SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 101 * न्यायकुसुमाञ्जलि स्तबकः 3 च निमित्तविशेषस्य साक्षादुपदर्शयितुमशक्यत्वात् पृष्टस्तदुपलक्षणं किञ्चिदाचष्टे, तच्चोपमानसामग्रीसमुत्थापनमेव / तस्य च प्रमाणस्य सतस्तर्कः सहायतामापद्यते, सादृश्यस्यैव निमित्ततायां कल्पनागौरवम्, निमित्तान्तरकल्पने च क्लृप्तकल्प्यविरोध इति तदेव निमित्तमवगच्छतीति / लक्षणं त्वस्य - अनवगतसङ्गतिसंज्ञासमभिव्याहृतवाक्यार्थस्य संज्ञिन्यनुसन्धानमुपमानम् / वाक्यार्थश्च क्वचित् साधर्म्य क्वचिद् वैधर्म्यमतो नाव्यापकम्, तस्माद् नियतविषयत्वादेव न तेन बाधः, न त्वनतिरेकादिति स्थितिः। 80. न ह्यनेनेति / सामान्यतो निरूपिते विशेषतोऽथानिश्चिते विशेषे जिज्ञासा स्यात् / जिज्ञासाऽऽविष्करणं च प्रश्नः / न च गवयशब्दवाच(च्य)त्वे सामान्यतो लिङ्गमनेनाधिगतं न च शब्दानित्यत्वे कृतकत्वलिङ्गमिति सामान्यतोऽधिगतं विशेषतोऽनिरूपितं व्याप्तिपक्षधर्मत्वलिङ्गिनिश्चयं जनयति / तस्मादेतदप्युक्तमिति / अथ मतं गोसादृश्येन समानजातीयेभ्योऽसमानजातीयेभ्यश्च व्यावृत्त: पदार्थो य इत्युपक्रान्त: स इति सर्वनाम्ना परामृष्टो वाक्यादेवावगतः सज्जी भविष्यति / न च प्रत्यक्षः संज्ञाविषयः, सहस्राक्षादिशब्दानां सङ्केताग्रहणप्रसङ्गात् / तस्मादेवमवधारिते [88B] संज्ञिनि वाक्यादेव संज्ञासंज्ञिसम्बन्धावगमो भविष्यतीति / अत्रोच्यते गवयजातीयस्य संज्ञिनो वाक्यादनवगमात् / गोसदृशशब्दाद् सादृश्यविशिष्टः पिण्डान्तरः प्रतीयते न तु गवयजातीयं च संज्ञि, ततो न वाक्यात् संज्ञासंज्ञिसम्बन्धावगम इति / ननु सामान्यान्येव भूयांसि गुणावयवकर्मणां भिन्नं प्रधानसामान्य चोक्तं सादृश्यमुच्यते / अतो गोसदृश इत्यस्य शब्दस्यायमर्थो ग(गो)तः भिन्नजातीयः प्रचुरतर गोधर्मवांश्च, सा च जाति!सादृश्येनान्यतो व्यावृत्ता असाधारणत्वेनावगता संज्ञासंज्ञिसम्बन्धविषया भविष्यति / मनस्त्ववतामेवंजात्यभावेति सादृश्यदर्शनाद् भवेद् यथा 'अरविन्दमिव मुखम्' 'मुखमिवारविन्दम्' 'मुखमिव चन्द्रः' 'चन्द्रवन्मुखम्' इत्याधुदाहरणानि लोके भिन्नप्रधानसामान्यव्यक्तानीति तु प्रायोवादः / अतो गवयजातेरनवगमान्नास्ति व्युत्पत्तिरिति / न चेयमर्थापत्तिः स्यादिति वाच्यमर्थापत्तेर्व्यतिरेकि व्यतिरेकेणानभ्युपगमात् / व्यतिरेकिणश्चोक्तक्रमेणदूषितत्वात् / अप्रसिद्धविशेषणत्वात् / अन्यत्र तु व्यतिरेकिणः प्रमासम्प्लवेन प्रवृत्त्यभ्युपगमात् / अ[त्र] तु तद्विरहादिति [हृदि] निधायोपसंहरति - तस्मादिति / तच्चोपमानसामग्रीसमुपस्थापनं सामग्र्यनुकूलमित्यर्थः / तदेवमियता प्रबन्धेन पूर्वोक्तं समर्थितमिति / प्रयोगस्तु विवादाध्यासित: संज्ञासंज्ञिपरिच्छेदः प्रत्यक्षादि(द्य)तिरिक्तप्रमाणसाध्यः, कार्यत्वे सति तदसाध्यत्वात्, यत् कार्यत्वे [89A] सति यदि(द)साध्यं तत् तदतिरिक्तसाध्यं यथा तन्त्वाद्यसाध्ये घटस्तथाद्य(तद)तिरिक्तमृदादिसाध्यः, तथा चायम्, तस्मात् तथेति / व्यतिरेकेण चायं न प्रत्यक्षानुमित्यादिफलम्, अत: न तथा यथा घटादीत्यादि, न चायं तथा, तस्मात् तथेति / प्रमाणसिद्धसाधकमुपमानं कृत्वा लक्षणमव्याप्तिपरिहारेण विभावयति - लक्षणं त्विति / 81. शब्दोऽपि न बाधकमनुमानानतिरेकादिति वैशेषिकादयः / तथाहि यद्यप्येते पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्याधिकरणम्, पदार्थत्वादिति चानैकान्तिकम्, पदैः स्मारितत्वादित्यपि तथा / यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः / न ह्यत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषणविशेष्यभावो वा सम्भवति / ज्ञाप्यज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भाववादिभिर्नेष्यते / न च लिङ्गतया ज्ञापकत्वम्, यल्लिङ्गस्य विषयस्तदेव तस्य, परस्पराश्रयप्रसङ्गात् - तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति / तथाप्याकाङ्क्षादिमद्भिः पदैः
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy