SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 98 . वामध्वजकृता सृङ्केतटीका संपूर्णाभिधानस्यैवोचितत्वात्, अन्यथा न्यूनावतारादिति / गौणलाक्षणिके व्यभिचारनिवृत्त्यर्थम् असतीत्यादिविशेषणमिति / ततश्च प्रत्यक्षासाध्यत्वेन प्रमाणान्तरफलत्वे सिद्धसाधनमागमानुमानसाध्यत्वमसिद्धमागमानुमानाभ्यां सम्बन्धपरिच्छेदस्योपपादितत्वादित्याशयः / प्रकृतवाक्यं न संज्ञिनो गवयस्य प्रतिपादकम्, 'गोसदृश'पदस्य सादृश्यमात्राभिधायकत्वात्, ‘गवय'पदस्य त्वगृहीतसमयतयाऽप्रतिपादकत्वात् प्रत्यक्षत्वादे(देः) असि[द्ध]त्वाच्च / न च संज्ञिन्यप्रतीते संज्ञाकरणमिति भवतामपि सम्मतमित्याशयवान् समाधत्ते - नेति / दुर्ग्रहोऽयं वाक्यग्रहः / पूर्वमिति / गवयपिण्डदर्शनादिति विशेष: / [85 B] न चोभयमिति / समुच्चयेनाप्रतीतगूनामव्यवहारप्रसङ्गादेव / विकल्पेन तूभयनिमित्ततायां दोषमाह - स्वयमिति / अविदितगोविदितगवयस्य परप्रतिपादनायातिदेशवाक्यप्रयोगोऽनुपपन्न इत्यर्थः / स्वयं 'गवय'शब्दस्य सङ्केता(तो)ऽवगतस्तस्य च परस्मिन् सङ्क्रमणायातिदेशवाक्यं प्रयुज्यते / मया प्रतीतं सङ्केतं परोऽप्यवगच्छत्विति बुद्ध्या वाक्यमुच्चारयति प्रयोक्ता नान्यथेति सर्वमतसिद्धमिति सारम् / एतदेव दर्शयति - गवयत्वे हीति / वस्तुगतिरिति / यदा हि व्युत्पित्सुोर्गवयसादृश्यं गवयत्वं च पतरेत्यति(प्रतिपादयति) तदाऽनेकनिमित्तकल्पनायामतिप्रसङ्ग इति तर्कपुरस्काराद् गवयत्वमेव निमित्तमित्यनुगच्छति, गवयत्वाप्रतीतौ त्वतिदेशवाक्यमात्रश्रुतिकाले सादृश्योपलक्षणत्वसंदेहास्पदत्वेन समयपरिच्छेदानुपपत्तेः व्युत्पद्यमानो गवयत्व एव व्युत्पद्यत इति तात्पर्यम् / उक्तविशेषाप्रतिसन्धाने तु तदापातत इत्यादि / तस्मिन् सादृश्ये आपाततः संदेह इति पुनरप्यतिदेशवाक्यप्रयोगानुपपत्तिरेवेत्यर्थः / तथाहि तदेव ह्याप्तेन वाक्यं प्रयुज्यते यदसंदिग्धं न विपरीतं तात्प्रत्ययं वा, तस्यान्यथात्वेऽनाप्तत्वप्रसङ्गात्, तदयमाप्तो वाचकशब्दात् समयं ग्राहयन् असंदिग्धार्थादेव ग्राहयेत् / न चेदमतिदे[86 A]शवाक्यमसंदिग्धार्थं सादृश्यस्योपलक्षणत्वनिमित्तत्वयोरुपलम्भात् / तस्मात् संदिग्धार्थं वाक्यं न समयनिश्चयाय प्रयुङ्क्ते इत्याशयवान् संदेहाकारं भावयति - गोसादृश्यमिति / 78. स्यादेतत् / पूर्वं निमित्तानुपलब्धेर्न फलसिद्धिरिदानीं तु तस्मिन्नुपलब्धे तदेव वाक्यं स्मृतिसमारूढं फलिष्यति, अध्ययनसमयगृहीत इव वेदराशिरङ्गोपाङ्गपर्यवदातस्य कालान्तरे / न च वाच्यं 'वाक्येन स्वार्थस्य प्रागेव बोधितत्वात् प्रागेव पर्यवसितम्' इति / गोसादृश्यस्योपलक्षणनिमित्तत्वयोरन्यतरत्र तात्पर्ये सन्देहात्, इदानीं तु गवयत्वेऽवगते तर्कपुरस्कारात् सादृश्यस्योपलक्षणतायां व्यवस्थितायां, 'गङ्गायां घोषः' इतिवदन्वयप्रतिपत्तिरिति चेत्, न - श्रुतान्वयादनाकाक्षं न वाक्यं ह्यन्यदिच्छति / / पदार्थान्वयवैधुर्यात् तदाक्षिप्तेन सङ्गतिः // 12 // गोसदृशो गवयशब्दवाच्य इति समानाधिकरण्यमात्रेणान्वयोपपत्तौ विशेषसन्देहेऽपि वाक्यस्य पर्यवसितत्वेन मानान्तरोपनीतानपेक्षणात् / रक्तारक्तसन्देहेऽपि घटो भवति इति वाक्यवत्, अन्यथा वाक्यभेददोषात् / न च 'गङ्गायां घोषः' इतिवत् पदार्था एवान्वयायोग्याः येन प्रमाणान्तरोपनीतेनान्वयः स्यात् / प्रतीतवाक्यार्थबलायातोऽप्यर्थो यदि वाक्यस्यैव, दिवाभोजननिषेधवाक्यस्यापि रात्रिभोजनमर्थः स्यात् / तस्माद् यथा गवयशब्दः कस्यचिद् वाचकः शिष्टप्रयोगादिति सामान्यतो निश्चितेऽपि विशेषे मानान्तरापेक्षा, तथा गोसदृशस्य गवयशब्दो वाचक इति वाक्याद् निश्चितेऽपि सामान्ये विशेषवाचकत्वेऽस्य मानान्तरमनुसरणीयमिति / 78. अप्रतीते गवयत्वेऽतिदेशवाक्यकाल(ले) संज्ञासंज्ञिसम्बन्धप्रतिपत्तिर्मा भूत् / वने दृष्टे गवयत्वे तत
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy