________________ 94 * वामध्वजकृता सृङ्केतटीका व्यभिचारिणि कुतस्तदुत्पन्नत्वं न स्यात् तादात्म्यं वा ? अदर्शनादिति चेत्, न / किं समर्थेषा(सर्वेषा)मदर्शनमुत स्वस्य, योग्यादर्शनं वेति / नाद्यः, असिद्धः / न द्वितीयो व्यभिचारात् / न तृतीयः, सर्वे[षां व्य]भिचाराणाम् असर्वशं प्रति ग्रहणयोग्यासिद्धेः / तस्मादनिष्टप्रसङ्गेनैव व्यभिचारिणि व्याप्यवृत्तिर्वक्तव्या / तथा च तदेव बीजमित्यर्थः / एतदेव दर्शयति - यदि चेति / अत एवेति / यत एव विपक्षे बाधकादविनाभाव इत्यत्र निर्भरो(नियमो) न तु स्वभावकार्ययोरेवेत्यर्थः / तद्यथा बधिरस्य मुरजमुखाभिधाताच्छब्दानुमानं पूर्वमुक्तम् / यत्रानुकूलस्तर्को नास्ति सा(तत्रा)प्रयोजकत्वमित्यस्योदाहरणमाह - तथाहीति / नासौ तस्येति / न शाकाद्याहारपरिणतिः मित्रातनयत्वस्य व्यापिकेत्यर्थः / ननु यदि सिद्धसाधनाप्रयोजकौ अपि दूषणान्तरे एव कथं तर्हि विभागे सव्यभिचारादिपञ्चकमेव दूषणत्वेन सूत्रकृतोक्तमित्यत आह - सूत्रं त्विति / तदेवमाधिक्यं विभागसूत्रस्य विशेषविधित्वेनाधिक[82 A]निषेधफलत्वेनात्ययमित्याशयवान् साधयति तदसदित्यादिना / व्याप्तस्य निरुपाधिसाध्यसम्बन्धस्य पक्षधर्मतया संदिग्धसाध्यधर्मतया प्रतीतिसिद्धिरिति / तदभावस्तस्य निरुपाधिसाध्यसम्बन्धस्याभावः सोपाधित्वम् / एवं तस्य संदिग्धसाध्यधर्मिणस्तद्धर्मस्य वा अभाव इत्यर्थः / एतदेव [वि]वृणोति / यद्यपि संदेहस्योभयत्रापि समानत्वं तथाप्येकत्र साधकप्रमाण(णा)सद्भावेनान्यत्र बाधकप्रमाणसंभवेनेति शेषः / न च किमनेनेति वाच्यम् / साधकप्रमाणस्य स्वरूपतोऽनुकूलत्वाद् बाधक[प्रमाणस्य] स्वरूपतः प्रतिकूलत्वेन सर्ववादिसंमतत्वादिति रहस्यम् / अत एवाह - व्याप्तेरेवेति / ननु यदि व्याहत्य विघटनं तदाऽनैकान्तिकमेव दुषणम् / अथ व्याप्तेविघटनं नास्ति तदा अपक्षधर्मतैव दषणमित्यभयथापि कालातीतविलोप इति चेत / उच्यते - साध्याभावनिश्चयेन हि हेतोः पक्षधर्मता प्रत्युक्ते]ति, विपक्षवृत्तिता वा व्यवस्थाप्या भावसाध्याऽसावनिश्चयमनुद्भाव्योद्भावयितुमशक्या, तदुद्भावने तु तेनैव हेतोर्दूषितत्वाद् व्यर्थमपरस्याभिधानम् / अन्यथा विरुद्धस्यापि साध्यसाधनयोरन्यतरविरहे, साध्यविरहे अपक्षधर्मत्वं, साधनविरहे स्वरूपासिद्धत्वमिति निराकणापत्तेः / तत्र विरोधप्रतीत्युत्तरकालं तयोः प्रतीतौ विरोधस्यैव [82 B] दूषणत्वेऽन्यत्रापि बाधोत्तरकालं तयोः प्रतीतिरिति समानम्, तस्माद् विरुद्धहेत्वाभासमनभ्यु(मभ्यु)पग[त]त्वात् कालात्ययापदिष्टमपि पृथगभ्युपगन्तव्यम्, अन्यथा विरुद्धस्यापि परिहार इति दुरुत्तरम् / तदेतत् सर्वं पाखा(षा)णरेषे(खे)यमिति मन्वानो मतान्तरं विकल्प्य निराकरोति - यत्त्विति / 75. उपमानं तु बाधकमनाशङ्कनीयमेव, विषयानतिरेकादिति केचित् / तथाहि / न तावदस्य विषयः सादृश्यव्यपदेश्यं पदार्थान्तरमेव सम्भावनीयम् / __ परस्परविरोधे हि न प्रकारान्तरस्थितिः / नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः // 8 // न हि भावाभावाभ्यामन्यः प्रकारः सम्भावनीयः, परस्परविधिनिषेधरूपत्वात् / न भाव इति भावनिषेधमात्रेणैवाभावविधिः / ततस्तं विहाय कथं स्ववचनेनैव पुनः सहृदयो निषेधेन्नाभाव इति / एवं नाभाव इति निषेध एव भावविधिः / ततस्तं विहाय स्ववाचैवानुन्मत्तः कथं पुनर्निषेधेन्न भाव इति / अत एवम्भूतानामेकताप्यशक्यप्रतिपत्तिः / प्रतिषेधविध्योरेकत्रासम्भवात् / तस्माद् भावाभावावेव तत्त्वम् / भावत्वेऽपि गुणवन्निर्गुणं वेति द्वयमेव पूर्ववत् / पूर्वं द्रव्यमेव / उत्तरं चाश्रितमनाश्रितं वेति 1. भष्टः पाठः /