SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 87 * न्यायकुसुमाञ्जलि स्तबकः 3 मुक्तात्मास्मदादिज्ञानवदिति व्यापकानुपलब्धिरित्याशङ्क्यानुमानमनाश्रयमिति प्रकृतं व्याचष्टे - नाश्रयसिद्धेत्यादि / आभासप्रतिपन्नोऽप्याश्रयो बौद्धानामित्याशक्य तथाविधस्याश्रयत्वे न क्वचिद्धेवु(तु)रनाश्रयत्वमनारब्धिदा(त्वा)देरप्याभासप्रतिपन्नत्वेनाश्रयत्वात् / ततश्च हेतुहेत्वाभासावभ्युपगच्छन्तो बौद्धा आभासप्रतिपन्नमाना अयमेवेति गलेपादि(दु)कयाप्यङ्गीकारयितव्य इत्याशयवानाह - आभासेति / यथा नीलोत्पलस्य प्रमाणसिद्धत्वादिति कृत्वोत्पलं विशेष्यमित्यत्र व्यावृत्त्या नीलाभावं च नोत्पलमिति लोके भण्यते / इह नास्तीति / आश्र[यस्यो]त्पलस्य प्रतियोगित्वम् स्वाभावविरहित्वं प्रमाणसिद्धमिति / तत्वे(तत्त्वी)श्वरादि(दे)रपि वक्तव्य[म्] इत्याशयवानुक्तमर्थं श्लोकेन दृढयति - व्यावत्येति / 69. न चैतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधाधिकरणत्वं निषेध्यता वेति / कथं तर्हि शशशृङ्गस्य निषेधः / न कथञ्चित् / स ह्यभावप्रत्यय एव / न चायमपारमार्थिकप्रतियोगिकः परमार्थाभावो नाम / न चापारमार्थिकविषयं प्रमाणं नामेति / अपि च - दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता / न तस्यां नोपलम्भोऽस्ति नास्ति साऽनुपलम्भने // 3 // केन च शशशृङ्गं प्रतिषिद्ध्यते / सर्वथाऽनुपलब्धस्य योग्यत्वासिद्धेः / तदितरसामग्रीसाकल्यं हि तत् / ननूक्तमाभासोपलब्धं हि तत् / अत एवाशक्यनिषेधमित्युक्तम् / अनुपलम्भकाल आभासोपलम्भसामग्र्या अभावात्, तत्काले चानुपलम्भाभावादिति / कस्तर्हि शशशृङ्गं नास्तीत्यस्यार्थः / शशे अधिकरणे विषाणाभावोऽस्तीति / स्यादेतत् / यद्यपीश्वरो नावगतो, यद्यपि च नाभाससिद्धेन प्रमाणव्यवहारः शक्यसम्पादनः, तथाप्यात्मानः सिद्धास्तेषां सार्वज्यं निषिद्धयते, क्षित्यादिकर्तृत्वं चेति / तथाहि / मदितरे न सर्वज्ञाश्चेतनत्वादहमिव, न च ते क्षित्यादिकर्तारः पुरुषत्वादहमिव / एवं वस्तुत्वादेरपीति / तदेतदपि प्रागेव परिहृतम् / तथाहि - इष्टसिद्धिः प्रसिद्ध अंशे हेत्वसिद्धिरगोचरे / नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा // 4 // प्रमाणेन पतीतानां चेतनानां पक्षीकरणे सिद्धसाधनम् / ततोऽन्येषामसिद्धौ हेतोराश्रयासिद्धत्वम् / आत्मत्वमात्रेणा सोऽपि सिद्ध इति चेत् / कोऽस्यार्थः ? किं आत्मत्वेनोपलक्षिता सैव वस्तुगत्या सर्वज्ञविश्वकर्तृव्यक्तिः, अथ तदन्या, आत्मत्वमेव वा पक्षः ? सर्वत्र पूर्वदोषानतिवृत्तेः / अथायमाशयः / आत्मत्वं न सर्वज्ञसर्वकर्तृव्यक्तिसमवेतम्, जातित्वात्, गोत्ववदिति / तदसत् / निषेध्यासिद्धेनिषेधस्याशक्यत्वात् / तथा चाप्रसिद्धविशेषणः पक्ष इत्याश्रयासिद्धिरिति स एव दोषः / त्वदभ्युपगमैर्लोकप्रसिद्ध्या च प्रसिद्धस्यैवेश्वरस्यासर्वज्ञत्वमकर्तृत्वं च साध्यते इति चेत्, न / _ आगमादेः प्रमाणत्वे बाधनादनिषेधनम् / आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता // 5 // निगदव्याख्यातमेतत् / चार्वाकस्त्वाह किं योग्यताविशेषाग्रहणेन ? यन्नोपलभ्यते तन्नास्ति,
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy