SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 12 * वामध्वजकृता सङ्केत्तटीका त्वप्रसङ्गात् / न हि सति भावमात्रं तत्, किन्तु सत्येव भावः / न च जातिनियमे समवायिकारणमात्रं निबन्धनमपि तु सामग्री / अन्यथा द्रव्यगुणकर्मणामेकोपादानकत्वे विजातीयत्वं न स्यात् / न च कार्यद्रव्यस्यैषा रीतिरिति युक्तम् / आरब्धदुग्धैरेवावयवैर्दध्यारम्भदर्शनात् / 12. ननु यद्येकजातीयकारणनियमात् कार्यनियम[स्त] हि भिन्नजातीयेभ्य: कारणेभ्यो नैकजातीयं कार्य प्राप्तमित्याशङ्कते - कथमिति / अत्र मीमांसकसमाधानं निराकर्तुमाशङ्कते - एकेति / कार्यमु(र्यानु)पलब्धिलिङ्गभङ्गप्रसङ्गात् संत्रासापसारितमेकशक्तिकत्वं विचार्यमाणं न प्रमाणपद्धतिमध्यास्त इत्याशयवान् परिहरति - नेति / अनुमानद्वयभङ्गं समाधित्सय[न्] शङ्कते - यावदिति / यावति कार्यं दृश्यते तावत्येव शक्तिः कल्प(ल्प्य)ते, नान्यथेति नोक्तदोषावकाश इत्यर्थः / ननु किंनिमित्ते शक्तिः कल्प्यते ? दृष्टं वा कार्यदर्शनमेव वा शक्तिव्यवस्थापकम् / आद्यं निराकरोति - न, निमित्तस्येति / अन्वयव्यतिरेकवतोऽदर्शनादित्यर्थः / द्वितीयं निराकरोति - दृष्टस्य चेति / तृणादेरन्योन्यव्यभिचारेणाहेतुत्वात् / अकारणेऽपि च शक्तिकाल्प]नायां रासभादावपि दहनार्जनशक्तिकल्पनापत्तिरित्यर्थः / तृतीयोऽपि किमन्वय[14A]व्यतिरेकवति कार्यशक्ति(क्ति) कल्पयति तद्विपरीते वेति तुल्यन्यायतया निरस्तो नु(न) युक्त्यन्तरमपेक्ष्य(क्ष)त इत्यर्थः / न च सत्यपि तदपरकारणसाध(क)ल्ये तृणैकव्यतिरेके कार्यव्यतिरेकात् तस्य हेतुत्वम् / न चाशक्तस्य, दहनहेतुसाकल्ये रासभमात्रव्यतिरेके दहनव्यतिरेकाभावादेव च / यदे(दै)कविरहे फलविरहस्तत्र शक्तिकल्पनेनातिप्रसङ्गः / अन्यथा तृणप्रयोज्यजातिवद् रासभप्रयोज्यजातिभेदकल्पना इति प्रतिवाच्यम् / तन्नात्राव्यतिरेके कार्यव्यतिरेकहेतुत्ववत् तदेकविरहे कार्यार्ज(र्याजन)नादहेतुत्वप्रसक्तौ निर्णयोपायवैधुर्येणाहेतुत्वस्य निश्चितत्वादिति / इह ये केचिद् विधिनिषेधयोरन्यतररूपां जाति(ति) तृणादिषु अभ्युपगम्य परस्परव्यभिचारं परिहरति / .... मीमांसकाका:) तुल्ययोगक्षेमतया निरस्ता इत्याशयवानाह - एतेनेति / ननु तृणादयो निमित्तभेदा न समवायिनो, न च निमित्तभेदाभेदौ कार्यभेदाभेदौ प्रयोजयते अपि तु समवायिभेदाभेदौ / ततस्तद्भेदेऽपि किमनेनानिष्टमस्माकमापादितमिति / नैयायिकैके(क)देशिमतमाशङ्कते - कार्येति / तदेतदनिष्टप्रदर्शनेन निराकरोति / ननु सति भावमात्रेण कारणत्वेनेदमनिष्टमिति भ्रमं निवारयति - न हीति / किञ्च, समवायिमात्रभेदो न जातिवोद(जातिभेदे) निमित्तम्, तदभावेऽपि जाति[14B] भेददर्शनादित्याह - न चेति / कार्यत्वेऽपि न कार्यमात्रस्यापि तु द्रव्यस्य सतो रीतिरेषा यत् समवायिभेदेन भिद्यत इति / न द्रव्यादिभिः समानोपादानैर्व्यभिचार इत्यत आह - न चेति / अत्र हेतुमाह - आरब्धेति / अन्यथा समवाय्यभेदे कार्यद्रव्यं दधिदुग्धरूपं न भिद्यतेत्यर्थः / क्षीरावयवा अम्लद्रव्यसम्पर्कवशाद् विनष्टाः कार्यद्रव्यान्तरमारभन्त इति लौकि[को]ऽनुभव इत्यर्थः / अथवा दुग्धारम्भकाः परमाणव एक(व) दध्यारभते(न्ते)....ने क्षीरमुपाददतो नियमेनेति / न च क्षीरावयवी दध्यारभत इत्युपपन्न भिन्नमुपादानमिति वाच्यम् / दध्युपलम्भसमवाये(मये) दुग्धावयविनोऽनुपलब्धेः.... समवायिकारणोपलम्भं विरुणद्धि तन्तुपटादावपि तथात्वप्रसङ्गादिति निस्तरङ्गमे(निरस्तमे)तच्च / अत एव क्षीरं नष्टं दधि जातमिति सर्वजनप्रसिद्धिः / न च क्षीरावयवा अपि नोपलभ्यन्त एवेति वाच्यमिह, क्षीरेषु दधीति प्रत्ययस्य सर्वलोकसिद्धत्वात् 'तन्तुषु पटः' [इति] प्रत्ययवत्। तद्वव(तद्वदेव) / ___13. एतेनाऽपोहवादे नियमो निरस्तः / "कार्यकारणभावाद् वा" [प्रमाणवार्तिक 3.30] इत्यादिविप्लवप्रसङ्गात् / तस्मान्नियतजातीयतास्वभावभङ्गेन व्यक्त्यपेक्षयैव नियम इति / न / फूत्कारेण तृणादेरेव, निर्मन्थनेनारणेरेव, प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रकारनियमवत्तेनैव व्यज्यमानस्य
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy