SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 84 * वामध्वजकृता सङ्केतटीका चेत्, न / तस्य संयोगातिरिक्तस्य कर्मरूपत्वे वैभवविरोधात् / गुणरूपत्वे नित्यस्य क्रमानुपपत्तेः / अनित्यस्य च नित्यैकगुणस्याविभुद्रव्यसंयोगासमवायिकारणकत्वेन तदन्तरेणानुपपत्तेः / तदपि कल्पयिष्यते इति चेत्, तदेव तर्हि मनःस्थाने निवेश्यतां लाघवाय / तस्मादण्वेव मन इति / तथा च तस्मिन्ननिन्द्रियप्रत्यासन्ने निरुपधानत्वादात्मनः सुषुप्त्यवस्थायामनुपलम्भः / एतदेव मनसः शीलमिति कुतो निर्णीतमिति चेत्, अन्वयव्यतिरेकाभ्याम् / न केवलं तस्य किन्तु सर्वेषामेवेन्द्रियाणाम् / न हि विशेषगुणमनपेक्ष्य चक्षुराद्यपि द्रव्ये प्रवर्तते / स्वापावस्थायां कथं ज्ञानमिति चेत् तत्तत्संस्कारोबोधे विषयस्मरणेन स्वप्नविभ्रमाणामुत्पत्तेः / उद्बोध एव कथमिति चेत् / मन्दतरतमादिन्यायेन बाह्यानामेव शब्दादीनामुपलम्भाद् अन्ततः शरीरस्यैवोष्मादेः प्रतिपत्तेः, यदा च मनस्त्वचमपि परिहत्य पुरीतति वर्तते तदा सुषुप्तिः / 66. एकस्य करणस्यैव धर्मो वादकक्रि (यदेकक्रि)याजनकत्वम् न तु बहूनाम्, तेषां एकदाऽनेककार्यकर्तृत्वदर्शनात्, नापि कर्तुस्तस्याप्यनेककर्तृत्वादित्यर्थः / नन्वेकदा मा भूव[न्] बहूनि ज्ञानानि, रूपादिबह्वर्थविषयमेकज्ञानं तु भवत् केन वार्यत इत्याह - नन्विति / आशयमविद्वान् पर आह - भवत्येवेति / आशयमुद्घाटयति - एकेति / प्रतीतिबाधितमपि स्वपक्षरागेण पुरस्करोति - तेष्विति / प्रतीतिबाधमुपपादयति / एकत्राश(स)क्तचित्तस्य विषयान्तरे ज्ञानं न भवतीति सार्वजनीनम्, तेन दृष्टान्तेन विवादसमये क्रमोऽनुमीयते / तथा च प्रयोगः - विवादाध्यासितं रूपादिज्ञानं क्रमवदेकयोगिषु रूपादिज्ञानत्वात् क्रमोत्पन्नरूपादिज्ञानवत् / ननु नात्र विशेषणं रूपादिज्ञानत्वप्रयुक्तं क्रमवत्त्वं किन्तु बुभुत्सितरूपादिज्ञानत्वप्रयुक्तमिति मन्वानः शङ्कते - बुभुत्सेति / अबुभुत्सितानामपि रूपादीनां कदाचित् क्रमेणोपलम्भदर्शनसंशयं विधूतमुपाधिभावम् उक्तसाधनमित्याशयेन परिहरति - नैवमिति / एवं निवारिताभिमानः स्वदर्शनश्रद्धयाऽऽकाशकुशावलम्बनेनापि स्वपक्षरक्षेति [74 A] मन्यमानः शङ्कते - विभुनोऽपीति / एतदप्यवलम्बनं विकल्पानुपपत्ति(त्तिः) शनैरुच्छिनत्ति / तदेवं धर्मिग्राहकप्रमाणादिभिः परोक्ताननुमानप्रयोगान् विस्तरतो निराकृत्य मनसा(सो)ऽणुत्वे प्रमाणान्तरं सूचयन्नुपसंहरति - तस्मादिति / प्रयोगस्तु - अणु अचेतनद्रव्यत्वापरजातिमन्नित्यत्वात् आप्यपरमाणुवदिति। उभयाभिमतप्रमाणसिद्धम् / नन्य(न्व)स्याचेतनत्वद्रव्यत्वापरजातिमत्त्वनित्यत्वं चोभयवादिसम्मतमिति नाश्रयासिद्धयाद्यवकाशः / अचेतनापरजातिमत्त्वनित्यत्वग्रहणैर्यथासङ्ख्यमात्माकाशघटादिभिरनैकान्तिकत्वम् / निरस्तस्पर्शनवत्त्वं च घटादिगतत्वेन साध्यव्यभिचारत्वान्नोपाधिरिति निरवद्यम् / अण्वेवेत्येवकारेण निर्दोषत्वं दर्शयता दूषणान्तरमिति परिहतमिति मतव्यम् / तथा च न विव(रु)द्धानै[कान्ति] कबाधप्रतिरोधान्यतमव्यवहारभाजनमुक्तसाधनम् / सपक्ष(क्षा)न्वितत्वे विपक्षमात्रव्यावृत्तत्वबलवत् प्रमाणानपहृतविषयत्वागृह्यमाणविशेषप्रतिबु(ब)द्धत्वेभ्य इति [वि]वेचनीयम् / एवमु(मौ)पोद्घातिकं मनोवैभवनिराकरणप्रकरणं सम•णुत्वं चोपसंभू(ह)त्य प्रकृतेऽपीति - तथा चेति / ननु यद्यनिन्द्रियप्रत्यासन्नमनसि न ज्ञानं [74 B] तथा कथं स्वप्नप्रत्यया मनसस्तदानी[म्] प्रत्यासन्नत्वात / उपरतेन्द्रियप्रत्यासत्तिविरहे मनसो ज्ञान(ना)जनकत्वं न त स्वात्मादिप्रत्यासत्तिमतोऽपीति मन्वानः परिहरति - तत्तदिति / स्मरणेन प्राप्तेन दोषसादृश्यादिसामग्रीवशा[त्] तदनुभवो जायत इत्यर्थः / न तु संस्कारोऽनुद्रुद्धः स्वकार्यजननाय [समर्थः] न च सदृशदर्शनादिकं विनोद्बोध इत्याशङ्कते - उद्बोध इति / नात्र स्मर्तव्यसदृशवस्तुदर्शनमेवोद्बोधकं किन्तु अदृष्टादिकम्, क्वचिच्च सदृशदर्शनं क्वचिच्च कस्यचिद्द(दर्श)नमिति यथासम्भवेनेत्याशयवानाह - मन्देति / मन्दत्वं गत्वादिविशेषाग्रहे शब्दत्वमात्रग्रहोऽस्फुटत्वमिति यावत् /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy