SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 93 * न्यायकुसुमाञ्जलि स्तबकः 3 मतमिति व्याख्याय तद्ग्रन्थपाठपूर्वकमुपाधिलक्षणमाह - तदयमिति / तत्र यदि साधनाव्यापकमात्रस्योपाधित्वमङ्गीक्रियते तदा सावयवत्वस्यापि कृतकत्वं प्रति उपाधित्वं स्यात् / अथ साध्यव्यापकमात्रस्योपाधित्वमुच्येत तदा कृतकत्वस्यैव सावयवत्वं प्रति उपाधित्वं स्यात् / एतदुभयमुपादेयनिश्चितोपाधिर्यथा प्रमेयत्वमनित्यत्वे, आशङ्कितोपाधिश्च यथा मित्रातनयत्वं श्यामतायामिति / पूर्वत्वकृतकत्वोपाधेः साध्यसाधन-व्यापकाव्यापकत्वविनिश्चयादिति / उत्तरत्रापि आहारविशेषपरिणतिरुपाधिः / अयं हि मित्रातनयत्वस्य [81 A] व्यापिकां(का), एतद्व्यतिरेकेऽपि मित्रातनयत्वस्य सत्त्वे बाधकाभावात् / आहारविशेषपरिणतेश्च देशकालप्राप्तिकरणशक्तिविचित्राणां हेतूनामनियमात् / व्यापकताप्रसाधकप्रमाणाभा[वा]त् साधनं प्रति अव्यापकत्वमाशङ्कितमिति / शङ्कितोपाधिरयमित्यर्थः / नन्वर्थमुपाधि(धेः) दर्शयति / तद्धर्मेति / रक्तः स्फटिकः स्फटिकत्वादुभयाभिमतस्फटिकवदित्युक्ते न स्फटिकत्वमत्र साधनं जपाकुसुमसंपर्कवशेन रक्तावभासादित्यर्थः / अध्ययनं त्वध्ययनहेतुके साहचर्ये उपाधिर्न तु गुरुशिष्यव्यवहारमात्रे / अन्यथापि गुरुशिष्यव्यवहारदर्शनादित्येवं सर्वत्र निपुणेन भवितव्यमिति तात्पर्यम् / एतेनोपहितप्रत्ययहेतुरुपाधिरिति वदता प्रयोजकाद् भेदो दर्शितः / यदि पुनर्द्वितीयसाधनमुपाधिरित्यभिधीयते तदैकस्मिन् साध्ये साधनान्तरसम्बन्धो न स्यादिति / ननु निरुपाधिः सम्बन्धो व्याप्तिः सत्तावत्संयोगसमवायतादात्म्यविशेषणविशेष्यभावत्वान्यतमो अव्यापकत्वात् / न च सर्वसाधारणसम्बन्धान्तरमभ्युपगम्यत इत्यत आह - तदनेन / 74. तादात्म्यतदुत्पत्त्योरप्येतदेव बीजम् / यदि कार्यात्मानौ कारणमात्मानं चातिपतेतां तदा तयोस्तत्त्वं व्याहन्येत / अत एव सामग्रीनिवेशिनश्चरमकारणादपि कार्यमनुमिमते सौगता अपि / तस्माद् विपक्षबाधकमेव प्रतिबन्धलक्षणम् / तथाहि / शाकद्याहारपरिणतिविरहिणि मित्रातनये न किञ्चिदनिष्टमिति नासौ तस्य व्यापिका, व्यापिका तु श्यामिकायाः, कारणत्वावधारणात् / कारणं च तत् तस्य, तदतिपत्य भवति चेति व्याहतम् / एवमन्यत्राप्यूहनीयमिति / क्व पुनरप्रयोजकोऽन्तर्भवति ? न क्वचिदित्येके / यथाहि - सिद्धसाधनं न बाधितविषयम्, विषयापहाराभावात् / नापि निर्णये सति पक्षत्वातिपातादपक्षधर्मः / कालातीतविलोपप्रसङ्गात् / न चानैकान्तिकादिः, व्यभिचाराद्यभावात् / तथाऽयमपि / सूत्रं तूपलक्षणपरमिति / तदसत् / विभागस्य न्यूनाधिकसंख्याव्यवच्छेदफलत्वात् / क्व तर्हि द्वयोरन्तर्निवेशः / असिद्ध एव / तथाहि व्याप्तस्य हि पक्षधर्मताप्रतीतिः सिद्धिः / तदभावोऽसिद्धिः। इयं च व्याप्तिपक्षपक्षधर्मतास्वरूपाणामन्यतमाप्रतीत्या भवन्ती यथासङ्ख्यमन्यथासिद्धिराश्रयासिद्धिः स्वरूपासिद्धिरित्याख्यायते / मध्यमाऽप्याश्रयस्वरूपाप्रतीत्या तद्विशेषणपक्षत्वाप्रतीत्या वेति द्वयी / तत्र चरमा सिद्धसाधनमिति व्यापदिश्यते / व्याप्तिस्थितौ पक्षत्वस्याहत्य विघटनात् / न त्वेवं बाधे व्याप्तेरेव प्रथमं विघटनादिति विशेषः / यत्त्वप्रयोजकः सन्दिग्धानैकान्तिक इत्यनैकान्तिकेऽन्तर्भाव्यते तदसत् / व्याप्त्यसिद्ध्या हि निमित्तेन व्यभिचारः शङ्कनीयः अन्यथा वा ? प्रथमे असिद्धिरेव दूषणमुपजीव्यत्वात्, नानैकान्तिकम्, उपजीवकत्वात् / अन्यथा शङ्का त्वदूषणमेव; निर्णीते तदनवकाशादिति // 7 // 74. एतेन ने(नि)यतसहभावो व्याप्तिरित्युक्तं भवति / नियमश्च [81 B] विपक्षे बाधकात् स्वपक्षानुकूलतर्कादिति / परैरपि शङ्कापसारिणोऽस्मदुक्तप्रकारोऽभ्युपेतव्यः, अन्यथा शङ्कानिवृत्तिर्दुर्लभेत्याह - तादात्म्येति /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy