________________ 13 * न्यायकुसुमाञ्जलिः स्तबकः 1 कार्यजातिभेदस्य भावात् / दृश्यते च पावकत्वाविशेषेऽपि प्रदीपः प्रासादोदरव्यापकमा-लोकमारभते, न तथा ज्वालाजालजटिलोऽपि दारुदहनो न तराञ्च कारीषः / ___ यस्तु तं नाकलयेत्, स कार्यसामान्येन कारणमात्रमनुमियादिति किमनुपपन्नम् / एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्याद् यस्य दहनाऽपेक्षेति न धूमादिसामान्याद् वह्निसामान्यादिसिद्धिः / ___13. सूक्ष्मजातिवादिनामपि कार्यकारणनिवृत्तिभ्यां कार्यकारणनिवृत्त्यनुमानापाकरणेनैव बौद्धानामप्यनुमानगात्रभङ्ग इत्यतिदिशति - एतेनेति तृणादौ व्यभिचारेण / नियमोऽविनाभावः / [15A] कथमित्यत आह - कार्येति / कारणभावासिद्धौ स्वभावस्याप्यसिद्धिरित्यर्थः / नात्र परमार्थतः कार्यकारणभावमङ्गीकरोति चार्वाकः किन्तु तत्र रसनबुद्ध्यैव गुडजिह्विकयोपसंहरति - तस्मादिति / नियतया(जा)तिशक्तिव्यावृत्तिभंगे गत्यन्तराभावाद् व्यक्तीनामेव कारणत्वमुपेतव्यम् / तत्र चान्वयव्यतिरेकव्यभिचारादकारणत्व(त्वं) सुव्यक्तमिति तात्पर्यम् / तदेतदवान्तरजातिस्वीकारादेव समञ्जसमिति मन्यमानो निराकरोति - नेति / प्रकारनियमः सहकारिनियमः / फूत्कारस्तृणादेरेव, निर्मथनमरणेरेवेत्यादि / तेनैव व्यज्यमानस्य प्रतिपाद्यमानस्येत्यर्थः / तथा च प्रयोगः - विवादाध्यासिता अग्नयो वह्नित्वावान्तरानेकजातिमन्तः, नियतसहकार्यनुप्रवेशेन जायमानत्वात् प्रदीपदारुदहनकारी[ष]वत् / अथवा प्रत्यक्षमुक्तं सास्नाकेशराद्यभिव्यञ्जकव्यक्तिगोत्वाश्वत्ववत् / विपक्षे च बाधकम् - यद्यवान्तरजातिविशेषसम्बन्धित्वं न स्यात् तदा [नियत]सहकार्यनुप्रवेशे[न] जायमानत्वं न स्यात् / कार्यजातिविशेषेण सहकारिनियमस्य व्याप्तत्वात् / व्यापकनिवृत्तौ च व्याप्यनिवृत्तेः सर्ववादीष्टत्वात् / न चाव्यपदेशत्वान्नास्ति विशेषः / [अ] नैकान्तिकत्वात् / सामान्यविशेषतो व्यपदेश्यस्यानुभूयमानस्येक्षुक्षीरगुडादिरसभेदस्य सत्त्वस्वीकारेण(णा)नैकान्तिकत्वात् / सामान्यतश्चासिद्धत्वादिति सर्वमवदातम् / न च दृष्टान्तः साध्यविकल इत्याह - दृश्यते चेति / यथा तत्र तैलादिकारणविशेषव्यङ्ग्या जातिस्तथाऽत्रापीति नादृष्ट[ 15B][चरकल्पनमित्यर्थः किन्तु दुरूहत्वा]न्नैष विशेष [आपाततः स्फुरति] / तत्कथं तथाभूतात् कार्यात् तथाभूतकारणमनुमीयत इत्यत आह - यस्तु तमिति / यथा प्रदीपादेर्यो विशेषं नाकलयति स न विशेषमनुमिमीते किन्तु पावकमात्रसंदर्शनेन तदनुकूलकारणमात्रम् / यस्तु विशेषमपि जानीते स विशेषमनुमिनोत्येव / तथाऽत्रापीत्यर्थः / यदि तृणादीनामनुपलक्षणीयकार्यगतविशेष प्रति प्रयोजकत्व(त्वं) तदा धूमादावपि विशे[ष]स्वीकारे न धूमादिमात्राद् धूमध्वजानुमानमित्याशयवानाह - एवमिति / एवं वह्निव्यतिरेकाद् न धूम[व्यतिरेको] गम्येत / वढेधूमगतविशेष एव प्रयोजकत्वादिति कार्य....पलब्धिरपि वराकी न प्रमाणमित्याशयवानाह - एतेनेति / व्याख्यातो निषेध्यतयेति शेषः / अनेन प्रकारेण कार्यानुपलब्धी विलीयेते अवतिष्ठते तु स्वभावः क्षणिकत्वादिसंसाधनपटीयानित्यत आह - तथा चेति / विपक्षे बाधकप्रमाणप्रवेदनीयो हि स्वभावनियमो बौद्धैरभ्युपगम्यते / बाधकं च कार्यानुपलब्धी / ततस्तद्भङ्गे कथमनुपाय: स्वभावः सेत्स्यति / न चास्माकमिव परेषामपि प्रकारान्तरमस्ति येन त्रितयभङ्गेऽपि अनुमानमात्र[म]वतिष्ठेत / कार्यानुपलम्भस्वभावाख्या हेतवस्तु य इति सद्य(साध्य)संदर्शनादिति तात्पर्यार्थः / तदेतत् सर्वरा(बी)जसामान्यमङ्करेऽप्रयोजकम्, तद्विशेष: [16A] कुर्वद्रूपत्वं प्रयोजकमिति वदतो बौद्धस्य दूषणम् नास्माकं कारणसामान्यविशेषयोः कार्यसामान्यविशेषौ [प्रति] प्रयोजकत्वादिति वदतामित्याशयवानाह - नेति / 14. एतेन व्यतिरेको व्याख्यातः / तथा च कार्यानुपलब्धिलिङ्गभङ्गे स्वभावस्याप्यसिद्धेर्गतमनुमानेनेति