SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 86 * वामध्वजकृता सङ्केतटीका शङ्कते - तथापीति / बाध एवो(व) दोष इति किं नावबुध्यते / स्वपक्षरागेणानवबोधः, किमस्माभिर्वक्तव्यमित्यर्थः / वक्ताऽज्ञा[न]मुपदर्शयन्नाह - [न जानीम] इति / 68. स्यादेतत् / यत्प्रमाणगम्यं हि यत्, तदभाव एव तस्याभावमावेदयति / यथा रूपादिप्रतिपत्तेरभावश्चक्षुरादेरभावम् / कायवाग्व्यापारैकप्रमाणकश्च परात्मा, तदभाव एव तस्याभावे प्रमाणमङ्करादिषु / तन्न / तदेकप्रमाणकत्वासिद्धेः / अन्यथा सुषुप्तोऽपि न स्यात् / श्वाससन्तानोऽपि तत्र प्रमाणमिति चेत्, न / निरुद्धपवनोऽपि न स्यात् / कायसंस्थानविशेषोऽपि तत्र प्रमाणमिति चेत्, न, विषमूर्छितोऽपि न स्यात् / शरीरोष्मापि तत्र प्रमाणमिति चेत्, न / जलावसिक्तविषमूर्छितोऽपि न स्यात् / तस्माद् यद् यत् कार्यमुपलभ्यते तत् तदनुगुणश्चेतनस्तत्र तत्र सिद्धयति / न च कार्यमात्रस्य क्वचिद् व्यावृत्तिरिति / न च त्वदभ्युपगतेनैव प्रमाणेन भवितव्यं नान्येनेति नियमोऽस्ति / न च प्रमेयस्य प्रमाणेन व्याप्तिः / सा हि कात्र्येन वा स्यात् एकदेशेन वा स्यात् ? न प्रथमः / प्रत्यक्षाद्यन्यतमासद्भावेऽपि तत्प्रमेयावस्थितेः / न द्वितीयः / पुरुषनियमेन सर्वप्रमाणव्यावृत्तावपि प्रमेयावस्थितेः / अनियमेनासिद्धेः / न हि सर्वस्य सर्वदा सर्वथाऽत्र प्रमाणं नास्तीति निश्चयः शक्य इति / कथं तर्हि चक्षुरादेरभावो निश्चयः ? व्यापकानुपलब्धेः / चरमसामग्रीनिवेशिनो हि कार्यमेव व्यापकम्, तन्निवृत्तौ तथाभूतस्यापि निवृत्तिः / योग्यतामात्रस्य कदाचित् कार्यम्, तन्निवृत्तौ तथाभूतस्यापि निवृत्तिः / अन्यथा तत्रापि सन्देहः / प्रकृतेऽपि व्यापकानुपलब्ध्या तत्प्रतिषेधोऽस्तु, न, आश्रयासिद्धत्वात् / न हीश्वरस्तज्ज्ञानं वा क्वचित् सिद्धम् / आभासप्रतिपन्नमिति चेत्, न / तस्याश्रयत्वानुपपत्तेः / प्रतिषेध्यत्वानुपपत्तेश्च // व्यावाभाववत्तैव भाविकी हि विशेष्यता / अभावविरहात्मत्वं वस्तुनः प्रतियोगिता // 2 // 68. ननु युक्तं प्रत्यक्षानुपलभ्यमानयोरपि वादिप्रतिवादिनोः अभ्युपगमः, कायवाग्बुद्ध्यादिलिङ्गैरुपलभ्यमानत्वात् / न चैवं क्षित्यादिकार्तृ]त्वे [इ]त्याशयवानाशङ्कते - स्यादेतदिति / यत्प्रमाणगम्यं हीति / यदेकप्रमाणगम्यं हीत्यर्थः / अत एव सिद्धान्ते तदेकप्रमाणेत्याद्याह / अत्र बाधकमाह - अन्यथेति / [76 प्रमाणक एवेति चेत् / नन्वन्यन्त(त)रव्यापारैकप्रमाणक एव किं न स्वीक्रियते / उभयत्र तदन्वयव्यतिरेकानुविधानस्याविशेषादिति चेत् / एवं तहि कार्यसामान्यमपि कर्तृपूर्वत्वेन स्वारा(स्वभा)वप्रतिबद्धमिति / कायव्यापारादिलक्षणकार्यविशेषनिवृत्तावपि क्षित्यादिकार्यत्वस्य भावात् कर्ता कथं निवर्व्यतीति प्रतिसंदधीथाः / न हि कार्यमात्रप्रमाणोऽस्ति कस्त(कर्ता यस्त)द्विशेषनिवृत्तिमात्रेण निवर्तितुमुत्सहते / न च कार्यसामान्यस्यापि व्यावृत्तिरिति उपसंहारव्याजेन दर्शयति - तस्मादिति / तदेव प्रमाणविशेषनिवृत्तावपि प्रमाणसामान्यसद्भावेन तदेकप्रमाणत्वात् सिद्धिमुपसंहृत्य संप्रति [प्रमाण]प्रमेययोर्व्यापकव्याप्यभावं निराकरोति - न चेति / पुरुषनियमेनेति / एकपुरुषापेक्षयेत्यर्थः / यदि प्रमाणनिवृत्तावपि नाभावः प्रमेयस्य कथं तर्हि क्वचित् पुरुषे रूपाद्युपलब्धिप्रवृत्तौ चक्षुरादिर्भवद्भिरभ्युपगम्यत इत्याशक्य तत्तद्व्यापकनिवृत्तिवशेन तत्तद्व्यापक(व्याप्य)निवृत्तिरिति समाधाय प्रकृतेऽपीश्वरो न कर्ता न ज्ञा[नवान्] सर्वविषय[स्य] [76 B] शरीरित्वज्ञानत्वाभ्या
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy