SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 106 * वामध्वजकृता सङ्केतटीका अन्यान्येव पदानि येन शक्तिवैचित्र्यं स्यात् / अनाप्तोक्तौ व्यभिचारदर्शनात् तुल्याऽपि सामग्री सन्देहेन शिथिलायते इति चेत्, न / चक्षुरादौ व्यभिचारदर्शनेन शङ्कायामपि सत्यां ज्ञानसामग्रीतस्तदुत्पत्तिदर्शनात् / ज्ञायमानस्यायं विधिर्यत्सन्देहे सति निश्चायकं यथा लिङ्गम्, चक्षुरादि तु सत्तयेति चेत्, न / वाक्यस्य निश्चितत्वात्, फलप्रामाण्यसन्देहस्य च फलोत्तरकालीनत्वात् / आप्तोक्तत्वस्य चार्थप्रत्ययं प्रत्यनङ्गत्वात् / लोकेऽपि चाप्तत्वानिश्चयेऽपि वाक्यार्थप्रतीतेः / भवति हि वेदानुकारेण पठ्यमानेषु मन्वादिवाक्येषु अपौरुषेयत्वाभिमानिनो गौडमीमांसाकस्यार्थनिश्चयः / न चासौ भ्रान्तिः, पौरुषेयत्वनिश्चयदशायामपि तथा निश्चयादिति / 85. प्रत्य[क्षा]नुमानातिरिक्तशब्दप्रमाणवादिनः प्राभाकरस्य वैदिकलौकिकशब्दयोरर्थप्रतिपादने अवान्तरविशेषमातिष्ठमानस्य तद्विशेषविशेषनिराकरणेन तुल्यत्वमुभयशब्दयोर्दर्शयितुर्मतमुत्थापयति - प्राभाकरास्त्विति / लोके त्विति / लौकिकं हि वाक्यं द्विविधं दृष्टं व्यभिचारि चाव्यभिचारि च / अतः श्रूयमाणेषु वाक्येषु भवति व्यभिचारसंशयः / तत्र व्यभिचारशङ्कानिराकरणार्थं वाक्यार्थविषयं वक्तुआनमनुमातव्यम् / तस्मिंश्चानुमिते व्यभिचारशङ्कायां निरस्तायां निरस्तव्यभिचाराशङ्क(ङ्का) वाक्यार्थ()विरोधकाम्(धिका) / अतो वाक्यस्य वाक्यार्थज्ञानानुमानापेक्षस्य स्वार्थप्रतिपादकत्वात् स्मृतिवत् स्वविषयपरिच्छेदे पूर्वप्रमाणापेक्षत्वात् तदप्रामाण्यमनुवादकत्वं चेति तात्पर्यम् / तदुक्तम् - तस्य ज्ञानं च वाक्येन लिङ्गभूतेन कल्प्यते / न च वाच्यं लिङ्गत्वेऽप्यनाप्तोक्तौ व्यभिचार इति / वाक्याद् हि कार्यकारणवत् वक्तृज्ञानस्यानुमानात् / यथोक्तम् - वक्तुर्ज्ञानप्रभूतं हि वाक्यं तत्कार्यमिष्यते / कार्यात् [92A] कारणसिद्धिश्च सर्वेषामनुमानतः // नन्वेवमन्वितमभिदधति पदानीति सुप्तप्रलाप इति चेत्, मैवम्, तेनार्थे निश्चिते पश्चात् सोऽर्थो वाक्यस्य गम्यते / तस्यां दशायां वाक्यस्य तस्मादनुवी(वा)दिता / ननु तथापि तेन रूपेण प्रमाणत्वाद् गर्दभीक्षीरमथनवदफलोऽन्विताभिधानवादप्रयास इति चेत्, न, वेदे वक्तृज्ञानानुमानावकाशे तदुपयोगात् / अत एवोक्तम् - लोकवेदेति / तदेतत्प्राभाकरमतमुपन्यस्य निरस्यति - निर्णीतेति / अनाप्तोक्तत्वादिति / यथोक्तम् - पदानां तत्पदार्थेषु शक्तिः स्वाभाविकी मता / वाक्येषु विसंवादेन संहिता तु तिरोहिता // संदेहेनेति / वाक्यस्वरूपे संदेहः किं वा तज्जनितज्ञानप्रामाण्ये वा आप्तोक्तत्वविनिश्चये वेति / आद्ये वाक्यस्येति / द्वितीये फलेति / तृतीये आप्तेति / ननु वाक्यस्य व्यभिचारिज्ञानजनकत्वमव्यभिचारिज्ञानजनकत्वं च दृष्टम् अतः तत्संशय एव वाक्यार्थनिश्चयपरिपन्थिता / अत्रोच्यते - शङ्कायाः प्रतिपक्षत्वं तस्यां सत्यां वाक्यार्थप्रयवि(प्रत्यय)विपर्ययोपलब्धिनिश्चीयते, तत: सं[देहात्] प्रमाणान्तराद् वा / नाद्यः, व्यभिचारशङ्कायां वाक्यार्थप्रत्ययो नास्तीति परिभाव[न]या / न द्वितीयः, अव्यभिचारिनिश्चयनिरपेक्षस्यैव प्रमाणस्य व्यभिचारसंदेहार्थप्रतीतिजनकत्वादर्शनात् / अन्यथा यद्धि(यद्वि)ज्ञातम) प्रमितिसाधनं तत् स्वार्थव्याप्तिनिश्चयसापेक्षमेवेति / वेदस्याप्यनुमानत्वप्रसङ्गात् / तस्मादयुक्तमेतदपीति / 86. स्यादेतत्, नाप्तोक्तत्वमर्थप्रतीतेरङ्गमिति ब्रूमः, किन्त्वनाप्तोक्तत्वशङ्कानिरासः, स च क्वचिदपौरुषेयत्वनिश्चयात्, क्वचिदाप्तोक्तत्वावधारणादिति चेत् / तत् किमपौरुषेयत्वस्याप्रतीतौ सन्देहे
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy