SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 108 * वामध्वजकृता सृङ्केत्तटीका नापि स्वार्थसङ्गतिबलेन, तस्य स्वार्थ एवोपक्षयात् / नापि सैव सङ्गतिरुभयप्रतिपादिका, प्रतीतिक्रमानुपपत्तेः / यौगपद्याभ्युपगमे तु योग्यत्वादिप्रतिसन्धानशून्यस्यापि पदार्थप्रत्ययवत् वाक्यार्थप्रत्ययप्रसङ्गात् / नापि सैव सङ्गतिः स्वार्थे निरपेक्षा, वाक्यार्थे तु पदार्थप्रतिपादनाऽवान्तरव्यापारेति युक्तम् / तस्याः स्वयमकरणत्वात् / सङ्गतानि पदानि हि करणम्, न तु सङ्गतिः / तथापि तत्प्रतिपादनानुगुणसङ्गतिशालीनि पदानीति चेत् / न तावद् वाक्यार्थप्रतिपादनानुगुणता सङ्गतेस्तदाश्रयत्वेन, सामान्यमात्रगोचरत्वात् तद्वनमात्रगोचरत्वाद् वा / नापि तदनुगुणव्यापारवत्त्वेन, अकरणत्वादित्युक्तम् / तदनुगुणकरणव्यापारोत्थापकत्वात् तदनुगुणत्वे न नो विवादः / अन्वित एव शक्तिरिति चेत् / उक्तमत्र वाक्यार्थस्यापूर्वत्वात् प्रतीतिक्रमानुपपत्तेश्चेति / स्मृतक्रियान्विते कारके स्मृतकारकान्वितायां च क्रियायां सङ्गतिरतो नोक्तदोषावकाशः / नापि पर्यायतापत्तिः, प्राधान्येन नियमात् / नापि पौनरुक्त्यम्, विशेषान्वये तात्पर्यात् / नापीतरेतराश्रयत्वम्, स्वार्थस्मृतावनपेक्षणात् / नापि वाक्यभेदापत्तिः / परस्परपदार्थस्मृतिसन्निधौ तदितरानपेक्षणादिति चेत् / न / अन्विते सङ्गतिग्रह इति कोऽर्थः ? यदि यत्र सङ्गतिस्तद्वस्तुगत्या पदार्थान्वितम्, न किञ्चित् प्रकृतोपयोगीति / न हि यत्र चक्षुषः सामर्थ्यमवगतं तद् वस्तुगत्या स्पर्शवदिति तद्वत्ताऽपि तस्य विषयः / अथान्विततयैव तत्र व्युत्पत्तिरित्यर्थः / तदसत् / प्रमाणाभावात् / 87. किं चेदमिति / अविवादादिति / पदानां साक्षाद् वाक्यार्थानभिधायकत्वेऽपि नैयायिकमते अन्विताभिहितस्वार्थद्वारा अन्वितप्रत्ययोत्पत्तेरित्यर्थः / नापि सङ्गतीति / सङ्गतिरपि वाक्यार्थे पदार्थे वा विवक्षितेति / आद्ये वाक्यार्थस्येति / द्वितीयमाशय निराकरोति - नापीति / तथापीति / तदिति / वाक्यार्थेति। न तावदिति / तथाह्यस्य पदस्येदं वाच्यमिति पदार्थाश्रयता सङ्गतेः तथाऽस्य वाक्यस्यायं वाक्यार्थो वाच्य इति वाक्यार्थाश्रयता सङ्गते[र्ग्रहा] न्नेत्यर्थः / सामान्यतद्वन्मात्रेति मतभेदेन द्रष्टव्यम् / वाक्यार्थप्रत्ययानुकूलपदार्थप्रतिपादनावान्तरव्यापारशालितया सङ्गतया सङ्गतेरनुकूलत्वमस्त्वित्यत आह - नापीति / करणं ह्यवान्तरव्यापारेण युज्यते, न तु सङ्गतिरकरणभूतेत्यर्थः / वाक्यार्थप्रतीत्यनुकूलव्यापारजनकतामात्रेण करणभूतापि [93B]सङ्गतिर्वाक्यार्थप्रतीत्यनुकूलमस्त्वित्यत आह - तदनुगुणेति / ननु यद्यन्वयविशेषसङ्केतो गृह्यते तदा वाक्यार्थस्य पूर्वमप्रतीतत्वेन सङ्केतानुपपत्तिदोष इत्यत आह - स्मृतेति / यदि क्रियाकारकयोरन्यतरदर्शनेने(न) [त]योरन्योन्याविनाभूतत्वादन्यतरस्मरणसम्भवेन क्रियासामान्यान्विते कारके कारकसामान्यान्वितायां क्रियायां शब्दस्य सङ्गतिस्तदा न सङ्केतानुपपत्तिरित्यर्थः / ननु क्रियापदेनापि कारकान्वितक्रियाभिधाने कारकपदेनापि क्रियान्वितकारकाभिधाने क्रियाकारकशब्दयो: पर्यायतापत्तिरित्यत आह - नापीति / कुत इत्यत आह - प्राधान्येनेति / 'ओदनं पचति' इत्यत्र पचतिशब्देन कर्ममात्रान्वितपाकावगमेऽपि कर्मविशेषौदनप्रतिपादनार्थमोदन[पदं] [न] विधायकमपि तु नियामकमेव, एवं ओदनपदेनापि क्रियामात्रान्वितौदनावगतौ क्रियाविशेषपाकप्रतिपादनार्थं पचतिपदं न विधायकमपि तु नियामकमित्यर्थः / ननु 'ओदनं पचति' इत्यत्र [94A] ओदनेन तावत् पाकाश्रित ओदनः प्रतिपादितः पचतिशब्देन पुनरेतदेव प्रतिपाद्यत इति पौनरुक्त्यमित्यत आह - नापीति / ओदनं-पचतिशब्दाभ्यां शुद्धाभ्यां क्रियाकारकानुन(भ)यमात्रप्रतिपत्त्योरन्वयस्य, तत्र पारस्परिकान्वितत्वे विशेषबोधे विशेषपदानां तात्पर्यम्, न त्वेकेन सामान्यान्विते प्रतिपादिते पुनः पदान्तरेण तदेव सामान्यान्वितं प्रतिपाद्यते येन पुनरुक्तं स्यादित्यर्थः / ननु यदि पचतिपदेनापि पूर्वपदाभिहितेनार्थेनान्वितः
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy