SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 100 * वामध्वजकृता सृङ्केत्तटीका 79. एवं तावद् नागमसम्बन्धपरिच्छेदफल इति समर्थितमिदानीमनुमानमपि तथा भवितुमर्हतीति / तदनुमानमुपन्यस्य निराकरोति - अस्त्विति / न ह्यसति 'गवय'शब्दे गवयजातीये गौणवृत्त्या लक्षणया वाऽत्र प्रयुक्त इति कथं ज्ञायते ? तत्र मुख्यत्वात् इति चेत् / न त्विदमेवानुमितेः प्रमेयं तत् कथमनुमिते पूर्वसङ्गतिमविज्ञाय वाच्यवाचकलक्षणसम्बन्धी विज्ञायते / तत्र चासिद्धमित्यर्थः / गवयसामानाधिकरण्येन गोसादृश्ये गवय इति 'गवय'शब्दवाच्यत्वस्य प्रयोगादुत्तरं गवयजातीयसामानाधिकरण्येन प्रयोगादथ गोसदृशसामानाधिकरण्ये[न] प्रयोगात् / तत्र पिण्डसामानाधिकरण्येन प्रयोगात् पिण्डस्य वाचको न च गवयत्वस्येति प्राप्तम् / तथा च नोपमानस्य स्यादिति / नोपमानभङ्ग इति मन्वानः प्रथमपक्षमपाकरोति - न पिण्डेति / गवयजातीयसामानाधिकरण्येन प्रयोगस्तु प्रमाणाभावादसिद्ध इत्याह - निमित्तेति / सादृश्यवाचकत्वं बाधकमित्याह - सादृश्येति / ननु पिण्डदर्शनात् पूर्वनिमित्तात् प्रतीतौ शब्देनेवानुमानेनापि मा भूत् परिच्छेदः, पिण्डदर्शनानन्तरं त्वनुमानेनैव समयपरिच्छेदेति(द इति) र(अ)स्तु / न च व्युत्पित्सुव्युत्पादकप्रश्नोत्तरातिदेशवाक्यप्रयोगवैयर्थ्य व्याप्तिपरत्वादुपदेशस्येति / [87B] शङ्कते - ननु इति / समाधत्ते नेति / विपर्ययादिति / अभिमतव्याप्तिविपरीतव्याप्तिप्रसङ्गादित्यर्थः / एतदेव विवृणोति - न हीति / येन सादृश्यस्य व्याप्यत्वं भवेदिति शेषः / उत्तरवाक्यमिदं प्रष्टुराकाक्षितमर्थमुपदर्शयति, न त्वन्यथेति सर्ववादिसिद्धम्, प्रष्टुश्चापेक्षा - 'गवय'शब्दवाच्यः केन साधारणेन धर्मेण युक्त इति / तत्र 'गवय'शब्दवाच्यमुद्दिश्य गोसादृश्यप्रतिपादनाद् 'यो धूमः [स] वह्निमान्' इति 'गवय'शब्दवाच्यगोसादृश्यस्याप्यनुमानात् / 'गवय'शब्दवाच्यत्वाद् गोसादृश्यानुमानादित्यर्थः / अन्यथा सूत्रार्थमाशङ्ग्यपरिहरति - अथेति / न च हस्त्यादीति / कस्य हस्त्यादीनां विपक्षत्वे प्रमाणं नास्ति किमुपदेष्टुरुतोपदेश्यस्य ? उपदेष्टस्तावद् वृद्धव्यवहारादुपदेशाद् वा अबाधितगवयशब्दवाच्यस्य प्रवृत्तिनिमित्तविपर्ययावसायबलेनैव कुञ्जरादौ 'गवय'शब्दवाच्यत्वं निश्चयम्, उपदेश्यस्य त्वेतस्मादेव वाक्याद् व्यतिरेकव्याप्तिनिश्चयः / आप्तप्रणीतत्वसंदेहान्नेदं वाक्यं निश्चायकमिति चेत् / न, तथा सत्युपमानस्याप्यनुपपत्तेरिति उच्यते / न हि 'यो गोसदृशः स गवयः' इति वाक्याद् व्यवहारे क(का) व्याप्तिः प्रतीयेत / सा हीतरव्यतिरेकव्याप्तेर्मर्यादया वाक्यादपि प्रतीयमाना अवधारितविपक्षभावे [88A] क्वचित् प्रत्येतव्या, विपक्षावधारणं च नैव प्रमाणैः, प्रत्यक्षस्य तत्रासामर्थ्यादनुमानस्य तु सर्वाप्रयोगस्येत्यादिना दूषितत्वात् / अनवगते च विपक्षे वाक्यादपि व्यतिरेकव्याप्तेः प्रतीतिः सम्भवति / न च व्यतिरेकव्याप्तिप्रतिपादकं वाक्यमस्ति / न हि 'गवय'शब्दवाच्यो गोविसदृशः इति वाक्यमस्ति / न च साक्षादप्रतीयमानेऽपि व्यतिरेके त्वत्र वाक्यस्य तात्पर्यमिति / [न] तात्पर्यबलेन व्यतिरेकावगतिरिति वाच्यम्, लक्षणवदुपलक्षणेऽपि तात्पर्यसम्भवात् / अतो व्यतिरेकव्याप्तौ तात्पर्यसंदेहात् तत्र वाक्यस्य प्रामाण्यमिति / तस्मान्न व्याप्तिपरमिदं वाक्यमिति समर्थिते अन्यपरत्वमाशङ्कते - नत्विति / निराकरोति - नेति / ' 80. न ह्यनेन लिङ्गमविज्ञाय गवयशब्दस्य वाचकत्वं कस्यचिद् वाच्यत्वं वाऽवगतं येन तदर्थः प्रश्नः स्यात् / प्रवृत्तिनिमित्तविशेषलिङ्गे प्रश्नः येन निमित्तेन गवयशब्दः प्रवर्तते तस्य किं लिङ्गमिति चेत्, न / न हि तदवश्यमनुमेयमेवेत्यनेन निश्चितं यत इदं स्यात् / ज्ञानोपायमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेत्, न / अविशेषादिन्द्रियसन्निकर्षमप्युत्तरयेत् / पर्यायान्तरं वा यथा गवयमहं कथं जानीयामिति प्रश्ने वनं गतो द्रक्ष्यसीति / यथा वा कः पिक इत्यत्र कोकिल इति / तस्माद् निमित्तभेदप्रश्न एवायम् - गवयो गवयपदवाच्यः कीदृक् केन निमित्तेनेति युक्तमुत्पश्यामः / तस्य
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy