________________ 103 * न्यायकुसुमाञ्जलि स्तबकः 3 योग्यतामात्रसिद्धावपि संसर्गानिश्चयात्, वाक्यस्य च तदेकफलत्वात्, योग्यतामात्रस्य प्रागेव सिद्धेः / अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्येव हेतुः स्यात् / तथा चाग्निना सिञ्चेदित्यादिना स्मारितैरनैकान्तः / तथाविधानां सर्वथा संसर्गायोग्यत्वात् इति / द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति / तत्र केयमाकाङ्क्षा नाम ? न तावद् विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात् / नापि तद्योग्यता, योग्यतयैव गतार्थत्वात् / नाप्यविनाभावः / नीलं सरोजमित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात् / तत्रापि विशेषाक्षिप्तसामान्ययोरविनाभावोऽस्तीति चेत्, न / 'अहो विमलं जलं नद्याः कच्छे महिषश्चरति' इत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् / नापि प्रतिपत्तुर्जिज्ञासा / पटो भवतीत्यादौ शक्लादिजिज्ञासायां रक्तः पटो भवतीत्यस्यैकदेशवत सर्वदा वाक्यापर्यवसानप्रसङ्गात / 82. वैशेषिकादिमतमुत्थाप्य व्यभिचारव्यावर्तनायोपादेयं सत्तामात्रेणाकाङ्क्षाया कारणत्वादित्याह - आकाक्षेति / नन्वस्ति तर्हि योग्यासत्तिः / तन्मात्रमेव गमकमित्यत आह - योग्येति / योग्यासत्तिरबन्धना न निबन्धनमनेकान्तादिति / विषरिष्यति' / ननु कृतं संसर्गविशेषनिरूपणेन पदार्थमात्रप्रत्ययादेव बुद्धिनिरूपणादभ्रान्तत्वनिरूपणोपपत्तेरित्यत आह - पदार्थमात्रे चेति / विशेषाभ्यां नीलसरोजाभ्यामाक्षिप्तयोर्नीलत्वसरोजत्वयोः सामान्ययोः सर्वकालदेशवर्तिनोर्न व्यभिचारादित्यर्थः / अहो विमलं जलमित्यादि / नैतदपि व्यभिचारयति / अत्र हि प्रथमोपनिपातिना विमलजलपदेन पूरिताकाक्षि(क्ष)त्वान्नद्याः कच्छे इत्यादिना। अनाकाङ्कितत्वेन प्रतिबन्धिनाऽन्वय इति वाक्याभेदव्यवस्थितिः / तत्र विशेषाक्षिप्तसामान्याविनाभावश्चेदाकाङ्क्षा तमुस्य प्रकृते विमलजल[90A]नदीकच्छमहिषचरत्वयोरपि सामान्यतोऽव्यभिचारादित्यर्थः / 83. गुणक्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा / पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा / तत्र भवतीत्युक्ते किं करोतीत्येषैव पदस्मारितविषया, न तु किंरूप इत्यादिरपि / यदा तु रक्त इत्युच्यते तदा किंरूप इत्येषाऽपि स्मारितविषया स्यात् इति न किञ्चिदनुपपन्नमिति चेत् / एवं तर्हि चक्षुषी निमील्य परिभावयतु भवान् / किमस्यां जातायामन्वयप्रत्ययोऽथ ज्ञातायामिति / तत्र प्रथमे नानया व्यभिचारव्यावर्तनाय हेतुर्विशेषणीयः, मनःसंयोगादिवत् सत्तामात्रेणोपयोगात् / आसत्तियोग्यतामात्रेण विशिष्टस्तु निश्चितोऽपि न गमकः / अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभिचारात् / द्वितीयस्तु स्यादपि यद्यनुमानान्तरवत् तत्सद्भावेऽपि तज्ज्ञानवैधुर्यादन्वयप्रत्ययो न जायते / न त्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साकाङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात् / निवृत्ताकाङ्क्षस्य च तदभावात् / कथमेष निश्चयः साकाङ्क्ष एव प्रत्येति, न तु ज्ञाताकाङ्क्ष इति चेत्, तावन्मात्रेणोपपत्तावनुपलभ्यमानज्ञानकल्पनाऽनुपपत्तेः, अन्यत्र तथा दर्शनाच्च / यदा हि दूराद् दृष्टसामान्यो जिज्ञासते कोऽयमिति प्रत्यासीदंश्च स्थाणुरयमिति प्रत्येति तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थप्रत्ययो भवति / तथेहाप्यविशेषाद् विशेषोपस्थानकाले संसर्गावगतिरेव जायते, न तु जिज्ञासावगतिरिति / न च विशेषोपस्थानात् प्रागेव जिज्ञासावगतिः प्रकृतोपयोगिनी, तावन्मात्रस्यानाकाङ्क्षत्वात् / न चैवम्भूतोऽप्ययमैकान्तिको हेतुः / यदा ह्ययमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्तोच्चारयति, श्रोता च व्यासङ्गादिना निमित्तेनायमेति 1. भ्रष्टम् /