SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 85 * न्यायकुसुमाञ्जलि स्तबकः 3 स्वापमुक्त्वा सुषुप्तिमाह - यदेति / परात्मा परस्याप्रत्यक्ष इत्युक्त[म्] तस्या(तत्त्व)युक्तम् स्वस्याप्यप्रत्यक्षत्वप्रसङ्गात् तुल्ययोगक्षेमत्वात् हि(इ)त्याशङ्कते - स्यादेतदिति / _____67. स्यादेतत् / परात्मा तु कथं परस्यायोग्यः / न हि साक्षात्कारिज्ञानविषयतामेवायं न प्राप्नोति / स्वयमप्यदर्शनप्रसङ्गात् / नापि ग्रहीतुरेवायमपराधः / तस्यापि हि ज्ञानसमवायिकारणतयैव तद्योग्यता / नापि करणस्य / साधारणत्वात् / न ह्यासंसारमेकमेव मनः एवमेवात्मानं गृह्णातीत्यत्र नियामकमस्ति / स्वभाव इति चेत्, तर्हि मुक्तौ निःस्वभावत्वप्रसङ्गः / तेदकार्थताया अपायादिति / न / भोजकादृष्टोपग्रहस्य नियामकत्वात् / यद्धि मनो यच्छरीरं यानीन्द्रियाणि यस्यादृष्टेनाकृष्टानि तानि तस्यैवेति नियमः / तदुक्तं प्राक् - प्रत्यात्मनियमाद् भुक्तेरिति / एतेन परबुद्ध्यादयो व्याख्याताः / तदेवं योग्यानुपलब्धिः परात्मादौ नास्ति, तदितरा तु न बाधिकेति तवापि सम्मतम् / अतः किमधिकृत्य प्रतिबन्धिः / न हि शशशृङ्गमयोग्यानुपलब्ध्या कश्चिद् निषेधति / न च प्रकृते योग्यानुपलब्धि कश्चिद् मन्यते / अथायमाशयः / अयोग्यशशशृङ्गादावनुपलब्धिर्न बाधिका स्यादिति / ततः किम् ? तत् सिद्धयेदिति चेत् / एवमस्तु यदि प्रमाणमस्ति / पशुत्वादिकमिति चेत् / परसाधने प्रतिबन्धिस्तर्हि न तद्बाधने / तत्रैव भविष्यतीति चेत् / तत् किं तत्र प्रतिबन्धिरेव दूषणम् / अथ कथञ्चित्तुल्यन्यायतया योग्या एव परात्मबुद्ध्यादयस्ते च बाधिता एवेत्यपहृतविषयत्वम् ? न प्रथमः, अव्याप्तेः / न हि पशुत्वादेः शशशृङ्गसाधकत्वेन कार्यत्वादेः कर्तृमत्त्वादिसाधकत्वं व्याप्तं येन तस्मिन् असति तत् प्रतिषिद्धयेत / न द्वितीयः, मिथोऽनुपलभ्यमानत्वस्य वादिप्रतिवादिस्वीकारात् / तथापि पशुत्वादौ को दोष इति चेत् / न जानीमस्तावत् तद्विचारावसरे चिन्तयिष्यामः / 67. ननु साधारण्यमेव मनसो भविष्यति / किञ्चिन्मनः कमप्यात्मानं ग्रहीतु(तुं) समर्थमित्यत आह - न हीति / तदा ह्यसाधारण्यं मनसो भविष्यति यदेकं मनः एकमेव चेन्द्रिय[म्] न कदाचिदन्यस्य / यदा त्वन्यस्यापीति शङ्कते [75 A] तदैकस्याप्युभयात्मगो[च]रापरोक्षविज्ञप्तिजनकस्वभावत्वमेव मनसो भविष्यतीत्यत आह - मुक्ताविति / निःस्वभावत्वमेकात्मगोचरापरोक्षविज्ञप्तिजनकस्वभावत्वाभावत्वमित्यर्थः / यदीयादृष्टाकृष्टं यन् मनस्तत् तस्यैवेति नियमोपपत्तिः / न चादृष्टेऽपि तदीयत्वनियमः कथमिति वाच्यम् / अदृष्टस्यापि तदीयमनोनिष्पन्नत्वेन न तदीयत्वाद् मनोनिबन्धनोऽदृष्टनियमोऽदृष्टनिबन्धनस्तु मनोनियम इति पूर्वपूर्वादृष्टापेक्षाया अनादित्वाद् बीजाशदिवद् नानवस्थादिदोष इत्यभिप्रायवान् परिहरति - नेति / यथा परात्मनि परमनो न साक्षात्कारविद्वानमर्पयति तथा परबुद्ध्यादावपि तुल्ययोगक्षेमत्वादित्याह - एतेनेति / एवं ज्ञानादित्रयाधारस्य कर्तृत्वस्य परं प्रत्ययोग्यत्वा(त्व)मुभयसिद्धमुभयसिद्धं च शृङ्गास्या]न्ययोगात् / अतो महद्वैषम्यसंभव इति / द्वितीयपदं व्याचष्टे - तदेवमिति / तत् किमपि प्रकृते न किञ्चिद् दूषण[म्] इति, अर्थान्तरनिग्रहस्थानमित्यर्थः / परसाधन इति / पूर्वमिदमुक्तं शशशृङ्गानुमानवदीश्वरानुमानमिदानं(नीं) त्वां(त्वी)श्वरानुमानवच्च [75 B] शशशृङ्गानुमानमित्यर्थः / तत्वे(नन्वे)तदपि भवतामनिष्टमित्याह - तत्रैवेति / उद्भूतरूपस्पर्शकठिनावयवं पशुशिरोवर्ति शृङ्ग लोकप्रसिद्धम् / तादृशस्य 'शृङ्ग'शब्दवाच्यत्वात् / शृङ्गे च साध्ये बाध एव कर्तारं प्रत्ययोग्य एवोभयसंमत इति समर्थितमित्याशयेन विकल्पप्रतिबन्दिमुन्मोचयति / तत्कमिति / मिथ इति / परस्परमनुपलभ्यावतो वादिप्रतिवादिनौ चेति तौ तथा तथा तयोः स्वीकारात् / वादिना प्रत्यक्षानुपलभ्यमान(नं) पर(रः) प्रतिवादी स्वीक्रियते(करोति), प्रतिवादिना च वादीत्यर्थः / प्रतिव(वा)दी निराकृतो[ऽपि] स्वपक्षरागान्धो विशेषमपश्यन्
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy