Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 84 * वामध्वजकृता सङ्केतटीका चेत्, न / तस्य संयोगातिरिक्तस्य कर्मरूपत्वे वैभवविरोधात् / गुणरूपत्वे नित्यस्य क्रमानुपपत्तेः / अनित्यस्य च नित्यैकगुणस्याविभुद्रव्यसंयोगासमवायिकारणकत्वेन तदन्तरेणानुपपत्तेः / तदपि कल्पयिष्यते इति चेत्, तदेव तर्हि मनःस्थाने निवेश्यतां लाघवाय / तस्मादण्वेव मन इति / तथा च तस्मिन्ननिन्द्रियप्रत्यासन्ने निरुपधानत्वादात्मनः सुषुप्त्यवस्थायामनुपलम्भः / एतदेव मनसः शीलमिति कुतो निर्णीतमिति चेत्, अन्वयव्यतिरेकाभ्याम् / न केवलं तस्य किन्तु सर्वेषामेवेन्द्रियाणाम् / न हि विशेषगुणमनपेक्ष्य चक्षुराद्यपि द्रव्ये प्रवर्तते / स्वापावस्थायां कथं ज्ञानमिति चेत् तत्तत्संस्कारोबोधे विषयस्मरणेन स्वप्नविभ्रमाणामुत्पत्तेः / उद्बोध एव कथमिति चेत् / मन्दतरतमादिन्यायेन बाह्यानामेव शब्दादीनामुपलम्भाद् अन्ततः शरीरस्यैवोष्मादेः प्रतिपत्तेः, यदा च मनस्त्वचमपि परिहत्य पुरीतति वर्तते तदा सुषुप्तिः / 66. एकस्य करणस्यैव धर्मो वादकक्रि (यदेकक्रि)याजनकत्वम् न तु बहूनाम्, तेषां एकदाऽनेककार्यकर्तृत्वदर्शनात्, नापि कर्तुस्तस्याप्यनेककर्तृत्वादित्यर्थः / नन्वेकदा मा भूव[न्] बहूनि ज्ञानानि, रूपादिबह्वर्थविषयमेकज्ञानं तु भवत् केन वार्यत इत्याह - नन्विति / आशयमविद्वान् पर आह - भवत्येवेति / आशयमुद्घाटयति - एकेति / प्रतीतिबाधितमपि स्वपक्षरागेण पुरस्करोति - तेष्विति / प्रतीतिबाधमुपपादयति / एकत्राश(स)क्तचित्तस्य विषयान्तरे ज्ञानं न भवतीति सार्वजनीनम्, तेन दृष्टान्तेन विवादसमये क्रमोऽनुमीयते / तथा च प्रयोगः - विवादाध्यासितं रूपादिज्ञानं क्रमवदेकयोगिषु रूपादिज्ञानत्वात् क्रमोत्पन्नरूपादिज्ञानवत् / ननु नात्र विशेषणं रूपादिज्ञानत्वप्रयुक्तं क्रमवत्त्वं किन्तु बुभुत्सितरूपादिज्ञानत्वप्रयुक्तमिति मन्वानः शङ्कते - बुभुत्सेति / अबुभुत्सितानामपि रूपादीनां कदाचित् क्रमेणोपलम्भदर्शनसंशयं विधूतमुपाधिभावम् उक्तसाधनमित्याशयेन परिहरति - नैवमिति / एवं निवारिताभिमानः स्वदर्शनश्रद्धयाऽऽकाशकुशावलम्बनेनापि स्वपक्षरक्षेति [74 A] मन्यमानः शङ्कते - विभुनोऽपीति / एतदप्यवलम्बनं विकल्पानुपपत्ति(त्तिः) शनैरुच्छिनत्ति / तदेवं धर्मिग्राहकप्रमाणादिभिः परोक्ताननुमानप्रयोगान् विस्तरतो निराकृत्य मनसा(सो)ऽणुत्वे प्रमाणान्तरं सूचयन्नुपसंहरति - तस्मादिति / प्रयोगस्तु - अणु अचेतनद्रव्यत्वापरजातिमन्नित्यत्वात् आप्यपरमाणुवदिति। उभयाभिमतप्रमाणसिद्धम् / नन्य(न्व)स्याचेतनत्वद्रव्यत्वापरजातिमत्त्वनित्यत्वं चोभयवादिसम्मतमिति नाश्रयासिद्धयाद्यवकाशः / अचेतनापरजातिमत्त्वनित्यत्वग्रहणैर्यथासङ्ख्यमात्माकाशघटादिभिरनैकान्तिकत्वम् / निरस्तस्पर्शनवत्त्वं च घटादिगतत्वेन साध्यव्यभिचारत्वान्नोपाधिरिति निरवद्यम् / अण्वेवेत्येवकारेण निर्दोषत्वं दर्शयता दूषणान्तरमिति परिहतमिति मतव्यम् / तथा च न विव(रु)द्धानै[कान्ति] कबाधप्रतिरोधान्यतमव्यवहारभाजनमुक्तसाधनम् / सपक्ष(क्षा)न्वितत्वे विपक्षमात्रव्यावृत्तत्वबलवत् प्रमाणानपहृतविषयत्वागृह्यमाणविशेषप्रतिबु(ब)द्धत्वेभ्य इति [वि]वेचनीयम् / एवमु(मौ)पोद्घातिकं मनोवैभवनिराकरणप्रकरणं सम•णुत्वं चोपसंभू(ह)त्य प्रकृतेऽपीति - तथा चेति / ननु यद्यनिन्द्रियप्रत्यासन्नमनसि न ज्ञानं [74 B] तथा कथं स्वप्नप्रत्यया मनसस्तदानी[म्] प्रत्यासन्नत्वात / उपरतेन्द्रियप्रत्यासत्तिविरहे मनसो ज्ञान(ना)जनकत्वं न त स्वात्मादिप्रत्यासत्तिमतोऽपीति मन्वानः परिहरति - तत्तदिति / स्मरणेन प्राप्तेन दोषसादृश्यादिसामग्रीवशा[त्] तदनुभवो जायत इत्यर्थः / न तु संस्कारोऽनुद्रुद्धः स्वकार्यजननाय [समर्थः] न च सदृशदर्शनादिकं विनोद्बोध इत्याशङ्कते - उद्बोध इति / नात्र स्मर्तव्यसदृशवस्तुदर्शनमेवोद्बोधकं किन्तु अदृष्टादिकम्, क्वचिच्च सदृशदर्शनं क्वचिच्च कस्यचिद्द(दर्श)नमिति यथासम्भवेनेत्याशयवानाह - मन्देति / मन्दत्वं गत्वादिविशेषाग्रहे शब्दत्वमात्रग्रहोऽस्फुटत्वमिति यावत् /
Loading... Page Navigation 1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210