SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 105 * न्यायकुसुमाञ्जलि स्तबकः 3 सेत्स्यतीति चेत्, न / सर्वविषयाप्तत्वस्यासिद्धेः / यत्र क्वचिदाप्तत्वस्यानैकान्तिकत्वात् / प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्ध्यभ्युपगमादित्युक्तम् / न च सर्वत्र जिज्ञासा निबन्धनम्, अजिज्ञासोरपि वाक्यार्थप्रत्ययात् / आकाङ्क्षापदार्थस्तर्हि कः ? जिज्ञासां प्रति योग्यता / सा च पदस्मारिततदाक्षिप्तयोरविनाभावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः / न चैषोऽपि ज्ञानमपेक्षते, प्रतियोगिनिरूपणाधीननिरूपणत्वात्, तदभावनिरूपणस्य च विषयनिरूप्यत्वादिति / 84. न, तत्संदेहेऽपीति यावत् समभिव्याहारसंदेहेऽपीत्यर्थः / एतेन लिङ्गत्वाद् भेदको हेतुः सूचितः / लिङ्ग ह्याभासानाभाससाधारणैककोटिनियतानुभवविषयीकृतमेवाभासानाभाससाधारणं लिङ्गज्ञानमप्याधत्ते, न त्वसंसर्गभूतमपि एतदेवाग्रे विभावयिष्यति / लिङ्गाभिमानाभावेऽपीत्यादिना भ्रान्तिरसाविति / कतिपयपदश्राविणः असंसर्गाऽग्रह इत्यर्थः / व्याप्तिप्रतिसन्धानमिति / लङ्गं संसर्गप्रत्ययहेतुः / व्याप्तिप्रतिसन्धानविरहिणोऽपि दोषवतः सविषयविपर्ययहेतुत्वाच्चक्षुरादिवदिति / नास्त्येव तत्रेति / कतिपयपदश्रवणं यत्रेत्यर्थः / एवं परेण व्यवस्थापिते हेतावनैकान्तिकतामाह - सिद्धयभ्युपगमादिति / अभ्युपगमप्रसङ्गादित्यर्थः / तदेवं पदस्मारितपदार्थजिज्ञासा आकाक्षेत्यङ्गीकृत्योक्तम्, सम्प्रति तामव्यापकतया समास्कन्दितुमाह - न च सर्वत्रेति / यदि प्रतिपत्तुजिज्ञासा आकाङ्क्षा भवति, सैव तावत् पदस्मारितविषया नाकाङ्क्षा, ताकाङ्क्षा केति आशयवान् पृच्छति / आकाक्षेति / उत्तरम् - जिज्ञासामिति / अथ योग्यतैव केत्यत आह - सा चेति / पदस्मारितेति / शब्दस्मारितयोरविनाभावो यथौदनं पचतीति / कारकं क्रियाऽविनाभूतम्, क्रिया च कारकान्विता / आक्षिप्तयोरविनाभावो यथा नीलं सरोजमस्तीति / विशेषाक्षिप्तयोर्नीलत्वसरोजत्वयोरविनाभावः / तथापि प्रतिपादयितरि संसर्गावगतिप्रागभावो नास्तीत्यत उक्तं श्रोतरीति / तथापि वाक्यान्तरेण संसर्गावगतौ संसर्गज्ञानप्रागभावो नास्तीत्यत उक्तम् - तदुत्पाद्येति / संदृष्टार्थपरत्वे [91B] सति वा संसर्गावगतिप्रागभाव आकाङ्क्षा, तदेवमाकाङ्क्षायोग्यतासत्तिमत्पदकदम्बकं वाक्यमिति सिद्धम् / अस्य प्रत्युदाहरणं गौरश्वपुरुषो हस्तीति / अन्वये बाधकाभावो योग्यता / अस्य प्रत्युदाहरणमग्निना सिञ्चेदिति / आकाङ्क्षानन्तरं बुद्धिविपरिवृत्तिः सन्निधिः / अस्य प्रत्युदाहरणं गिरिः देवदत्तेन भुक्तमग्निमानिति / एवं ता[व]द् वैशेषिकादिमतव्युदासेन शब्दोऽनुमानाद् व्यतिरिक्त इति समथितः / 85. प्राभाकरास्तु - लोकवेदसाधारणव्युत्पत्तिबलेनान्विताभिधानं प्रसाध्य वेदस्यापौरुषेयतया वक्तृज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमास्थिषत / लोके त्वनुमानत एव वक्तृज्ञानोपसर्जनतया संसर्गस्य सिद्धेरन्विताभिधानबलायातेऽपि प्रतिपादकत्वेऽनुवादकतामात्रं वाक्यस्येति निर्णीतवन्तः / तदतिस्थवीयः - निर्णीतशक्तेर्वाक्याद्धि प्रागेवार्थस्य निर्णये / व्याप्तिस्मृतिविलम्बन लिङ्गस्यैवानुवादिता // 14 // यावती हि वेदे सामग्री तावत्येव लोकेऽपि भवन्ती कथमिव नार्थं गमयेत्, न ह्यपेक्षणीयान्तरमस्ति, लिङ्गे तु परिपूर्णेऽप्यवगते व्याप्तिस्मृतिरपेक्षणीयाऽस्तीति विलम्बेन किं निर्णेयम् ? अन्वयस्य प्रागेव प्रतीतेः / लोके वक्तुराप्तत्वनिश्चयोऽपेक्षणीय इति चेत्, न / तद्रहितस्यापि स्वार्थप्रत्यायने शब्दस्य शक्तेरवधारणात् / अन्यथा वेदेऽप्यर्थप्रत्ययो न स्यात्, तदभावात् / न च लोके
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy