________________ 11 * न्यायकुसुमाञ्जलिः स्तबकः 1 11. श्लोकं व्याचिख्यासुरनिष्टं तावदाह - प्रागभाव इति... यैव न पूर्वावधित्वं भवेदिति शेषः / नेदमनिष्टमिति मन्यमा[न]श्चार्वाक आह - अनुपलभ्यमानेति / घटस्यादिर्घटजनिका सामग्री, अनुपलभ्यमानप्राक्कोटिश्चासौ घटः ... / अनिष्टमेवेदमित्यभिप्रायवानाह - नेति / अयमर्थः - यदि पूर्वकोट्यभ्युपगमस्तदा कार्यकारणरूपस्य प्रवाहस्यानादित्वं न भवेत् / तदन्तःपातिना केनचिददृष्टपूर्वकोटिना कोट्यन्तरानपेक्षत्वात् / ननु मा भूदनादिप्रवाहोऽदृष्टपूर्वकोटित्वेनानादिभावमात्राधीन एव भविष्यति / किं नश्छिन्नमित्यत आह - तावन्मात्रावधीति / अदृष्टपूर्वकोटित्वेन नाभावमात्रावधित्वम् / भावत्वे वा तदहर्वत् इति / तस्मिन्नहनि यथासम्बन्ध(न्धः) तथा पूर्वेधुरपि गतदिवे(व)सेऽपि / तमित्यनादिभावम् / तदुत्तरस्यानादिभावोत्तरस्य सत्त्वं [13A] प्रसज्येतेति / एतेन दृष्टप्राक्कोटिकस्यापि तावन्मात्रावधिस्वभावत्वे अनादित्वं स्यादित्यप्युक्तं भवति / कुत इत्याह - अपेक्षणीयेति / तदवधिस्वभावत्वेऽपि तस्मिन्नेव दिने अनेन भावितव्यं यस्मिन्नध्यक्षधियमधिरूढ इत्येषोऽप्यस्य स्वभाव एवेत्याशयेन शङ्कते - तदहरेवेति / ननु किं कालमात्रमभिप्रेतमवच्छिन्नो वा कालः / द्वितीयेऽपि कालावच्छेदका उपाधयोऽनाद्यनित्यप्रवाहरूपा वा / कालानादित्वे तन्मात्रावधेघ(घ)टस्याप्यनादित्वप्रसङ्गात् / द्वितीयं त्विष्टमेवास्माभिः / अनाद्यनित्यप्रवाहसिद्धये दृष्टावध्यनुपलम्भेऽप्यवधेरवन्स्या(रवश्या) भ्युपगन्तव्यत्वात् / तृतीये त्वनादिरूपादृष्टावधिमात्रावधित्वे तदुत्तरस्यापि दिवसस्यानादित्वप्रसङ्गो घटस्येवेत्याशयवानाह - तस्यापीति / तस्याद्वा(स्याबा)धकवशात् पूर्वपूर्वकोटिस्वा(स्वी)कारो दुर्वारो गत्यन्तराभावादित्याशयवानुपसंहरति - तस्मादिति / ज्यायो युक्तम्, सतर्कप्रमाणसिद्धत्वादित्यर्थः / ननु यदि वैयात्यात् परो ब्रूयात् - अपूर्वानुत्पादमन्तरेण कादाचित्कत्वं स्यादित्यत्राह - न त्विति / पूर्विकैव युक्तिरनुसन्धेयेत्यर्थः / दुष्टाभिप्राय एव गुडुजिमि(वि)कया शङ्कते - तस्यापीति / जात्यपेक्षया पराङ्गीकृतकारणत्वे निरस्ते व्यक्त्यपेक्षया सुतरामेव निरस्तं भवति / तथा च न कारणत्वव्यवस्थेति दुष्टाभिसन्धिः / अवान्तरकार्यस्वीकारादेव समस्तव्यभिचारतिरस्कार इति मत्वा अनो(न्या)ऽनिष्टप्रसङ्गमाह - नेति / किं कार्यस्यैव स्वभावो यद् भिन्नजातीयेभ्योऽपि जायते जायमानस्यानेकजातीयंत्वावा(जातीयत्वं वा) / अथ जनकस्य यदि तदाप्येकजातीयत्वे सर्वजातीयकार्यजनकत्वं चे(वे)ति / तत्र प्रथमे दूषणमाह - यदि हीति / तज्जातीयमनेकजातीयं [13B] वाऽभिमतमिति / अत एवास्येत्यग्रे द्वितीये दूषणमाह - एवमिति / तज्जातीयेन सर्वैकजातीयेनेत्यर्थः / न च वाच्यं नित्यजातिप्रति दनि)त्यजातिनियमोऽप्यस्त्विति प्रमाबलस्योभयत्रापि तुल्यत्वात् / तथाहि - यथा नित्यस्य जातिप्रतिनियम उपलम्भबलेन व्यवस्थाप्यते कार्यस्यापि यदि तथै[व] तदा तत्तज्जातीयजन्यतापि तथैव व्यवस्थाप्यताम् / अथ तत्तज्जातीयजन्यता नोपलम्भबलेन व्यवस्थाप्या नित्यजातिनियमोऽपि तहि न ह्यवतिष्ठते / किञ्च, नित्यजातिनियमस्य हेत्वनपेक्षत्वम् / व्यक्तिहेत्वनपेक्षव्यक्तिजातिप्रतिबद्ध मु(उ) पलम्भ[:] परमाण्वादाविति तात्पर्य[म्] / 12. कथं तर्हि तृणारणिमणिभ्यो भवन्नाशुशुक्षणिरेकजातीयः ? एकशक्तिमत्त्वादिति चेत् न / यदि हि विजातीयेष्वप्येकजातीयकार्यकारणशक्तिः समवेयात्, न कार्यात् कारणविशेषः क्वाप्यनुमीयेत / कारणव्यावृत्त्या च न तज्जातीयस्यैव कार्यस्य व्यावृत्तिरवसीयेत / तदभावेऽपि तज्जातीयशक्तिमतोऽन्यस्मादपि तदुत्पत्तिसम्भवात् / यावद्दर्शनं व्यवस्था भविष्यतीति चेत् न / निमित्तस्यादर्शनाद् दृष्टस्य चानिमित्तत्वात् / एतेन सूक्ष्मजातीयादिति निरस्तम् / अवह्वेरपि तत्सौक्ष्याद् धूमोत्पत्त्यापत्तेः / कार्यजातिभेदाभेदयोः समवायिभेदाभेदावेव तन्त्रम्, न निमित्तासमवायिनी इति चेत् न / तयोरकारण