________________ 112 * वामध्वजकृता सृङ्केतटीका न / अन्यथैवोपपत्तेः - हेत्वभावे फलाभावात् प्रमाणेऽसति न प्रमा / तदभावात् प्रवृत्तिर्नो कर्मवादेऽप्ययं विधिः // 18 // बुद्धिपूर्वा हि प्रवृत्तिर्न बुद्धिमनुत्पाद्य शक्यसम्पादना, न च प्रकृते रद्धरप्युपदेशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात् / भूतावेशन्यायेन प्रवर्तयेदिति चेत् / प्रवर्तयेदेव यदि तथा फलसिद्धिः स्यात् / न त्वेवम् / कुत एवदवसितम् ? उपदेशान्यथानुपपत्त्यैव / यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिस्तस्यापि तुल्यमेतत् / यद्यस्ति प्रवृत्तिनिमित्तमदृष्टम्, किमुपदेशेन / तत एव प्रवृत्तिसिद्धेः / न चेत्, तथापि किमुपदेशेन / तदभावे तस्मिन् सत्यप्यप्रवृत्तेः / नित्यः स्वतन्त्र उपदेशो न पर्यनुयोज्य इति चेत् / यूयं पर्यनुयोज्याः ? ये तमवधानतो धारयन्ति विचारयन्ति चेति / न चार्थापत्तिरनुमानतो भिद्यते, लोके तदसंकीर्णोदाहरणाभावात्, प्रकारान्तराभावात् च / तथाहि - अनियम्यस्य नायुक्ति नियन्तोपपादकः / न मानयोर्विरोधोऽस्ति प्रसिद्धे वाऽप्यसौ समः // 19 // जीवन् चैत्रो गृहे नास्तीत्यनुपपद्यमानमसति बहिःसद्भावे तमापादयतीत्युदाहरन्ति / तत्र चिन्त्यते - किमनुपपन्नं जीवतो गृहाभावस्येति, न ह्यनियम्यस्यानियामकं विना किञ्चिदनुपपन्नम् / अतिप्रसङ्गात् / ननु स्वरूपमेव तद् न तावद् बहिःसत्त्वेन कर्तव्यम्, तदकार्यत्वात् तस्य, स्थितिरेवास्य तेन विना न स्यादित्यस्य स्वभाव इति चेत् / एवं तर्हि तन्नियतस्वभाव एवासौ व्याप्तेरेव व्यतिरेकमुखनिरूप्यायास्तथा व्यपदेशात् / कथं वा बहिःसत्त्वमस्योपपादकम् ? न हि अनियामको भवन्नप्यनियम्यमुपपादयति, अतिप्रसङ्गादेव / स्वभावोऽस्य यदनेन बहिःसत्त्वेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमिति चेत् / 90. अर्थापत्तिबाधमुपन्यस्य निराकरोति - अस्त्विति / हेत्वभाव इति हेतोः कारणस्याभावे फलस्य कार्यस्याभाव इत्युत्सर्गः / फलविशेषश्चात्र प्रमा हेतुविशेषे प्रमाणेऽसति न स्यादित्यर्थः / न हि तदभावे किञ्चिदनिष्टमस्तीत्यत आह - तदभावात् प्रमाऽभावात् प्रवृत्तिरिच्छाजननद्वारा प्रयत्नलक्षणा हि तत्साधनगोचराऽस्मदादीनां स्यादित्युपदेशमतिष्ठामह इति समुदायार्थः / इह केचिद् अदृष्टवशेनैव प्रमाद्यभावेऽपि प्रवृत्तिमिच्छन्ति / तत्परिहारार्थमाह - कर्मवादेऽपीति / विवरणं सुबोधमिति / अर्थापत्तेः पृथक्प्रमाणत्वमभ्युपगम्य पूर्वं तद्बाधः परिहतः सम्प्रत्यर्थापत्तिरनुमानमेवेति प्रतिपादनार्थमाह - न चेति / कुत इत्याह - लोक इति / तत्तस्या अर्थापत्तेरनुमानासङ्कीर्णोदाहरणरहितत्वाद् यदेवानुमानोदाहरणं तदेवार्थापत्तेरिति यदि तदाऽर्थापत्त्यनुमानयोरन्तरः कः ? अथातिरिक्तमुदाहरणमिति तदाऽसिद्धिरित्यर्थः / अनुमानप्रकारापेक्षया प्रकारान्तरस्याभावादिति वानुमानाभिन्नप्रकारत्वादिति तात्पर्यम् / एतदेव दर्शयति - तथाहीति / अनियम्यस्याव्याप्यस्येत्यर्थः / नायुक्ति ापकं विना / न हि रासभस्य दहन(नं) विनाऽयुक्तिरस्ति [97B] लोके यथा धूमस्य तेन विना युक्तिरिति सर्वजनसिद्धमेतदिति / नायं नियन्ताऽपि कार्य[स्ये]त्यर्थः, नोपपादको यथा रासभो तस्येति / प्रमाणद्वयविरोधोऽर्थापत्तिरिति मतान्तरं निरस्यति / न मानयोरिति / एवमनङ्गीकारे प्रसिद्धानुमानमप्यर्थापत्तिरिति / नानुमानसंभव इति सङ्ग्रहार्थः / अर्थापत्तिरपि दृष्टः श्रुतो वाऽर्थो नोपपद्यत इत्यर्थान्तरकल्पनेति लक्षणमुक्त्वाऽस्योदाहरणमुक्तं भाष्यकृता यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनेति / काशिकाव्याख्यानमुपदर्शयति