SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 96 * वामध्वजकृता सृङ्केत्तटीका 76. साधर्म्यमिव वैधवें मानमेवं प्रसज्यते / ___ अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम् // 9 // यदा हि एतद्विसदृशोऽसौ इति प्रत्येति, तत्रापि तुल्यमेतत् / न हि तत्प्रत्यक्षमसन्निकृष्टविषयत्वात् / न स्मरणम् / विशिष्टस्याननुभवात् / नोपमानमसादृश्यविषयत्वात् / नन्वेतद्धर्माभावविशिष्टत्वमेव तस्य वैधर्म्यम्, तच्चाभावगम्यमेवेष्यते / न च प्रकृतेऽपि तथाऽस्तु / सादृश्यस्य भावरूपत्वादिति चेत्, न। इतो व्यावृत्तधर्मविशिष्टताया अपि वैधर्म्यरूपत्वात् / तस्य च भावरूपत्वात् / स्यादेतत् / तद्धर्मा इह न सन्तीत्यवगते अर्थादापद्यते इहाविद्यमानास्तत्र सन्तीति / न हि तद्विधर्मत्वमेतस्योपपद्यते, यद्येतद्विधर्माऽसौ न भवतीति चेत् / एवं तर्हि प्रकृतमप्यर्थापत्तिरेव / न हि तत्सादृश्यविशिष्टत्वमेतस्य प्रत्यक्षसिद्धमपि तस्यैतत्सादृश्यविशिष्टत्वं विनोपपद्यते / एतेन दृष्टासन्निकृष्टप्रत्यभिज्ञानं व्याख्यातम् / तत्रापि तद्धर्मशालित्वं तस्य स्मरणाभिव्यक्तमनुपपद्यमानं तदिदन्तास्पदस्यैकतां व्यवस्थापयति / तस्मान्नोपमानमधिकमिति / एवं प्राप्ते अभिधीयते - सम्बन्धस्य परिच्छेदः संज्ञायाः संज्ञिना सह / प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः // 10 // यथा गौस्तथा गवय इति श्रुतातिदेशवाक्यस्य गोसदृशं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयमसौ गवयशब्दवाच्य इति भवति मतिः / सेयं न तावद् वाक्यमात्रफलम्, अनुपलब्धपिण्डस्यापि प्रसङ्गात् / नापि प्रत्यक्षफलम्, अश्रुतवाक्यस्यापि प्रसङ्गात् / नापि समाहारफलम्, वाक्यप्रत्यक्षयोभिन्नकालत्वात् / वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बन्धेनापि इन्द्रियेण तद्गतसादृश्यानुपलम्भे समयपरिच्छेदासिद्धेः / फलसमाहारे तु तदन्तर्भावे अनुमानादेरपि प्रत्यक्षत्वप्रसङ्गः / तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव ?, अन्तर्भावे वा कियती सीमा ? तत्तदसाधारणेन्द्रियादिसाहित्यम् / अस्ति तर्हि सादृश्यादिज्ञानकाले विस्फारितस्य चक्षुषो व्यापारः / न / उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमतः कालान्तरेऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्तेः / 76. एतदे[व वि]वृणो[ति] - यदा हीति / ननु यदा वाराणसीपरिदृष्टः पुरुषोऽनन्तरं पाटलिपुत्रेऽप्युपलभ्यते तदन्तरं च तद्देशासंनिहितेन पुरुषेण प्रत्यभिज्ञायते - 'य एव मया वाराणस्यां दृष्टः स एव मया पाटलिपुत्रेऽपि' इति / [न] तदिदं तावदनुस्मरणं प्रत्यभिज्ञानगोचरस्य पूर्वमननुभूतत्वात् / न(ना)पि बहिरिन्द्रियप्रत्यक्षम् इन्द्रियासन्निकृष्टविषयत्वात् / नानुमितिः शाब्दं वा लिङ्गशब्दान्तरेण(णा)जायमानत्वात् / नापि मानसं मनसो बहिरस्वातन्त्र्यादित्यत उपमानगम्यमेतद् भविष्यतीति नैयायिकैकदेशिमतमाशङ्ख्यातिदिशति - एतेनेति / साधर्म्यवैधर्म्ययोरर्थापत्त्यन्त वेनेत्यर्थः / पूर्वदृष्टं च तन्मध्येऽसन्निकृष्टं चेति दृष्टासन्निकृष्टं तस्य प्रत्यभिज्ञानमिति / अतिदेशार्थं स्फुटयति - तत्रापीति / ननु च तद्धर्मिणीव तद्धर्मेऽपि प्रत्यभिज्ञा नोपपद्यते / तत्राप्यपरापरधर्मापेक्षायामनवस्थानादित्युच्यते - प्रत्यभिज्ञायमानेनापि [84 A] साधारणमुखसंस्थानादिना स्मर्यमाणेनैकत्वमनुमीयते / अयं वाराणसीपरिदृष्टपुरुषादभिन्नोऽविशिष्टमुखसंस्थानत्वात् / यः पुनः तस्माद्भिन्न: स एवंभूतमुखसंस्थानवानपि न भवति / यथोभयवादिसंप्रतिपन्नयज्ञदत्तः / न चायं तथा / तस्मान्न तथेति / एवं मीमांसकाभ्युपगतमुपमान(नं) प्रत्यक्षार्थापत्त्योर्यथासंभवमन्तर्भाव्याभिनवनैयायिकैरुपमितिरूपफलस्य प्रत्यक्षाद्य
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy