________________ 10 * वामध्वजकृता सङ्केत्तटीका 10. स्यादेतत् / उत्तरस्य पूर्वः पूर्वस्योत्तरो मध्यमस्योभयमवधिरस्तु, दर्शनस्य दुरपह्नवत्वात् / त्वयाप्येतदभ्युपगन्तव्यम् / न हि भाववदभावेऽप्युभयावधित्वमस्ति / तद्वद् भावेष्वप्यनुपलभ्यमानैकैककोटिषु स्यात् / न स्यात् अनादित्वात् / / प्रवाहोऽनादिमानेष न विजात्येकशक्तिमान् / तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः // 6 // __10. न तु सापेक्षत्वेऽपि कादाचित्कत्वमयुक्तम् / न खल्वनन्तातीतसमयसंसर्गिणी सामग्र्युपलभ्यते / ततो याऽनुपलब्धप्राक्कोटिका सैवानादिः / अतो[5] योग्यतया पूर्वकोट्यज्ञानमिति चेत्, न, प्रागभावेऽपि प्राक्कोटिनिषेधानुपपत्तिप्राप्तेः / अतोऽनादिसामग्रीसापेक्षात्मलाभानां सर्वेषां सदातनत्वापत्तौ [12A] कादाचित्कत्वं सापेक्षनिरपेक्षाभ्यां व्यावृत्तं गन्धवत्त्वमिवासाधारणमित्याशयवानाह - स्यादेतदिति / कुलालादिसामग्री, तत्कार्यो घटः, तदर्थक्रियोदकहरणभणां(कधरण-हरण-भरणां)स्त्रयः, तत उत्तरस्यार्थक्रियारूपस्य पूर्वो घटो अवधिः, पूर्वस्य च कुलालादिसामग्रीरूपस्योत्तरो घटः, न तु तत् सर्व[था] कल्प(ल्प)नमनुपलब्धिबाधितत्वात्, मध्यमस्य घटस्य चोभयमवधिनि(नि)रूपकोऽस्तु / कुत इत्याह - दर्शनस्येति / दुरपह्नवत्वात् सर्वलोकसिद्धत्वेनेति शेषः / ननु भवतामेवमस्तु न त्वस्माकमित्यत आह - त्वयाऽपीति / अनङ्गीकारे विपक्षे बाधकाभिप्रायेणाह - न हीति / अन्यथा तत्राप्यभयावधित्वप्रसङ्गः इत्यभिप्रायः / यथा भावस्य प्रागभावः पर्वः प्रध्वंसश्चोत्तरोऽवधिः / ननु प्रागभावप्रध्वंसयोः पूर्वोत्तरावधित्वं कि(किं) नू(नो)त्तरपूर्वावधित्वम् ? तत् कस्य हेतोः ? अनुपलभ्यमानत्वात् पूर्वोत्तरकोट्योः, तथा अनुपलभ्यमानपूर्वकोटिकेष्वस्तु / तथा चानादिसामग्री... कादाचित्कत्वं न सवे(हे)त / प्रकारान्तराभावादित्याशयवानाह - तद्वदिति / तथा चोक्तदोषापत्तिरिति सत्यम् / सामग्रीणामनिश्चितपूर्वकोटीनामनादि... भयेनापूर्वा सामग्रीपरम्परा परिकल्प्यते / प्रागभावे तु पूर्वकोटिकल्पनायां भावोन्मज्जनापत्तिबाधकम् / साधक(क) च न किमप्यस्तीत्यतो नासा... त्कमनादित्वं स्मारयित्वा प्रथमपदेन व्याचष्टे - अनादित्वादिति / एष कार्यकारणप्रवाहस्तत्तत्पूर्वसामग्रीरूपका[12B].... णतामभिमन्यमानो निराकर्तव्य इत्यभिप्रायात् द्वितीयपदमाहन विजातीति / विगतजाति: व्यक्तिमात्रम् / न तद्वान्..... शक्तिमानिति / विलक्षणजातीयेषु या एका शक्तिस्तद्वान् इति बोद्धव्यम् / तदेवं चार्वाकमुखेनैव प्रसङ्गाद् मीमांसामपि निराकृत्य तृणादौ परोक्तव्यभिचारं निराकर्तुमुत्तरार्धेन... इति / सामान्यविशेषाक्रान्तगोचरयोरन्वयव्यतिरेकयोस्तत्त्वे नियतत्वे यत्नवता पुरुषेण भवितव्यमित्यर्थः / ___11. प्रागभावो ह्युत्तरकालावधिरनादिः, एवं भावोऽपि घटादिः स्यात् / अनुपलभ्यमानप्राक्कोटिकघटादिविषयं नेदमनिष्टमिति चेत् न / तावन्मात्रावधिस्वभावत्वे तदहर्वत् पूर्वेधुरपि तमवधीकृत्य तदुत्तरस्य सत्त्वप्रसङ्गात्, अपेक्षणीयान्तराभावात् / एवं पूर्वपूर्वमपि / भावे, तदेव सदातनत्वम् / तदहरेवानेन भवितव्यमित्यस्य स्वभाव इति चेत् न / तस्याप्यह्नः पूर्वन्यायेन पूर्वमपि सत्त्वप्रसङ्गात् / तस्मात् तस्यापि तत्पूर्वकत्वमेवं तत्पूर्वस्यापीत्यनादित्वमेव ज्यायो, न त्वपूर्वानुत्पादे कस्यचिदपूर्वस्य सम्भव इति / तथापि व्यक्त्यपेक्षया नियमोऽस्तु, न जात्यपेक्षयेति चेत्, न, नियतजातीयस्वभावताव्याघातात् / यदि हि यतःकुतश्चिद् भवन्नेव तज्जातीयस्वभावः स्यात्, सर्वस्य सर्वजातीयत्वमेकजातीयत्वं वा स्यात् / एवं तज्जातीयेन यतःकुतश्चिद् भवितव्यमित्यस्य स्वभावः ? तदापि सर्वस्मात् सर्वजातीयमेकजातीयं वा स्यात् /