Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 106 * वामध्वजकृता सङ्केतटीका अन्यान्येव पदानि येन शक्तिवैचित्र्यं स्यात् / अनाप्तोक्तौ व्यभिचारदर्शनात् तुल्याऽपि सामग्री सन्देहेन शिथिलायते इति चेत्, न / चक्षुरादौ व्यभिचारदर्शनेन शङ्कायामपि सत्यां ज्ञानसामग्रीतस्तदुत्पत्तिदर्शनात् / ज्ञायमानस्यायं विधिर्यत्सन्देहे सति निश्चायकं यथा लिङ्गम्, चक्षुरादि तु सत्तयेति चेत्, न / वाक्यस्य निश्चितत्वात्, फलप्रामाण्यसन्देहस्य च फलोत्तरकालीनत्वात् / आप्तोक्तत्वस्य चार्थप्रत्ययं प्रत्यनङ्गत्वात् / लोकेऽपि चाप्तत्वानिश्चयेऽपि वाक्यार्थप्रतीतेः / भवति हि वेदानुकारेण पठ्यमानेषु मन्वादिवाक्येषु अपौरुषेयत्वाभिमानिनो गौडमीमांसाकस्यार्थनिश्चयः / न चासौ भ्रान्तिः, पौरुषेयत्वनिश्चयदशायामपि तथा निश्चयादिति / 85. प्रत्य[क्षा]नुमानातिरिक्तशब्दप्रमाणवादिनः प्राभाकरस्य वैदिकलौकिकशब्दयोरर्थप्रतिपादने अवान्तरविशेषमातिष्ठमानस्य तद्विशेषविशेषनिराकरणेन तुल्यत्वमुभयशब्दयोर्दर्शयितुर्मतमुत्थापयति - प्राभाकरास्त्विति / लोके त्विति / लौकिकं हि वाक्यं द्विविधं दृष्टं व्यभिचारि चाव्यभिचारि च / अतः श्रूयमाणेषु वाक्येषु भवति व्यभिचारसंशयः / तत्र व्यभिचारशङ्कानिराकरणार्थं वाक्यार्थविषयं वक्तुआनमनुमातव्यम् / तस्मिंश्चानुमिते व्यभिचारशङ्कायां निरस्तायां निरस्तव्यभिचाराशङ्क(ङ्का) वाक्यार्थ()विरोधकाम्(धिका) / अतो वाक्यस्य वाक्यार्थज्ञानानुमानापेक्षस्य स्वार्थप्रतिपादकत्वात् स्मृतिवत् स्वविषयपरिच्छेदे पूर्वप्रमाणापेक्षत्वात् तदप्रामाण्यमनुवादकत्वं चेति तात्पर्यम् / तदुक्तम् - तस्य ज्ञानं च वाक्येन लिङ्गभूतेन कल्प्यते / न च वाच्यं लिङ्गत्वेऽप्यनाप्तोक्तौ व्यभिचार इति / वाक्याद् हि कार्यकारणवत् वक्तृज्ञानस्यानुमानात् / यथोक्तम् - वक्तुर्ज्ञानप्रभूतं हि वाक्यं तत्कार्यमिष्यते / कार्यात् [92A] कारणसिद्धिश्च सर्वेषामनुमानतः // नन्वेवमन्वितमभिदधति पदानीति सुप्तप्रलाप इति चेत्, मैवम्, तेनार्थे निश्चिते पश्चात् सोऽर्थो वाक्यस्य गम्यते / तस्यां दशायां वाक्यस्य तस्मादनुवी(वा)दिता / ननु तथापि तेन रूपेण प्रमाणत्वाद् गर्दभीक्षीरमथनवदफलोऽन्विताभिधानवादप्रयास इति चेत्, न, वेदे वक्तृज्ञानानुमानावकाशे तदुपयोगात् / अत एवोक्तम् - लोकवेदेति / तदेतत्प्राभाकरमतमुपन्यस्य निरस्यति - निर्णीतेति / अनाप्तोक्तत्वादिति / यथोक्तम् - पदानां तत्पदार्थेषु शक्तिः स्वाभाविकी मता / वाक्येषु विसंवादेन संहिता तु तिरोहिता // संदेहेनेति / वाक्यस्वरूपे संदेहः किं वा तज्जनितज्ञानप्रामाण्ये वा आप्तोक्तत्वविनिश्चये वेति / आद्ये वाक्यस्येति / द्वितीये फलेति / तृतीये आप्तेति / ननु वाक्यस्य व्यभिचारिज्ञानजनकत्वमव्यभिचारिज्ञानजनकत्वं च दृष्टम् अतः तत्संशय एव वाक्यार्थनिश्चयपरिपन्थिता / अत्रोच्यते - शङ्कायाः प्रतिपक्षत्वं तस्यां सत्यां वाक्यार्थप्रयवि(प्रत्यय)विपर्ययोपलब्धिनिश्चीयते, तत: सं[देहात्] प्रमाणान्तराद् वा / नाद्यः, व्यभिचारशङ्कायां वाक्यार्थप्रत्ययो नास्तीति परिभाव[न]या / न द्वितीयः, अव्यभिचारिनिश्चयनिरपेक्षस्यैव प्रमाणस्य व्यभिचारसंदेहार्थप्रतीतिजनकत्वादर्शनात् / अन्यथा यद्धि(यद्वि)ज्ञातम) प्रमितिसाधनं तत् स्वार्थव्याप्तिनिश्चयसापेक्षमेवेति / वेदस्याप्यनुमानत्वप्रसङ्गात् / तस्मादयुक्तमेतदपीति / 86. स्यादेतत्, नाप्तोक्तत्वमर्थप्रतीतेरङ्गमिति ब्रूमः, किन्त्वनाप्तोक्तत्वशङ्कानिरासः, स च क्वचिदपौरुषेयत्वनिश्चयात्, क्वचिदाप्तोक्तत्वावधारणादिति चेत् / तत् किमपौरुषेयत्वस्याप्रतीतौ सन्देहे
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210