Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 72 * वामध्वजकृता सृङ्केतटीका त्पादनप्रयुक्त उच्छेद इति न वाच्यम् / वाच्यं चेद् वस्तुस्थितिरियमीदृश्यनित्यहेतुनिबन्धनाऽवश्यमनुसरणीयेत्याशयवानाह- ईदृश्यामिति / [63B] अनित्यहेतुनिबन्धनायां कार्यस्थितौ कर्मभिः सम्पादनीयो भोगोऽप्येवमेव स्यादिति योजनेति / वस्तुस्वभावश्च तदुच्छेदवतामेव सन्तानानां भोगसाधनत्वं न तूच्छेदरहितानामन्यथा एकस्यैव घटसन्तानस्य नानापुरुषाधिष्ठितादृष्टोपक्षयात् क्रमेणैव भोगजनकत्वानुच्छेदप्रसङ्गात् / नन्वेवमपि ब्रह्माण्डावयविना एकस्य भूगोड(ल)कस्य च तदुपविष्टकारणव्यणुकादिकार्यस्तोममात्रस्य चात्यन्तोच्छेदः सिद्ध्यति / तनुतरुगिरिसागरादीनामिति कुतः प्रलयः इति हृदि निधाय तेषामपि विनाशे प्रमाणमस्तीति संसूचनार्थं दृष्टान्तत्रयमाह - तथा चेति / प्राणिगणा इति / तदन्तर्वतिकार्यमात्रोपलक्षणपरम् / क्व वर्तन्ताम् ? तदन्तर्वतिकार्यमात्रेति निवर्तत एवेति प्रतिज्ञार्थः / महाद्रव्यान्तरेण निहन्यमानाधारत्वात् कपिकपोलान्तर्गतोदुम्बरमशकसमूहवत्, महादहनदह्यमानाश्रयत्वात् दवदहनेत्यादिवत्, महापवनक्षुभितबहलजलनिधिविलीयमानाश्रयत्वात् प्रबलपवनेत्यादिवदिति [64A] प्रयोगाः / एवं तावत् सर्वस्य प्रलये वेदप्रलय इति दर्शितम् / सम्प्रति वेदहास: संदर्शनेनानुमेय इत्याशयवानाह - अपि चेति / 59. पूर्वं हि मानस्यः प्रजाः समभवन्, ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः, ततः कामावर्जनीयसन्निधिजन्मानः, इदानीं देशकालाद्यव्यवस्थया पशुधर्मादेव भूयिष्ठाः / पूर्वं चरुप्रभृतिषु संस्काराः समाधायिषत, ततः क्षेत्रप्रभृतिषु, ततो गर्भादितः, इदानीं तु जातेषु लौकिकव्यवहारमाश्रित्य / पूर्वं सहस्रशाखः समस्तो वेदोऽध्यगायि, ततो व्यस्तः, ततः षडङ्ग एकः, इदानीं तु क्वचिदेका शाखेति / पूर्वम् ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत, ततोऽमृतवृत्तयः, संप्रति मृतप्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्तयो भूयांसः / पूर्वं दुःखेन ब्राह्मणैरतिथयोऽलभ्यन्त, ततः क्षत्रियातिथयोऽपि संवृत्ताः, ततो वैश्यावेशिनोऽपि, संप्रति शूद्रान्नभोजिनोऽपि / पूर्वममृतभुजः, ततो विघसभुजः, ततोऽन्नभुजः, संप्रत्यघभुज एव / पूर्वं चतुष्पाद् धर्म आसीत्, ततस्तनूयमाने तपसि त्रिपात्, ततो म्लायति ज्ञाने द्विपात्, संप्रति जीर्यति यज्ञे दानैकपात्, सोऽपि पादो दुरागतादिविपादिकाशतदुःस्थोऽश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलभ्यते / इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते इति चेत्, न / स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् / स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात् / मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात् / आचारात् स्मृतिः स्मृतेश्चाचार इत्यनादिताऽभ्युपगमे अन्धपरम्पराप्रसङ्गात् / आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् / उत्पत्तितोऽभिव्यक्तितोऽभिप्रायतो वाऽनवच्छिन्नवर्णमात्रस्य निरर्थकत्वात् / यदि च शिष्टाचारत्वादिदं हितसाधनं कर्तव्यं वेत्यनुमितं किं वेदानुमानेन, तदर्थस्यानुमानत एव सिद्धेः / न च धर्मवेदनत्वादिदमेवानुमानमनुमेयो वेदः / प्रत्यक्षसिद्धत्वात् / अशब्दत्वाच्च /
Loading... Page Navigation 1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210