________________ 107 * न्यायकुसुमाञ्जलि स्तबकः 3 वा वेदवाक्याद् विदितपदार्थसङ्गतेरर्थप्रत्यय एव न भवेत्, भवन्नपि वा न श्रद्धेयः ? प्रथमे सत्यादय एव प्रमाणम् / न चासंसर्गाग्रहे तदानीं संसर्गव्यवहारः, बाधकस्यात्यन्तमभावात् / तथापि तत्कल्पनायामन्वयोच्छेदप्रसङ्गात् / द्वितीये त्वश्रद्धा प्रत्यक्षवन्निमित्तान्तरान्निवय॑तीति वेदे यदि, लोकेऽपि तथा स्यादविशेषात् / अन्यथा वेदस्याप्यनुवादकताप्रसङ्गः / तदुच्यते - व्यस्तपुंदूषणाशङ्कः स्मारितत्वात् पदैरमी / अन्विता इति निर्णीते वेदस्यापि न तत् कुतः // 15 // यदा ह्यपौरुषेयत्वनिश्चयात् प्राग् वेदो न किञ्चिदभिधत्ते इति पक्षः तदाऽऽप्तोक्तत्वनिश्चयोत्तरकालं लोकवद् वेदेऽप्यपौरुषेयत्वनिश्चयात् पश्चादनुमानावतारः / इयांस्तु विशेषो यदत्र पदार्थानेव पक्षीकृत्य निरस्तपुंदोषाशङ्कराकाङ्क्षादिमद्भिः पदैः स्मारितत्वादाप्तोक्तपदकदम्बकस्मारितपदार्थवत् संसर्ग एवाहत्य साध्यो बुद्धिव्यवहितस्त्वितरत्रेति फलतो न कश्चिद् विशेष इति / तथा चान्विताभिधानेऽपि जघन्यत्वाद् वेदस्यानुवादकत्वप्रसङ्गः / न चैवं सति तत्र प्रमाणमस्ति / विशिष्टप्रतिपत्त्यन्यथानुपपत्त्या हि शब्दस्य तत्र शक्तिः परिकल्पनीया, सा चानुमानेनैवोपपन्नेति वृथा प्रयासः / तस्माल्लोके शब्दस्यानुवादकतेति विपरीतकल्पनेयमायुष्मताम् / ___86. अनाप्तोक्तत्वशङ्कानिरासत्वमित्युपलक्षणं चेदम् / यथार्थतात्पर्यावधारणमप्यर्थप्रतीतेरङ्गम् / यथार्थतात्पर्यावधारणं तु क्वचिदाप्तोक्तत्वविनिश्चयात् क्वचिदपौरुषेय[92B]त्वनिश्चयादित्यपि द्रष्टव्यम् / सत्यादय इत्यर्थः / बाधकस्येति / ननु च यथार्थतात्पर्यावधारणं वाक्यार्थप्रत्याय[न] कर्तव्ये सहकारी [वा] अनाप्तोक्तत्वशङ्कानिरासो वा ? एतदुभयमपि चाऽपौरुषेयत्वनिश्चयात् पूर्वं न सम्भवति / अतः संसर्गप्रत्ययकारणाभावस्य बाधकस्य सत्त्वादसंसर्गाग्रहादेव संसर्गव्यवहार इति चेत्, मैवम्, असंसर्गाग्रहस्य संसर्गव्यवहारहेतुत्वाभावात्, तद्धेतुत्वे वा शब्दप्रमाणोच्छेदप्रसङ्गात् सर्वत्र पदार्थानामसंसर्गाग्रहेणैव संसर्गव्यवहारोपपत्तेः / यत्र बाधकं नास्ति तत्र संसर्गज्ञानात् संसर्गव्यवहार इति चेत्, किं पुनरत्र मानम् ? बाधक(का)संभवे संसर्गग्रहात् संसर्गव्यवहारो न पुनः संसर्गाग्रहादिति / नन्वेवं सति शब्दप्रमाणस्योच्छेद एव स्यात् / अस्तु / इदमेवापाद्यते / अनुभवसिद्ध एवात्र संसर्गप्रत्यय इति चेत्, तुल्यमपौरुषेयत्वनिश्चयात् पूर्वं संसर्गप्रत्ययोऽनुभवसिद्ध एवातो व्यभिचारशङ्कायामपि वाक्यार्थज्ञानस्य सत्त्वान्न शङ्का वाक्यार्थप्रतिपत्तिप्रतिबन्धिकेति / ननु च वेदस्यापौरुषेयत्वेन प्रतिसंहितस्य व्यभिचारशङ्कानिराकरणे सति वाक्यार्थप्रतिपत्तौ संभूतसामग्रीकत्वमनुमानस्य, पुनर्व्याप्तिस्मृतिरपेक्षणीयाऽस्तीति विलम्बितप्रवृत्तित्वेन लिङ्गस्यैवानुवादकत्वं, तत् कथं वेदस्यानुवादकत्वप्रसङ्ग इत्यत आह - न चैवमिति / अनुमानादेव संसर्गप्रतिपत्तौ वेदस्य संसर्गप्रतिपत्तिजननसामर्थ्यानवधारणात् प्रमाणत्वमेव न स्यात् / तस्मान्न वेदप्रामाण्यमुपपद्यते / [93A] यदि पौरुषेयत्वशङ्कायामपि वेदो वाक्यार्थं बोधयति तदापि नानुमानस्य शक्तिरस्ति / निरस्तपुंदोष्या(षा)शङ्कत्वस्य विशेषस्यासिद्धेरिति / संप्रति प्राथम्यादभिधातृत्वादित्यादिन्यायं(य)संपादना(न)साधनीयं पदानामन्विताभिधानं विकल्प्य सिद्धसाधनादिना निराकरोति / 87. किं चेदमन्विताभिधानं नाम ? न तावदन्वितप्रतिपादनमात्रम् / अविवादात् / नापि स्वार्थाभिधायास्तत्र तात्पर्यम् / अविवादादेव / नापि सङ्गतिबलेन तत्प्रतिपादनम्, वाक्यार्थस्यापूर्वत्वात् /