________________ 97. न्यायकुसुमाञ्जलि स्तबकः 3 साध्यतया प्रमाणोत्तर(णान्त)रफलत्वमुपवर्ण्यत इत्याह / प्रत्येकं व्यभिचारेऽपि समुदितयोर्वाक्यप्रत्यक्षया(योः) फलं भविष्यतीत्याशय परिहरति - नापीति / भिन्नकालत्वादिति / वाक्यकाले प्रत्यक्षं नास्ति, प्रत्यक्षकाले च वाक्यं नास्तीत्यर्थः / नन्विन्द्रियसम्बद्धे गवये वाक्यतदर्थस्मृतौ च सत्यां प्रमाणसमाहारो भविष्यतीति आशङ्ग्य गवयगतगोसादृश्यावेदने न भ[व]त्येवैवं [स्मृतिरित्याह - वाक्येति / फलसमाहारमाशङ्क्यापाकरोति / प्रत्यक्षफलं हि प्रायशो लिङ्गपरामर्शोऽनुमितिरूपप्रतिपत्तिं कुर्वन् अनुमानमिष्यते। श्रोत्रजानुभवप्रसूतवाक्यप्रतिपत्तौः वाक्यार्थप्रतिपत्तौ [च] कर्तव्यायां [84 B] शब्दः प्रमाणमिष्यते, तदुभयमपि प्रत्यक्षं स्यादित्यर्थः / ननु यदि तत्फलत्वेन तदन्तर्भावो न स्यात् तर्हि विकल्पस्याप्यालोचनफलस्य प्रत्यक्षान्त वो न स्यात् / भविष्यति चेत् तदा लिङ्गसादृश्यसाक्षात्कारयोः कः प्रद्वेषः ? अथैकदा[]तर्भावो न सर्वत्रेति नियामकाभावादमुं विशेषं न विद्म इत्याशयवान् - एतेनेति / तत् किमिति / यत्र व्यापारिण इन्द्रियसन्निकर्षादेरवस्थितिस्तत्र तत्फलस्यावान्तरव्यापारता, यत्र पुनर्व्यापारिण एवानवस्थितिस्तत्र प्रमाणबहिर्भूतत्वं, यथेन्द्रियव्यापारोपरतौ लिङ्गशब्दानुसन्धानबलेनानुमितिर्वाक्यार्थप्रमित्युत्पादे सोऽयं विशेष इत्याह - तत्तदिति / इममेव विशेषमुपादायाशङ्क:(कां) पूर्वयुक्त्या परिहरति - अस्ति तीति / एतेन यदुक्तं कैश्चिद् व्यरिप्ति(व्याप्ति) प्रत्ययजनितसंस्कारसहायमिन्द्रियमेव लिङ्गानुभा(भ)वार्थान्तरव्यापारं लिङ्गिज्ञानकरणमस्तु कृतमनुमानेनेति तदपि परा[कृतम्, स]न्निकर्षासाधारणव्यापारस्य साक्षात्कारिविज्ञप्तिजनकस्य परोक्षाकारज्ञानजनकत्वानुपपत्तेः / पूर्वमुक्तं न तावद् वाक्यफलम् अनुपलब्धे[85 A]न्द्रियस्यापि प्रसङ्गात् / 77. ननु च वाक्यादेवानेन समयः परिच्छिन्नः - गोसदृशस्य गवयशब्दः संज्ञेति, केवलमिदानीं प्रत्यभिजानात्ययमसाविति / प्रयोगाद्वाऽनुमितः - यो यत्रासति वृत्त्यन्तरे वृद्धैः प्रयुज्यते स तस्य वाचको यथा गोशब्द एव गोः, प्रयुज्यते चायं गोसदृशे, इति किमुपमानेनेति / न - सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः / समयो दुर्ग्रहः पूर्वं शब्देनानुमयाऽपि वा // 11 // न हि गवयशब्दस्य सादृश्यं प्रवृत्तिनिमित्तम्, अप्रतीतगूनामव्यवहारप्रसङ्गात् / न चोभयमपि निमित्तम्, स्वयं प्रतीतसमयसंक्रान्तयेऽतिदेशवाक्यप्रयोगानुपपत्तेः / गवयत्वे ह्ययं व्युत्पन्नो वृद्धव्यवहारात्, न सादृश्ये / कथमेतन्निर्धारणीयमिति चेत् / वस्तुगतिस्तावदियम्, तदापाततः सन्देहेऽपि न फलसिद्धिः / गन्धवत्त्वमिव पृथिवीत्वस्य, गोसादृश्यं गवयशब्दप्रवृत्तिनिमित्तस्योपलक्षणमिदमेव वा निमित्तमित्यनिर्धारणात् / ___77. यदवादि भूषणकारप्रभृतयस्तदाशङ्कते - नन्विति / तथा चोक्तं संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरप्याप्तवचनकार्येति / भट्टैरप्युक्तम् - अतिदेशवाक्यादेव गोसादृश्येन गवयशब्दवाच्यत्वेऽर्थेऽवधानम्, निर्व्यक्तिरूपेण न च ते सर्वार्थसम्बन्धोऽप्यवगत एव, तद्धि तदाऽवगति यदा गोसदृशं वस्तु गवयशब्दवाच्यमित्यादि / सांख्यमतमाशङ्कते - प्रयोगाद्वेति / गवयशब्दो गोसदृशस्य वाचकः, असति वृत्त्यन्तरे वृद्धस्तत्र प्रयुज्यमानत्वादिति / प्रतिज्ञाहेत्वोरनभिधानं न दोषाय, प्रतिपादनमात्रस्य विवक्षितत्वात् / ग्रन्थे च संगृहीतस्याप्यर्थस्य कथायां 1. मुद्रितमूले प्रतीकमिदं नास्ति /