SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 99 * न्यायकुसुमाञ्जलि स्तबकः 3 एव वाक्यात् सम्बन्धपरिच्छेद इति पुनरपि न मानान्तरत्वसिद्धिरिति आशङ्कते - स्यादेतदिति / अत्र दृष्टान्तमाह - अध्ययनेति / इदानीं त्विति / प्रत्यक्षेण गवयपिण्डोपलम्भकाले सादृश्यस्य केवलस्याभिधेयत्वेऽतिप्रसङ्गाद् गवयत्वावच्छिन्नस्य त्वभिधेयत्वे कल्पनागौरवप्रसङ्गात् / तस्मान्न सादृश्यस्य प्रवृत्तिनिमित्तत्वं किन्तु प्रवृत्तिनिवृ(मि)त्तोपलक्षणत्वं यथा 'गङ्गायां घोषः' इत्यत्र 'गङ्गा'पदार्थस्य तीरोपलक्षणत्वेनाऽऽशयस्तथा गोसादृश्यस्यापि गवयजातीयोपलक्षणत्वेनेति तात्पर्यम् / समाधत्ते - न / श्रुतेति / यत्र पदार्थानामन्वयो न घटते बाधकप्रमाणसत्त्वात् तत्र तदाक्षिप्तेन श्रुतपदार्थाक्षिप्तेन सङ्गतिर्भवति, न तु 'गङ्गाया जलमानीयताम्' इत्यात्रापीत्यर्थः / यदुक्तमन्यतरत्र तात्पर्यसंदेहापर्यवसानमिति / तत्किमाकाङ्क्षादिमत्पदतदर्थसामानाधिकरण्याप्रतीतेर्वाप्रतीतसामानाधिकरण्यानुपपत्तेर्वा / पूर्वार्धं विवृण्वन् आद्यं तावन्निवर्तयति / गोसदृश इति / मानान्तरोपनीतेति / [86B] मानान्तरं प्रत्यक्षादि / तेनोपनीतं दर्शितमिति / तत्किम् ? पदार्थविशेषजिज्ञासा नाकाङ्केति चेत् क एवमाह नेति, किन्तु समभिव्याहृतपदस्मारितपदार्थविषया न तु जिज्ञासामात्रमिति / कथमेष विभाग इत्यत आह - अन्यथेति / यदि जिज्ञासामात्रमाकाङ्क्षेति तदा विशेषजिज्ञासायामेकमेव वाक्यं सर्वजनसिद्धं साकाङ्क्षत्वाद् भिद्यते। यदि पटो भवतीत्येतत्सामान्यप्रतिपादनेन पर्यवसितं संशयवि[ष]यीभूतरक्ततामयमपेक्षते तदा पटो भवतीत्येतद्वाक्यमेव न स्यात् / तदेतत् सामान्येन प्रथमं पर्यवसितं पश्चाद् रक्तान्वयमपेक्षमाणं रक्तान्वयमभिधत्ते तदा वाक्यभेद इत्यर्थः / न त्वेवं 'गङ्गायां घोषः' इत्यादेरपि सामानाधिकरण्यमात्रेण पर्यवसितत्वात् मानान्तरोपनीत(ते)न वान्वयः स्यादित्यत आह - न चेति / न सामानाधिकरण्यमानं वाक्यार्थपर्यवसाने कारणमाचक्षामहे किन्त्वाकाङ्क्षादिभिविशेष(ष)मिति नातिप्रसङ्ग इत्यर्थः / ननु मा भूत् प्रतीत्यपर्यवसानमस्तु प्रतीतापर्यवसानम्, तावताऽप्यस्मत्समीहितसिद्धेरिति / अत आह प्रतीतेति / यदि तु गोसादृश्यस्य कल्पनागौरवात् प्रतिपत्तिनिमित्तत्वानुपपत्तौ गवंयजातीयस्य प्रवृत्तिनिमित्तत्वकल्पनाऽपि यदि वाक्यार्थः स्यात् तदा दिवाऽभोजिनः पीनत्वानुपपत्त्या रात्रिभोजनकल्पनापि वाक्यार्थः स्यादित्यर्थः / [87A] विशेष मानान्तरापेक्षेति विशेषे गवयत्वे शब्दानुमानापेक्षेत्यर्थः / 79. अस्त्वनुमानम् - तथाहि गवयशब्दो गवयस्य वाचकः, असति वृत्त्यन्तरेऽभियुक्तैस्तत्र पयुज्यमानत्वात्, गवि गोशब्दवत् इति - चेत्, न, असिद्धेः / न ह्यसति वृत्त्यन्तरे तद्विषयतया प्रयोगः सङ्गतिमविज्ञाय ज्ञातुं शक्यते / सामानाधिकरण्यादिति चेत्, न / पिण्डमात्रे सिद्धसाधनात्, निमित्ते चासिद्धेः, सादृश्यस्यानिमित्तत्वादित्युक्तम् / ननु व्याप्तिपरमिदं वाक्यं स्यात् - यो गोसदृशः स गवयपदार्थ इति, तथा च वाक्यादवगतप्रतिबन्धोऽनुमिनुयात् - अयमसौ गवयो गोसदृशत्वादतिदेशवाक्यावगतपिण्डवदिति / न / विपर्ययात्, न हि गोसदृशं बुद्धावारोप्यानेन पृष्टः स किंशब्दवाच्य इति, किन्तु सामान्यतो गवयपदार्थमवगम्य स कीदृगिति / तथा च यद्योगप्राथम्याभ्यां तस्यैव व्याप्यत्वम्, ततः किं तेन ? प्रकृतानुपयोगात् / अथ किंलक्षणकोऽसाविति प्रश्नार्थः / तदा व्यतिरेकपरं स्यात्, लक्षणस्य तथाभावात् / तथा च गोसदृशो गवय इत्यस्यार्थो यो गवय इति न व्यवहियते नासौ गोसदृश इति / एवं च प्रयोक्तव्यम् - अयमसौ गवय इति व्यवहर्तव्यः गोसदृशत्वात्, यस्तु न तथा नासौ गोसदृशो यथा हस्ती / न च हस्त्यादीनां विपक्षत्वे प्रमाणमस्ति, सर्वाप्रयोगस्य दुरवधारणात्, कतिपयाव्यवहारस्य चानैकान्तिकत्वात् / ननु लिङ्गमात्रे प्रश्नो भविष्यति - कीदृक् किं लिङ्गमिति / न /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy