________________ 14 . वामध्वजकृता सङ्केतटीका चेत् / प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो वौद्धस्य शिरस्येष प्रहारः / अस्माकं तु यत्सामान्याक्रान्तयोर्ययोरन्वयव्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः / तथा चावान्तरविशेषसद्भावेऽपि न नो विरोधः / किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजकम् ? तृणादीनां विशेष एव नियतत्वादिति चेत्, न / तेजोमात्रोत्पत्तौ पवनो निमित्तम्, अवयवसंयोगोऽसमवायी, तेजोऽवयवाः समवायिनः / इयमेव सामग्री गुरुत्ववद्र्व्यसहिता पिण्डितस्य / इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम्, तत्रापि जलं प्राप्य दिव्यम्, पार्थिवं प्राप्य भौमम्, उभयं प्राप्यौदर्यमारभत इति स्वयमूहनीयम् // 6 // ____ 14. प्रत्यक्षानुपलम्भगोचरो बीजत्वजातियुक्तं बीजं कार्येऽङ्करेऽप्रयोजकोऽकारणम्, किन्तु तद्विशेष: कुर्वद्रूपमिति / तथा अप्रामाणिककारणकुर्वद्रूपवदप्रामाणिक ए[व] कार्येविशेषे च.(कार्यविशेष इति) शङ्कायामनुमानत्रयभङ्ग इति बौद्धस्य प्रहारो दोष इत्यर्थः / एतच्च क्ष[ण] भङ्गे स्फुटीभविष्यति / न चास्माभिर्विशेषोऽप्रामाणिक एव स्वीक्रियते येन तथाशङ्कायामनुमानभङ्गः / यदि तृणादिवद्वह्निविशेषाद्भूमविशेष: स्यादित्युच्यते तदा नेदमनिष्टमित्याशयवानाह - अस्माकं त्विति / एवं हे... थे निस्तीर्णे सुमार्गे प्रश्नोत्तराभ्यां कोमलमाह - किं पुनरिति / एवं समर्थिते कारणतत्व(त्त्वे) तदायत्ता... ईश्वरसिद्धिः / 15. तथाप्येकमेकजातीयमेव वा किञ्चित् कारणमस्तु, कृतं विचित्रेण / दृश्यते ह्यविलक्षणमपि विलक्षणानेककार्यकारि / यथा प्रदीप एक एव तिमिरापहारी, वर्तिविकारकारी, रूपान्तरव्यवहारकारीति चेत्, न, वैचित्र्यात् कार्यस्य / एकस्य न क्रमः क्वापि वैचित्र्यं च समस्य न / शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः // 7 // 15. कारणस्यैकव्यक्तितयैकजातीयतया वाऽस्मदादिभिरपि द्रष्टुं शक्यत्वेन सिद्धसाधनादित्यभिप्रायेण शङ्कते - तथापीति / न चाविचित्रात् कारणाद् विचित्रकार्योदयो न दृष्टचर इत्यत आह - दृश्यते हीति / प्रदीपश्च(पे च) न स्वरूपसहकारिवैलक्षण्यमुपलभामहे इत्यभिप्रायः / परस्य द्वितीयपादाद्यपदेनोत्तरयति - न वैचित्र्यादिति। यद्येकमविलक्षणं [16B] कारणं न तदा क्रमि[कं] कार्यं भवेत् / दृश्यते च क्रमिकं कार्य किञ्चिदिदानी किञ्चिदुपरिष्टात् किञ्चित् तदुपरिष्टादित्यादि / एतत्सूचितं प्रत्यक्षमनुमानं वा पूर्वमेवोक्तमिति प्रतिसन्धेयम् / कालकृतवैचित्र्यं प्रमाणयित्वा जातिकृतवैचित्र्यं प्रमाणयति - वैचित्र्यं चेति / व: पुनरर्थे पुनः प्रकारान्तरेण वैचित्र्यमित्यर्थः / समस्यैकजातीयस्येत्यर्थः / ननु जातिसाम्येऽपि धर्मभेदाद् भेद इत्याशङ्कायामुक्तम् - शक्तीति / नाभिन्नो न भिन्नो नोभयमुक्तदोषापरिहाराभिमानासिद्धिविरोधे[ऽस्य] इति / नन्वदहनजनकस्यैव दहनेतरकार्यजनकत्वस्वभाव इत्याह - स्वभाव इति / दुरतिक्रमोऽशक्यातिक्रम इति यावत् / अदहनजनकात् स्वभावानुवृत्तिव्यावृत्तिभ्यां दहनाभिमतादहनप्रसङ्गदहनानुत्पादयोर्दुष्परिहरत्वात् / अतिरिक्तानुप्रवेशे सहकारिप्राप्तेरपह्नवानुपपत्तेरिति तात्पर्यम् / 16. न तावदेकस्मादनपेक्षादनेकम् / अक्रमात् क्रमवत्कार्यानुपपत्तेः / क्रमवत्तावत्कार्यकारणस्वभावत्वात् तस्य तत्तथा यौगपद्यवदिति चेत् / अयमपि क्षणभङ्गपरिहारो न तु सहकारिवादे, पूर्वपूर्वानपेक्षायां क्रमस्यैव व्याहतेः / क्रमनियमे त्वनपेक्षाऽनुपपत्तेः /