________________ 71 * न्यायकुसुमाञ्जलि स्तबकः 2 प्रलयपूर्वकत्वमाह / कार्यपरम्पराशून्यैरित्यर्थः / सन्तानत्वं चावयवावयविप्रवाहत्वम् / एवं द्वितीयेऽपि नाश्रयासिद्धिरित्यपि बोद्धव्यम् / तदारम्भकत्वादित्युक्ते तन्तुभिः पूर्वमनुत्पादितपटैः सम्प्रत्युत्पादितपटैरनेकान्तः स्यादित्यत उक्तम् - नित्येति / एतावन्मात्रं च गगनादिभिरनैकान्तिकं भवेत्, तं निवृत्त्यर्थं विशेषणपदम् / प्रदीपपरमाणूनां च तैजसत्वेनारब्धतेजोजाति(ती)यत्वेन दृष्टान्तोपपत्तेः / ननु संदिग्धव्यभिचारित्वादुभयमपि न साधनम् / न च सन्तानस्य कार्यविशेषस्य भावतया विनाना(शोऽ)वश्यंभावनियमात् सदेहस्य(सन्तानस्य) इति वाच्यम् / [62B] सन्तानाविच्छेदेऽप्युत्पत्तिविनाशयोरन्यथोपपादयितुं शक्यत्वादित्याशयवानाह - अवयवानामिति / आवापोद्वापौ उपगमापगमौ प्रकर्षापकर्षाविति यावत् / यदि च न कार्यस्यात्यन्तमुच्छेदस्तदोभयाभिमतघटाधुच्छेदोऽपि न स्यादिति बाधकमाशङ्कते - नेति / एवमिति / सन्तानस्यात्यन्तोच्छेदात् साधनत्व इत्यर्थः / विपर्ययस्त्विति अत्यन्तोच्छेद इत्यर्थः / 58. कादिभोगविशेषसम्पादनप्रयुक्तोऽसाविति चेत्, न / व्यणुकेषु तदभावात् / तथा च तदवयवानामपगमाभावेऽनादित्वप्रसङ्गे व्यणुकत्वव्याघातः / तस्माद् यत्कार्यं यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः, यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः / न च कार्यस्य स्थितिनिबन्धनं नित्यमेव / नित्यस्थितिप्रसङ्गात् / न च नित्य एव हेतुः, अकादाचित्कत्वप्रसङ्गात् / तदतिनिस्तरङ्गमेतत् / ईदृश्यां च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पादनीय इति व्यणुकवत् पिपीलिकाण्डादेब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसिद्धिः / तथा च ब्रह्माण्डे परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्तन्ताम् ? कुपितकपिकपोलान्तर्गतोदुम्बरमशकसमूहवत्, दवदहनदह्यमानदारूदरविघूर्णमानघुणसङ्घातवत्, प्रलयपवनोल्लासनीयौर्वानलनिपातिपोतसांयात्रिकसार्थवत् वेति // अपि च जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः / हासदर्शनतो हासः सम्प्रदायस्य मीयताम् // 3 // 58. अत्र पर उपाधिमाह - कर्त्रेति / न सन्तानप्रयुक्तो घटाद्यत्यन्तोच्छेदः किन्तूक्तविशेषप्रयुक्त इत्यर्थः / साध्याव्यापकत्वेन परिहरति - नेति / तदभावाद् भोगविशेषसम्पादकत्वस्योपाधेरभावादुपाधिमतो अत्यन्तोच्छेदस्याप्यभावप्रसङ्गः / न चात्राप्यत्यन्तानुच्छेदेऽप्यवयवावापोद्वापाभ्यामेवोत्पत्तिविनाशौ स्यातामिति वाच्यम् / तयोरप्यत्राभावादित्याह - तथा चेति / अनादित्वप्रसङ्ग इति / अयमर्थः / भोगविशेषसम्पादनप्रयुक्ते हि नाशेन भवितव्यम् / न हि व्यणुकनाशः कमपि भोगं जनयति / तथा च विनाशिनो भावस्य नित्यत्वेन व्याप्तत्वाद् व्यणुकस्यानादित्वप्रसङ्ग इति / तस्मादेव दोषवशेन कार्यस्रोतापरनाम्नः सन्तानस्यात्यन्तोच्छेद(दे)न स्वाभाविकप्रतिबन्धोऽभ्युपेय इति भावः / [63A] वस्तुस्वभावश्च तदुच्छेदवतामेव सन्तानानां प्रतिबन्धो न भवेद् यदि तदा सन्तानस्यावस्थानहेतुकं नित्यहेतुकं वा स्यात् / द्वयोरप्यनुपपत्तेनित्यावस्थानप्रसङ्गात् / भोगविशेषसम्पादनप्रयुक्ते हि नाशे व्यणुकत्वव्याघात इत्युक्तमित्युपसंहारव्याजेनाह - तस्मादित्यादि / यदि पुनः कार्यस्य स्थितिनिबन्धनं नित्यत्वं स्यात् ततः कार्यस्य नित्यावस्थानस्वभावत्वप्रसङ्गः कर्मभिर्भोगभेदोपपादन[त]यापि नास्यात्यन्तोच्छेदः शक्यः / न हि परमेश्वरोऽपि वस्तुस्वभावं विपर्यासयितुमीष्टे किमुत कर्माणीति / तथा च कादिभोगविशेषो