SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ _111 * न्यायकुसुमाञ्जलि स्तबकः 3 न च नित्यागमसम्भवो विच्छेदादित्यावेदितम् / अपि च - __ न चासौ क्वचिदेकान्तः सत्त्वस्यापि प्रवेदनात् / निरञ्जनावबोधार्थो न च सन्नपि तत्परः // 17 // न ह्यसत्त्वपक्ष एवागमो नियतः / ईश्वरसद्भावस्यैव भूयःसु प्रदेशेषु प्रतिपादनात् / तथा चाग्रे दर्शयिष्यामः / तथा च सति क्वचिदसत्त्वप्रतिपादनमनेकान्तं न बाधकम् / सत्त्वप्रतिपादनमपि तर्हि न साधनमिति चेदापाततस्तावदेवमेतत् / यदा तु निःशेषविशेषगुणशून्यात्मस्वरूपप्रतिपादनार्थत्वमकर्तृकत्वागमानामवधारयिष्यते, तदा न तन्निषेधे तात्पर्यममीषामिति सत्त्वप्रतिपादकानामेवागमानां प्रामाण्यं भविष्यतीति / न च तेषामप्यन्यत्र तात्पर्यमिति वक्ष्यामः / 89. यथायमाप्तानाप्तानामवच्छेदकतयैव विशेषस्तथाऽस्माक[96A]मप्यभिधानस्यैवावच्छेदकतया विशेषकत्वमित्यभिहितानामित्युक्तम् / यदि पदार्थानि वाक्यार्थबोधकानि तदा पदार्थबोधकसमय एव वाक्यार्थबोधः किं न स्यात् / अथ पदार्थबोधः तदा पदार्थानामेव करणत्वं न पदानां पदार्थबोधव्यवहितानामित्याशयवान शङ्कते - न चैवमिति / पदानि पदार्थबोधे निराकाङ्क्षाणि वाक्यार्थबोधे तु साकाङ्क्षाणीति / पदार्थस्मृतिमवान्तरव्यापारभूतामपेक्ष्यन्त इत्याशयवान् परिहरति - तेषामित्यादिना / तथाहि - पदार्था हि पदार्थस्वरूपं संसर्गप्रत्ययमा(यं वा)दधीत तज्ज्ञानाय / आद्ये दूषणं तेषामिति / द्वितीये दूषणं तत्संसर्ग इति / चकारादाकाङ्क्षाद्यनुपपत्तेश्चेत्यर्थः / ननु पदानामप्यतीतत्वात् कथं संसर्गबोधकत्वं, तदनु च बोधकत्वे तु कथं करणत्वमिति अत आह - पदानां त्विति / स्वरूपतोऽसतामपि व्यापारद्वारा करणत्वसंभवादग्निषोमादेरिवापूर्वव्यापारेणेत्यर्थ(व)गन्तव्यम् / शब्दप्रामाण्ये प्रसङ्गागतमन्विताभिधाननिराकरणं तदनुप्रसक्तेश्चाभिहितान्वयवादः / अतस्तन्निराकरणविस्तरेण त्व(ग्रन्थ)गौरवमापद्येतेत्याशयवानुपसंहरति - कृतमिति / एवं शब्दस्यानुमाना(न)व्यतिरेकं प्रतिपाद्य शब्दस्यैव प्रकृतिप्रमाणं प्रतिप्रमाणं प्रतिबन्धकत्वमाशङ्कते - अस्त्विति / प्रकृतेरचेतनाया गुणैः सत्त्वादिभिः सर्वकर्माणि [96B] कार्याणि क्रियन्त इति प्रतिपादनाच्चेतनस्य कर्तृत्वं निषिद्धम् / विशेषविधेः शेषनिषेधपर्यवसितत्वादिति तात्पर्यमिति शङ्कार्थः / साङ्ख्यमतस्य प्रमाणासम्भवेनानुपपत्तेरचेतनानां चेतनसाहित्येनैव कार्यका(क)रणनियमदर्शनाद् विपरीतस्य चादर्शनादागमस्यापि कार्यतयाऽवगच्छामो नूनमत्र चेतनेन सर्वविदा भवितव्यमित्याशयवान् समाधिमुपक्रमते - उच्यत इति / उपदर्शितागमो यदि मूढादिना केनाप्युक्तस्तदा न प्रमाणं मूढोक्तेरप्रमाणत्वस्योभयसिद्धत्वात् / अथ तत्त्वविदा केनाप्युक्तं तदा तत्त्वमपश्यतः कथं तत्त्ववित्त्वम् ? अथ तत्त्वं पश्यति तत्राह - अदृश्येति / शब्दोत्पत्तौ हेतुभूतसंसर्गज्ञाने न तावदिन्द्रियं प्रमाणं विरोधात् / विरोधे वा तथैव तज्जातीयानामपि ग्रहणप्रसक्तौऽसर्वज्ञत्वानुत्प(नुपप)त्तेः / न चानुमानमत्र लिङ्गाभावादतो नित्यमस्य तज्ज्ञानमभ्युपेयं तस्य च विषयनियमहेतोः कारणस्याभावात् सर्वविषयत्वमनिवार्यमित्यर्थः / अस्य विवरणं सुबोधमिति / उपदर्शितागमबाधं परिहत्य संप्रति श्रुतिस्मृतिपुराणवाक्यानि “द्यावाभूमी जनयन्नहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते / त्रयाणामपि लोकानां कर्ता देवो महेश्वरः" इत्यादीनि साधकानि सन्तीत्याह [97A] - अपि चेति / शेषमतिरोहितार्थम् / ___90. अस्त्वर्थापत्तिस्तर्हि बाधिका, तथाहि - यद्यभविष्यन्नोपादेक्ष्यत्, न ह्यसावनुपदिश्य प्रवर्तयितुं न जानाति, अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्याभावमौदासीन्यं वाऽऽवेदयति /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy