं निश्चायकमिति चेत् / न, तथा सत्युपमानस्याप्यनुपपत्तेरिति उच्यते / न हि 'यो गोसदृशः स गवयः' इति वाक्याद् व्यवहारे क(का) व्याप्तिः प्रतीयेत / सा हीतरव्यतिरेकव्याप्तेर्मर्यादया वाक्यादपि प्रतीयमाना अवधारितविपक्षभावे [88A] क्वचित् प्रत्येतव्या, विपक्षावधारणं च नैव प्रमाणैः, प्रत्यक्षस्य तत्रासामर्थ्यादनुमानस्य तु सर्वाप्रयोगस्येत्यादिना दूषितत्वात् / अनवगते च विपक्षे वाक्यादपि व्यतिरेकव्याप्तेः प्रतीतिः सम्भवति / न च व्यतिरेकव्याप्तिप्रतिपादकं वाक्यमस्ति / न हि 'गवय'शब्दवाच्यो गोविसदृशः इति वाक्यमस्ति / न च साक्षादप्रतीयमानेऽपि व्यतिरेके त्वत्र वाक्यस्य तात्पर्यमिति / [न] तात्पर्यबलेन व्यतिरेकावगतिरिति वाच्यम्, लक्षणवदुपलक्षणेऽपि तात्पर्यसम्भवात् / अतो व्यतिरेकव्याप्तौ तात्पर्यसंदेहात् तत्र वाक्यस्य प्रामाण्यमिति / तस्मान्न व्याप्तिपरमिदं वाक्यमिति समर्थिते अन्यपरत्वमाशङ्कते - नत्विति / निराकरोति - नेति / ' 80. न ह्यनेन लिङ्गमविज्ञाय गवयशब्दस्य वाचकत्वं कस्यचिद् वाच्यत्वं वाऽवगतं येन तदर्थः प्रश्नः स्यात् / प्रवृत्तिनिमित्तविशेषलिङ्गे प्रश्नः येन निमित्तेन गवयशब्दः प्रवर्तते तस्य किं लिङ्गमिति चेत्, न / न हि तदवश्यमनुमेयमेवेत्यनेन निश्चितं यत इदं स्यात् / ज्ञानोपायमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेत्, न / अविशेषादिन्द्रियसन्निकर्षमप्युत्तरयेत् / पर्यायान्तरं वा यथा गवयमहं कथं जानीयामिति प्रश्ने वनं गतो द्रक्ष्यसीति / यथा वा कः पिक इत्यत्र कोकिल इति / तस्माद् निमित्तभेदप्रश्न एवायम् - गवयो गवयपदवाच्यः कीदृक् केन निमित्तेनेति युक्तमुत्पश्यामः / तस्य
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210