________________ 72 * वामध्वजकृता सृङ्केतटीका त्पादनप्रयुक्त उच्छेद इति न वाच्यम् / वाच्यं चेद् वस्तुस्थितिरियमीदृश्यनित्यहेतुनिबन्धनाऽवश्यमनुसरणीयेत्याशयवानाह- ईदृश्यामिति / [63B] अनित्यहेतुनिबन्धनायां कार्यस्थितौ कर्मभिः सम्पादनीयो भोगोऽप्येवमेव स्यादिति योजनेति / वस्तुस्वभावश्च तदुच्छेदवतामेव सन्तानानां भोगसाधनत्वं न तूच्छेदरहितानामन्यथा एकस्यैव घटसन्तानस्य नानापुरुषाधिष्ठितादृष्टोपक्षयात् क्रमेणैव भोगजनकत्वानुच्छेदप्रसङ्गात् / नन्वेवमपि ब्रह्माण्डावयविना एकस्य भूगोड(ल)कस्य च तदुपविष्टकारणव्यणुकादिकार्यस्तोममात्रस्य चात्यन्तोच्छेदः सिद्ध्यति / तनुतरुगिरिसागरादीनामिति कुतः प्रलयः इति हृदि निधाय तेषामपि विनाशे प्रमाणमस्तीति संसूचनार्थं दृष्टान्तत्रयमाह - तथा चेति / प्राणिगणा इति / तदन्तर्वतिकार्यमात्रोपलक्षणपरम् / क्व वर्तन्ताम् ? तदन्तर्वतिकार्यमात्रेति निवर्तत एवेति प्रतिज्ञार्थः / महाद्रव्यान्तरेण निहन्यमानाधारत्वात् कपिकपोलान्तर्गतोदुम्बरमशकसमूहवत्, महादहनदह्यमानाश्रयत्वात् दवदहनेत्यादिवत्, महापवनक्षुभितबहलजलनिधिविलीयमानाश्रयत्वात् प्रबलपवनेत्यादिवदिति [64A] प्रयोगाः / एवं तावत् सर्वस्य प्रलये वेदप्रलय इति दर्शितम् / सम्प्रति वेदहास: संदर्शनेनानुमेय इत्याशयवानाह - अपि चेति / 59. पूर्वं हि मानस्यः प्रजाः समभवन्, ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः, ततः कामावर्जनीयसन्निधिजन्मानः, इदानीं देशकालाद्यव्यवस्थया पशुधर्मादेव भूयिष्ठाः / पूर्वं चरुप्रभृतिषु संस्काराः समाधायिषत, ततः क्षेत्रप्रभृतिषु, ततो गर्भादितः, इदानीं तु जातेषु लौकिकव्यवहारमाश्रित्य / पूर्वं सहस्रशाखः समस्तो वेदोऽध्यगायि, ततो व्यस्तः, ततः षडङ्ग एकः, इदानीं तु क्वचिदेका शाखेति / पूर्वम् ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत, ततोऽमृतवृत्तयः, संप्रति मृतप्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्तयो भूयांसः / पूर्वं दुःखेन ब्राह्मणैरतिथयोऽलभ्यन्त, ततः क्षत्रियातिथयोऽपि संवृत्ताः, ततो वैश्यावेशिनोऽपि, संप्रति शूद्रान्नभोजिनोऽपि / पूर्वममृतभुजः, ततो विघसभुजः, ततोऽन्नभुजः, संप्रत्यघभुज एव / पूर्वं चतुष्पाद् धर्म आसीत्, ततस्तनूयमाने तपसि त्रिपात्, ततो म्लायति ज्ञाने द्विपात्, संप्रति जीर्यति यज्ञे दानैकपात्, सोऽपि पादो दुरागतादिविपादिकाशतदुःस्थोऽश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलभ्यते / इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते इति चेत्, न / स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् / स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात् / मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात् / आचारात् स्मृतिः स्मृतेश्चाचार इत्यनादिताऽभ्युपगमे अन्धपरम्पराप्रसङ्गात् / आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् / उत्पत्तितोऽभिव्यक्तितोऽभिप्रायतो वाऽनवच्छिन्नवर्णमात्रस्य निरर्थकत्वात् / यदि च शिष्टाचारत्वादिदं हितसाधनं कर्तव्यं वेत्यनुमितं किं वेदानुमानेन, तदर्थस्यानुमानत एव सिद्धेः / न च धर्मवेदनत्वादिदमेवानुमानमनुमेयो वेदः / प्रत्यक्षसिद्धत्वात् / अशब्दत्वाच्च /