SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 95 * न्यायकुसुमाञ्जलि स्तबकः 3 द्वयमेव पूर्ववत् / तत्रोत्तरं समवाय एव / अनवस्थाभयात् / आश्रितं तु सामान्यवद् निःसामान्यं चेति पूर्ववत् द्वयमेव / तत्र प्रथममपि स्पक्तोऽस्पन्द इति द्वयमेव / एतच्च यथासङ्ख्यं कर्म गुण इति व्यपदिश्यते / निःसामान्यं निर्गुणमाश्रितं त्वेकाश्रितमनेकाश्रितं वेति प्रागिव द्वयमेव / एतदपि यथासंख्यं विशेषः सामान्यं चेत्यभिधीयते / तदेतत् सादृश्यमेतास्वेकां विधामासादयन् नातिरिच्यते / अनासादयन् न पदार्थीभूय स्थातुमुत्सहते / एतेन शक्तिसंख्यादयो व्याख्याताः / ततोऽभावेन सह सप्तैव पदार्था इति नियमः / अतो नोपमानविषयोऽर्थान्तरमिति / स्यादेतत् / भवतु सामान्यमेव सादृश्यम्, तदेव तस्य विषयः स्यात् / तत्सदृशोऽयमिति हि प्रत्ययो नेन्द्रियजन्यः, तदापातमात्रेणानुत्पत्तेरिति चेत्, न / पूर्वपिण्डानुसन्धानरूपसहकारिवैधुर्येणानुत्पत्तेः / सोऽयमिति प्रत्यभिज्ञानवदिति / नन्वेतत्सदृशः स इति नेन्द्रियजन्यम् / तेन तस्यासम्बन्धात् / न चेदं स्मरणम्, तत्पिण्डानुभवेऽपि विशिष्टस्याननुभवात् / न चैतदपि अयं स इति विपरीतप्रत्यभिज्ञानवदुपपादनीयम् / तत्तेदन्तोपस्थापनक्रमविपर्ययेऽपि विशेष्यस्येन्द्रियेण सन्निकर्षाविरोधात् / तस्य सन्निहितवर्तमानगोचरत्वात् / प्रकृते तु तदभावात् / तस्मात् तत्पिण्डस्मरणसहायमेतत्पिण्डवृत्तिसादृश्यज्ञानमेव तथाविधं ज्ञानमुत्पादयदुपमानं प्रमाणमिति / एतदपि नास्ति / 75. एवमुपलब्ध्यनुमानाभ्यां न क्षित्यादिकर्तृबाधक इति व्युत्पाद्योपमानस्याबाधकत्वं उभयसम्मतं किन्तु नियतविषयत्वादेव न तु विषयानतिरेकादिति दर्शयितुमुपमानबाधकत्वं निराचष्टे - उपमानं त्विति / केचिदिति / साङ्ख्यनैयायिकैकदेशिबौद्धप्रभृतयः / न त्वस्यातिरिक्तोऽस्ति विषयः सादृश्य[म्], न चैतदध्यक्षगम्यमिन्द्रियापातमात्रेणाप्रतिभासनात्, न च लिङ्गादिगम्यं तदनुसन्धानविरहिणोऽपि सादृश्यप्रतीतेः / प्रत्यक्षादिविषयीभूतद्रव्यादिपदार्थातिरिक्तत्वाच्च / तथाहि - न तावदेव द्रव्यम्, [न] गुणः कर्म वा, अगुणत्वात्, अगुणविषयविलक्षणबुद्धिवेद्यत्वाद् विभागाहेतुत्वात् / न सामान्याद्यन्यतमम् अनुगतव्यावृत्तबुद्ध्यहेतुत्वादिति / पदार्थान्तरमेवेति गुरुमतमाशङ्क्य निषेधति - तथाहीति / परस्परविरोधो हि परस्पराभावरूपत्वं ननु(न तु) पराभाववत्त्वम् / अतो नीलपीतयोरन्यतरनिषेधेऽपि नान्यतरविधिरिति शीतोष्णस्पर्शाद् भेद इति / इममेवार्थं [83 A] श्लोकविवरणव्याजेनाह - न हीति / पूर्ववदिति / परस्परविरोधे प्रकारान्तरासंभवादिति। इदमेव सर्वत्र योज्यम् / शक्त्यादयोऽपि पटे पदार्थानतिरेकित्वेन व्याख्येया इत्याशङ्क्याह - एतेनेति / भावरूपपदार्थातिरिक्त(क्तं) सिद्धमित्याह - तत इति / मा भूत् पदार्थातिरिक्तं तदन्तर्भूतमेवास्तु सादृश्यं तत्र प्रत्यक्षाद्यप्रवृत्तेः उपमानप्रवृत्तिरिति जरन्मीमांसकमतमपाकर्तुमुपन्यस्यति - स्यादेतदिति / नेन्द्रियजन्य इत्युपलक्षणम्, लिङ्गादिजन्योऽपि न, तत्प्रतिसन्धानविधुरस्यापि याज(जाय)मानत्वादित्यपि द्रष्टव्यम् / निराकरोति - नेति / जरन्मीमांसकमतमपाकृत्याभिनवमीमांसकशबरस्वामिमतमाशङ्कते - नन्वेतदिति / अनेन सदृशी मदीया गौरिति ज्ञानं नेन्द्रियादिजन्यमिन्द्रियसन्निकर्षलिङ्गादिप्रतिसन्धानविरहेऽपि जायमानत्वादिति / अन्यं भूषणकारदूषणमत्राशक्य निराचष्टे - तावदिदमिति' / इदं नैयायिकोक्तदूषणमुत्थाप्य निराकरोति - न चैतदपीति / एकत्व(त्र) विशेष्यस्येन्द्रियसन्निकृष्टत्वात् अन्यत्रासन्निकृष्टत्वादिति विशेष्यस्य सत्त्वादिति / अस्यापि च व्यक्त्यन्तर्भावेऽ[83 B]प्यर्थापत्तावन्तर्भाव इति नोपमानमतिरिक्तं सिद्ध्यति, अन्यथा वैधर्म्यस्यापि साधर्म्यवत् प्रमाणान्तरत्वमित्याह - एतदपीति / 1. प्रतीकमिदं मुद्रितमूले नास्ति /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy