SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 104 * वामध्वजकृता सृङ्केतटीका पुत्र इत्यश्रुत्वैव राज्ञः पुरुषोऽपसार्यतामिति शृणोति, तदाऽस्त्याकाङ्क्षादिमत्त्वे सति पदकदम्बकत्वम्, न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति / 83. शङ्कते - गुणक्रियेति / पट इत्युक्ते हि तावत् केन गुणेन युक्तः किंसंस्कारकः किंक्रियश्चेति जिज्ञासा तत्र यदा भवतीत्युच्यते तदा जिज्ञासाविषयस्य क्रियाविशेषस्य पदेन स्मारणात् सैव जिज्ञासा आकाङ् क्षेत्युच्यते / नानयेति / ननु काङ्क्षायां ज्ञानं न सम्भवति / आकाङ्क्षा हीच्छा, सा चोत्पन्नैव मानसप्रत्यक्षा, अतो नापरिज्ञानसम्भवः / अज्ञाता[काङ्क्षा [या] इच्छायाः कारणत्वे हेतौ कि दूषणमुक्तं भवति / अत्रोच्यते - ते(न) हि जिज्ञासामात्रमाकाङ्क्षा किन्तु पदस्मारितविशेषविषया / न च समानप्रत्यक्षवेद्या किन्तु प्रमाणान्तरगम्या / अतस्तस्याः परिज्ञानकालो(ले) हेतुः प्रयोक्तव्यः ज्ञानकाले वा? प्रथमे विशेषण्य(णा)सिद्धिः / द्वितीये तु योग्यतासत्तिविशेषितस्य साकाङ्क्षस्यैव वाक्यार्थजनकप्रतीतित्वादुत्तरकाले शब्दादवगम(त)स्यार्थस्यानुमानपक्षे न सिद्धसाधनम् / ज्ञातैवाकाङ्क्षा वाक्यार्थप्रतीतिकारणमिति चेत् तस्यैव ज्ञानस्य वाक्यार्थप्रतीतिकारणत्वं यस्यात्तसातस्य' कार्यविपर्ययो यथा प्रतिबन्धस्य पक्षधर्मत्वस्य च, न चेह तथा / न ह्यज्ञाताकाङ्क्ष[90B]स्य वाक्यार्थप्रतिभासविपर्यासो अवधारित इति तात्पर्यमिति / तथेहापीति / यथा प्रत्यक्षे अज्ञातैव जिज्ञासा कारणं तथा शब्देऽपीति / किञ्च कदा जिज्ञासावगतिरपेक्षिता ? किं प्रतियोगिपदार्थस्मरणात् पूर्व प्रतियोगिपदार्थस्मरणकाले वा ? तदुत्तरकाले वा ? तत्र विशेषोपस्थानकाले तावत् पटमित्युक्ते हि किं करोतीति जिज्ञासायां पश्यतीत्युक्ते पटं पश्यतीत्यन्वयावगतिरुत्पद्यते / ननु जिज्ञासाज्ञानमित्याकाङ्क्षा, विशेषोपस्थानं प्रतियोगिपदार्थस्मरणं, तदनन्तराव्यवहितकाले इत्यर्थः / न च जिज्ञासाज्ञानमाकाङ्क्षाज्ञानं किन्तु पदस्मारितार्थविषयत्वे सति जिज्ञासाज्ञानम् / न च तद् वाक्यार्थावगतिकाले विद्यते / नापि ततः पूर्वं, पूर्वं हि जिज्ञासाज्ञानमस्ति न तु पदस्मारितविषयजिज्ञासाज्ञानम्, तस्मात् पूर्वमाकाङ्क्षाज्ञानं नास्त्येव / उत्तरकालीनमाकाङ्क्षाज्ञानं न वाक्यार्थप्रतीतेः कारणं, पूर्वभावित्वस्य कारणत्वात् / ज्ञायमानाकाङ्क्षायाः हेतुत्वपक्षमभ्युपगम्याह - न चैवम्भूतोऽपीति आकाङ्क्षा-दिमत्त्वेन विशेषितोऽपीत्यर्थः / न च स्मारिता[91A]र्थेति वस्तुत: पुत्रपदस्मारितार्थसंसर्गत्वाद् राजपदार्थस्ये-त्यर्थः। 84. स्यादेतत् / यावत् समभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, तथाविधस्य व्यभिचारोदाहरणासंस्पर्शात् / कुतस्तर्हि कतिपयपदश्राविणः संसर्गप्रत्ययः ? अलिङ्ग एव लिङ्गत्वाध्यारोपात् / एतावानेवायं समभिव्याहार इति तत्र श्रोतुरभिमानः / न / तत्सन्देहेऽपि श्रुतानुरूपसंसर्गावगमात् / भवति हि तत्र प्रत्ययः, न जाने किमपरमनेनोक्तमेतावदेव श्रुतं यद् राज्ञः पुरुषोऽपसार्यताम् इति / भ्रान्तिरसाविति चेत्, न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात् / न लिङ्गाभासजा, लिङ्गाभिमानाभावेऽपि जायमानत्वात् / एतादृक्पदकदम्बप्रतिसन्धानमेव तां जनयतीति चेत् / यद्येवमेतदेवादुष्टं सदभ्रान्ति जनयत् केन वारणीयम् ? व्याप्तिप्रतिसन्धानं विनापि तस्य संसर्गप्रत्यायने सामर्थ्यावधारणात्, चक्षुरादिवत् / नास्त्येव तत्र संसर्गप्रत्ययोऽसंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत्, तर्हि यावत् समभिव्याहारेणापि विशेषणे नाप्रतिकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वाभावात् / असंसर्गाऽग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत् / एवं तर्हि संसर्गो न सिद्धयेत् / आप्तवाक्येषु 1. अस्पष्टम् /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy