________________ 102 * वामध्वजकृता सृङ्केतटीका स्मारितत्वाद् गामभ्याजेति पदार्थवदिति स्यात् / न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् / यद्वा - एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्त्वे सति तत्स्मारकत्वात् गामभ्याजेति पदवत् / न चैवमर्थासिद्धिः / ज्ञानावच्छेदकतयैव तत्सिद्धेः / तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वाद् न विशेषाप्रतिलम्भ इति / 81. भगवति महेश्वरे अनुमानाबाधकत्वप्रदर्शनेनैव शब्दबाधकत्वमपि निरस्तमित्याह - शब्द इति / यदा पदानि पदार्था आकांक्षादिमन्तः सन्तो अर्थप्रत्यायने लिङ्गं न तदातिरेकी शब्द इति भावः / पदार्थपदकरणपक्षं यथाक्रमं आशङ्कते - यद्यप्येत इति / यद्यपि चेति / ननु मा भूत् स्वातन्त्र्येण ज्ञापकत्वं लिङ्गतया ज्ञापकत्वमेव मत्वार्थो भविष्यतीत्याशक्य निषेधति - न चेति / शब्दस्य लिङ्गत्वेनाभिमतस्य यल्लिङ्गतया ज्ञापकत्वं तदेव तस्य तत्स्मारकत्वादित्यस्य विषय: कर्मेति / कथंकारं हि भिन्नं सत् ज्ञानलक्षणाय फलायोपयुज्यते / तत् तथेति / सर्वं सिद्धम् / कुतः ? परस्परेति / एतदेव विशदयति - तदुपलम्भे हीति / लिङ्गतया ज्ञापकत्वमनुमेयव्यापकं भवति / व्यापकोपलम्भे हि व्याप्तिनिश्चीयते / तत्र व्यापकोपलब्धौ सत्यां व्याप्तिप्रतीतिः / लिङ्गतया व्यापकस्य प्रतीतौ तदनुमानमिति / शङ्कितप्रयोगे दूषणमभिधाय प्रयोगान्तरमाशङ्कते - नन्वेवं संसर्गसामान्यमिह प्रतीयते / इह सहकारतरौ मधुरं पिको रौतीति संसर्गविशेषावगतिः कुतः सेत्स्यत्यत आह - न चेति / न हि पदार्थान् विहाय संसर्गस्यापरो विशेषोऽस्ति / [89B] तत्र पदार्थेषु धर्मिषु संसर्गे साध्यमाने तत(तः) पदार्थोपरक्तः संसर्गः सिध्यन्न विशेष एव सिध्यतीत्यर्थः / करणपक्षमाशङ्कते - यद्वा एतानि / ननु ज्ञानपूर्वकत्वे साध्ये ज्ञानपूर्वकत्वं सिध्यतु वाक्यार्थसिद्धिस्तु कुतस्त्येत्याशक्य निराकरोति - न चैवमिति / न ह्यत्र ज्ञानमात्रं सिद्ध्यति किन्तु संसर्गरूपविषयविशेषावच्छिन्नम् / तत्रापि न संसर्गमात्रेणावच्छिन्नं किन्तु स्मारिताकाक्षितयोग्यसन्निहिततत्तत्पदार्थविशेषोपरक्तसंसर्गावच्छिन्न(न्न) तथा च कत्वं(थं) न वाक्यार्थसिद्धिरित्यर्थः / तस्येति / तस्य संसर्गभेदस्य संसृज्यमानोपहितज्ञानावच्छेदकत्वात् / 82. अत्रोच्यते - अनैकान्तः परिच्छेदे सम्भवे च न निश्चयः / आकङ्क्षा सत्तया हेतुर्योग्यासत्तिरबन्धना // 13 // एते पदार्था मिथः संसर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः, सम्भावितसंसर्गा इति वा ? न प्रथमः, अनाप्तोक्तपदकदम्बस्मारितैरनैकान्तात् / आप्तोक्त्या विशेषणीयमिति चेत्, न / वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः / न ह्यविप्रलम्भकत्वमात्रमिहाप्तशब्देन विवक्षितम्, तदुक्तेरपि पदार्थसंसर्गव्यभिचारात्, अपि तु तदनुभवप्रामाण्यमपि / न चैतच्छक्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम् / भ्रान्तेः पुरुषधर्मत्वात् / तत्र क्वचिद् आप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः / ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम् / न चैतत् संसर्गविशेषमप्रतीत्य शक्यम् / बुद्धेरर्थभेदमन्तरेण निरूपयितुमशक्यत्वात् / पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित् / अनाप्तसाधारण्यात् / एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेत्, न / एतेषां संसर्गे इत्यस्या एव बुद्धरसिद्धेः / अननुभूतचरे स्मरणायोगात्, तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति / नापि द्वितीयः, 1. वाक्यार्थप्रत्यायने /