________________ 110 * वामध्वजकृता सृङ्केतटीका तद्विवक्षया हि वाक्यनिरमा(1)णम् / न च काव्यप्रतिपाद्यस्यार्थस्य प्रमाणान्तरादवगमः / उत्प्रेक्षाविषयत्वेनाविद्यमानत्वात् / न चासौ 'पीतः शङ्खः' इतिवत् प्रत्यक्षाभासगोचरस्तथाभूते प्रत्यक्षाभासाभावात् / न लिङ्गाभासगोचरो लिङ्गाभासात् तु सन्धानं विनापि जायमानत्वात् / शब्दान्तरं तु तत्र नास्त्येवेति / तस्मात् पदार्था एवं संसर्गज्ञानजनका वाच्याः / तत्कथं [त]दप्रतिपादितैरेवेति नियम्यत इत्याह - कुतस्तीति / किं श्वेतरूपदर्शनाद् हेषाशब्दश्रवणात् क्षुरविक्षेपश्रवणादपि शब्दं विना संसर्गप्रत्ययो न स्यादिति विभावयति - न हीति / न उत्प्रेक्षाध्यारोपितवाक्यार्थज्ञानम् / शङ्कते - असंसर्गेति / परिहरति - ममेति / अस्मात् प्रतिनियमशक्त्यापादनं सम्भवति / अस्माभिः पदैः प्रतिपादितानामपि वाक्यार्थप्रतीतिजनकत्वाभ्युपगमादित्यर्थः / न केवलमस्माकमेवमभ्युपगमः किन्तु त्वयाऽप्यभ्युगन्तव्यम् गत्यन्तराभावादित्याशयवानाह - तवापीति / अन्विताभिधानपक्षेऽपि आप्तोच्चरिता पदावली अन्वयप्रतीतिमुत्पादयति, अन्या तु नान्वयप्रतीतिमिति वदन्परः प्रष्टव्यः - तत्र किमाप्तेन तेषु कश्चिद् विशेषो जन्यते न वा ? न चेत् अनाप्तोच्चारितपदवन्न(न्ना)न्वयप्रतीतिमुत्पादयेत् / जन्यते चेत् [95B] तवापि शक्तिकल्पनागौरवम् / अथावच्छेदकतामात्रेणोच्चारणकर्तृतया आप्तानां विशेषकत्वमिति यदि तदा पदानामपि पदार्थस्मृतिजनकतामात्रेण विशेषकत्वमिति न(अ)स्त्येवमपि शक्तिकल्पनागौरवमिति तात्पर्यमभिहितान्वयवादीनामिवेति / तथाहि - पदानां स्वार्थाभिधानशक्तिः पदार्थप्रतीतिरित्येव / अतिशयाधानशक्तिर्वाक्यार्थप्रत्ययहेतुरिति द्वितीया / तच्चेदानीमाप्तानामभिव्यक्तिशक्तिरतिशयाधानशक्तिर्वाक्यार्थप्रतीतिहेतुरिति अक्षरास्त्वपरे निपातिता इत्यर्थः / अतिशयाधाने तु त्वन्मत इवास्मन्मतेऽपि कल्पनागौरवमित्याह - द्वितीये त्विति / नन्वेवं सति पदानामपि वाक्यार्थबोधकत्वमायातमिति / तथा चान्वितप्रतिपादकत्वमित्याशयवान् शङ्कते - पदानां पदार्थप्रतिपादनावान्तरव्यापाराणामाकाङ्क्षादिमतां बा(बो)धकत्वं न तु वाक्यार्थबोधकत्वेनेत्याशयवान् समाधत्ते - क इति / आशयं प्रकटयति - परमिति न त्वन्यथेति / न तु वाक्यार्थवाचकत्वेनेत्यर्थः / एवमनङ्गीकारे तु त्वन्नयेऽप्याप्तानां संसर्गवाचकत्वापत्तिरित्याह - अन्यथेति / एवं तावदन्विततयैव सङ्गतिरित्यत्र प्रमाणाभावं व्युत्पाद्याभिहितान्वयपक्षेऽतिप्रसङ्गमुक्तमुपसंहारव्याजेन परिहरति - तस्मादिति / 89. न चैवं सति पदार्था एव करणम्, तेषामनागतादिरूपतया कारकत्वाऽनुपपत्तौ तद्विशेषस्य करणत्वस्यायोगात् / तत्संसर्गे प्रमाणान्तरासंकीर्णोदाहरणाभावाच्च / पदानां तु पूर्वभावनियमेन पदार्थस्मरणावान्तरव्यापारवत्तया तदुपपत्तेः, व्यापारस्याव्यवधायकत्वादिति कृतं प्रसक्तानुप्रसक्त्या / अस्तु तर्हि शब्द एव बाधकं सर्वज्ञे कर्तरि, तथाहि - प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः / अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते // इत्यादि पठन्ति / अस्यायमर्थः - न पारमार्थिकं चेतनस्य कर्तृत्वमस्ति, आभिमानिकं तु तत् / न च सर्वज्ञस्याभिमानः, न चासर्वज्ञस्य जगत्कर्तृत्वमस्ति / उच्यते - न प्रमाणमनाप्तोक्तिर्नादृष्टे क्वचिदाप्तता / अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः // 16 // यदि हि सर्वज्ञकर्बभावावेदकः शब्दो नाप्तोक्तः, न तर्हि प्रमाणम् / अथाप्तोऽस्य वक्ता, कथं न तदर्थदर्शी / अतीन्द्रियार्थदर्शीति चेत् / कथमसर्वज्ञ ? कथं वा न कर्ता ? आगमस्यैव प्रणयनात् /