________________ 109 * न्यायकुसुमाञ्जलि स्तबकः 3 स्वार्थोऽभिधीयते तदा यावत् पूर्वपदं स्वार्थं नाभिधत्ते तावत् उत्तरपदस्य पूर्वपदार्थान्वितस्वार्थप्रतिपादनं न भवतीति अन्योन्याश्रयत्वमित्यत आह - नापीति / कुत इत्यत आह - स्मृताविति / अन्वितस्मारकत्वात् पदानां पदार्थस्मृतौ पदान्तरापेक्षा नास्तीत्यर्थः / 'ओदनं पचति' इत्यस्य एकवाक्यत्वेन प्रसिद्धस्यान्विताभिधानपक्षे क्रियाकारकपदयोः कारकक्रियाविशिष्टक्रियाकारकाभिधायिनो निरपेक्षत्वाद् 'देवदत्त: पचति' 'वृक्षस्तिष्ठति' इतिवद् वाक्यभेदापत्तिरित्यत आह - नापीति / कुत इत्यत आह - परस्परेति / तत्र हि वाक्यभेदो भवति यत्र पदार्थानां स्मृतानामन्योन्यस्याकाङ्क्षा न भवति / यथा अयमेति पुत्रो राज्ञः पुरुषो[94B]ऽपसार्यतामित्यत्र राजपुरुषयो न्योन्यमाकाङ्क्षा किन्तु राजशब्दस्य पुरुषादितरत्र पुत्र इत्यत्राकाङ्क्षा पुरुषपदस्य च राजशब्दादितरत्रापसार्यतामित्यत्राकाङ्क्षा / यत्र पुत्रपदार्थस्मृतिसन्निधावन्योन्यमाकाङ्क्षा तत्रैकवाक्यतैव यथा राज्ञः पुरुषोऽपसार्यतामिति / तदेतदन्विताभिधानं विकल्प्य निराकरोति - न, अन्वित इति / 88. अन्वितार्थप्रतिपत्त्यन्यथानुपपत्तिरिति चेत्, न, अन्विताभिधानेनाप्युपपत्तेः / आकाङ्क्षाऽनुपपत्तिरस्तु, न हि सामान्यतोऽन्वितानवगमेऽन्वयविशेषे जिज्ञासा स्यात् / न / दृष्टे फलविशेषे रसविशेषजिज्ञासावदाक्षेपतोऽप्युपपत्तेः / शब्दमहिमानमन्तरेण यतः कुतश्चिदपि स्मृतेषु पदार्थेषु अन्वयप्रतीतिः स्यात् / न चैवम् / ततः शब्दशक्तिरवश्यं कल्पनीयेति चेत् / कुतस्तर्हि कविकाव्यानि विलसन्ति / न हि संसर्गविशेषमप्रतीत्य वाक्यरचना नाम / न च स्वोत्प्रेक्षायां प्रत्यक्षमनुमानं शब्दस्तदाभासा वा सम्भवन्ति, अन्यत्र चिन्तावशेन पदार्थस्मरणेभ्यः / असंसर्गाग्रहोऽसाविति चेत् / मम तावत् संसर्गग्रह एवासौ / तवाऽपि सैव पदावली क्वचिदन्वये पर्यवस्यति क्वचिदनन्वयाग्रहे इति कुतो विशेषात् / आप्तानाप्तवक्तृकतयेति चेत् / किं तथाविधेन वक्त्रा तत्र कश्चिद् विशेष आहितः ? आहो वक्तैवावच्छेदकतया विशेषः ? प्रथमे अभिहितान्वयवादिनामिव तवापि शक्तिकल्पनागौरवम् / द्वितीये तु वक्तुरिव पदानामप्यवच्छेदकतयैव विशेषकत्वमस्तु / एवं तर्हि पदानामप्यन्वयप्रतीतावस्त्युपयोगः / कः सन्देहः / परं पदार्थाभिधानेन, न त्वन्यथा / यथा तवैवाप्तस्य संसर्गपरतया पदसमभिव्याहारमात्रेण, न त्वन्यथा / अन्यथा तु गुरुमतविदामेव श्लोक आप्तपदप्रक्षेपेण पठनीयः - प्राथम्यादभिधातृत्वात् तात्पर्योपगमादपि / आप्तानामेव सा शक्तिवरमभ्युपगम्यताम् // इति // तस्मात् प्रकारान्तरेण संसर्गप्रत्ययो भवतु मा वा, पदार्थानामाकाङ्क्षादिमत्त्वे सति अभिहितानामवश्यमन्वय इति कुतोऽतिप्रसङ्गः / 88. अन्वितप्रतिपत्तावर्थापत्त्यन्तरमाशङ्कते - आकाक्षेति प्रमाणमिति शेषः / ओदनमित्युक्तेऽन्वयविशेषे जिज्ञासेति / सामान्यतोऽवगते वस्तुनि विशेषतोऽनधिगते विशेषे जिज्ञासा स्यात् / अन्यथेत्यतो विशेषे जिज्ञासा / अन्यथानुपपत्त्या सामान्येन शब्दादन्वितं ज्ञानं परिकल्प्यत इति अभिप्रायः परस्य / इयमप्यर्थापत्तिरन्यथोपपन्नेति न प्रमाणमिति निराकरोति - न, दृष्टे इति / यथा चक्षुषा रूपेऽधिगते रसविशेषे जिज्ञासा भवति / न च तत्र रससामान्यं चक्षुषाधिगतं किन्त्वाक्षिप्तं तथेहापि पदैरन्वितं सामान्यं नाभिहितं किन्त्वाक्षिप्तमित्यर्थः / अन्वयसामान्यप्रत्ययेऽपि शब्दशक्तिः कल्पनीया विपक्षे बाधकोपपत्तेरित्याशङ्कते - शब्दमहिमानमिति / पदैः प्रति[95A]पादितानामेव पदार्थानां यदि वाक्यार्थप्रतिपादकत्वं तदा कविकाव्यानि नोपपद्यते / वाक्यार्थमवगम्यान्यस्य